(अथ द्वितीयाष्टके पञ्चमप्रपाठके दशमोऽनुवाकः)।
त्रीँ स्तृ॒चाननु॑ ब्रुयाद्राज॒न्य॑स्य॒ त्रयो॒ वा
अ॒न्ये रा॑ज॒न्या॑त्पुरु॑षा ब्राह्म॒णो वैश्यः॑ शू॒द्र
स्ताने॒वास्मा॒ अनु॑कान्करोति॒ पञ्च॑द॒शानु॑ ब्रु
याद्राज॒न्य॑स्य पञ्चद॒शो वै रा॑ज॒न्यः॑ स्व ए॒वै-
नँ॒ स्तोमे॒ प्रति ष्ठापयति त्रि॒ष्टुभा॒ परि॑ द-
ध्यादिन्द्रि॒यं वै त्रि॒ष्टुगि॑न्द्रि॒यका॑मः॒ खलु॒ वै
[[1338]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— (२ द्वितीयकाण्डे—
(काम्यसामिधेनीनेमित्तिकसामिधेनीनामभिधानम्)
रा॑ज॒न्यो॑ यजते त्रि॒ष्टभै॒वास्मां॑ इन्द्रि॒यं परि॑
गृह्णाति॒ यदि॑ का॒मये॑त (१) ब्र॒ह्म॒व॒र्च॒स-
म॒स्त्विति गायत्रि॒या परि॑ दध्याद्ब्रह्मवर्च॒सं
वै गा॑य॒त्री ब्र॑ह्मवर्च॒समे॒व भ॑वति स॒प्तद॒शानु॑
ब्रूया॒द्वैश्य॑स्य सप्तद॒शो वै वैश्यः॒ स्व ए॒वै-
नँ॒ स्तोमे॒ प्रति॑ ष्ठापय॑ति॒ जग॑त्या॒ परि॑
दध्या॒ज्जाग॑ता॒ वै प॒शवः॑ प॒शुका॑मः॒ खलु॒ वै
वैश्यो॑ यजते॒ जग॑त्यै॒वास्मै॑ प॒शून्परि॑ गृह्णा॒-
त्येक॑विँ शति॒मनु॑ ब्रूयात्प्रति॒ष्ठाका॑मस्यैक-
विँ॒ शः स्तोमा॑नां प्रति॒ष्ठा प्रति॑ष्ठित्यै (२)
चतु॑र्विँति॒मनु॑ ब्रुयाद्ब्रह्मवर्च॒सका॑मस्य॒
चतु॑र्विँ शत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं
गा॑यत्रि॒यैवास्मै॑ ब्रह्मवर्च॒समव॑ रुन्धे त्रिँ॒ श-
त॒मनु॑ ब्रुया॒दन्न॑कामस्य त्रि॒ ँशद॑क्षरा वि॒-
राडन्नं॑ वि॒राड्विराजै॒वास्मा॑ अ॒न्नाद्य॒मव॑ रुन्धे॒
द्वात्रिँ॑ शत॒मनु॑ ब्रुयात्प्रति॒ष्ठाका॑मस्य॒ द्वात्रिँ॑
शदक्षराऽनु॒ष्टुग॑नु॒ष्टुप्छन्द॑सां प्रति॒ष्ठा प्र—
ति॑ष्ठित्यै षट्त्रिँ॑ शत॒मनु॑ ब्रुयात्प॒शुका॑—
मस्य॒ षट्त्रिँ॑ शदक्षरा बृह॒ती बार्ह॑ताः प—
श॒वो॑ बृह॒त्येवास्मै॑ प॒शून् ( ३ ) अव॑ रुन्धे॒
[[1339]]
प्रपा. ५ अनु. १०) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अभ्युदयेष्ट्यादीष्टित्रयविधिः)
चतु॑श्चत्वारिँ शत॒मनु॑ ब्रुयादिन्द्रि॒यका॑म
स्य॒ चतु॑श्चत्वारिँ शदक्षरा त्रि॒ष्टुगि॑न्द्रि॒यं
त्रि॒ष्टुप्त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यमव॑ रुन्धे॒ऽष्टा
च॑त्वारिँ शत॒मनु॑ ब्रुयात्प॒शुका॑मस्या॒ष्टाच॑
त्वारिँ शदक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒
जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे॒ सर्वा॑णि॒ छन्दाँ॒
स्यनु॑ ब्रुयाद्वहुया॒जि॑नः॒ सर्वा॑णि॒ वा ए॒तस्य॒
छन्दाँ॒ स्यव॑रुद्धानि॒ यो ब॑हुया॒ज्यप॑रिमित॒मनु॑
ब्रुया॒दप॑रिमित॒स्याव॑रुद्ध्यै ( ४ ) ।।
(का॒मये॑त॒ प्रति॑ष्ठित्यै प॒शून्त्स॒प्तच॑त्वारिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
पञ्चमप्रपाठके दशमोऽनुवाकः ।। १० ।।
(अथ द्वितीयाष्टके पञ्चमप्रपाठके दशमोऽनुवाकः)।
व्याख्याता नवमे स्पष्टं प्रवरा निगदादयः।
अथ दशमे नैमित्तिक्यः काम्याश्च सामिधेन्य उच्यन्ते।
…
[[1340]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— (२ द्वितीयकाण्डे—
(काम्यसामिधेनीनैमित्तिकसामिधेनीनामभिधानम्)
…
…
…
…
…
…
[[1341]]
प्रपा. ५ अनु. ५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्यसामिधेनीनैमित्तिकसामिधेनीनामभिधानम्)
…
…
…
…
…
…
…
…
…
[[1342]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—- (२ द्वितीयकाण्डे—
(काम्यसामिधेनीनैमित्तिकसामिधेनीनामभिधानम्)
…
…
अत्र मीमांसा।
तृतीयाध्यायस्य षष्ठपादे चिन्तितम्—
“सामिधेनीः सप्तदश प्रकृतौ विकृतावुत।
पूर्ववत्प्रकृतौ पाञ्चदश्येनैतद्विकल्पते।।
विकृतौ साप्तदश्यं स्यात्प्रकृतौ प्रक्रियाबलात्।
पाञ्चदश्यावरुद्धत्वादाकाङ्क्षाया निवृत्तितः” ।
अनारभ्य श्रूयतेः—-‘सप्तदश सामिधेनीरनुब्रूयात्’ इति। प्र वो वाजा अभिद्यव इत्याद्या अग्निसमिन्धनार्था ऋचः सामिधेन्यः। तासां साप्तदश्यं पूर्वन्यायेन प्रकृतिगतम्। यदि प्रकृतौ पञ्चदश सामिधेनीरन्वाहेति विधिः स्यात्तर्हि पाञ्चदश्यं साप्तदश्यं च विकल्पेयातामिति प्राप्ते ब्रूमः—विकृतावेव साप्तदश्यं निविशते। प्रकृतौ पञ्चदश्येनावरुद्धानां सामिधेनीनां संख्याकाङ्क्षाया अभावात्। न च पाञ्चदश्यासाप्तदश्ययोः समानबलत्वादवरोधाभाव इति शङ्कनीयम्। पाञ्चदश्ये प्रकरणानुग्रहस्याधिकत्वात्। तस्मान्मित्रविन्दाध्वरकल्पादिविकृतौ साप्तदश्यमवतिष्ठते। न चात्र पूर्वन्यायोऽस्ति। साप्तदश्यस्य चोदकप्राप्त्यभावेन पुनर्विधानदोषाभावात्।
तत्रैवान्यच्चिन्तितम्—
“साप्तदश्यं तु वैश्वस्य विकृतौ प्रकृतावुत।
पूर्ववच्चेन्न संकोचान्नित्ये नैमित्तिकोक्तितः।।
[[1343]]
प्रपा. ७ अनु. १०) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्यसामिधेनीनैमित्तिकसामिधेनीनामभिधानम्)
गोदोहनेन प्रणयेत्कामीत्येतदुदाहरत्।
भाष्यकारस्तदप्यस्तु न्यायस्यात्र समत्वतः” ।।
सप्तदशानुब्रुयाद्वैश्यस्येति विहितं वैश्यनिमित्तं साप्तदश्यं पूर्तन्वायेन विकृतिगामीति चेन्मैवम्। नैमित्तिकेनानेन वचनेन प्रकृतिगतस्य नित्यस्य पाञ्चदश्यस्ववैश्यव्यतिरिक्तविषयतया संकोचनीयत्वात्। नित्यं सामान्यरूपतया सावकाश त्वेन च दुर्बलं, नैमित्तिक तु विशेषरूपत्वनिरवकाशत्वाभ्यां प्रबलम्। तस्माद्वैश्यनिमित्तकं साप्तदश्यं प्रकृताववतिष्ठते। अत्र भाष्यकारोऽन्यदुदाजहार—-‘चमसेनापः प्रणयेद्गोदोहनेन पशुकामस्य’ इति। तत्र प्रकृतेश्चमसेनावरुद्धत्वाद्गोदोहनं विकृताविति पूर्वः पक्षः। कामनानिमित्तकेन गोदोहनेन नित्यस्य चमसस्य निष्कामविषयतया संकोचनीयत्वात्प्रकृतावेव गोदोहनमिति सिद्धान्तः। दशमाध्यायस्याष्टमपादे चिन्तितम्—
“सामिधेनीसाप्तदश्यं वैमृधादावपूर्वगीः।
संहृतिर्वोपकारस्य क्लृप्त्याऽऽस्द्योऽत्वाज्यभागवत्।
सामिधेन्यश्चोदकाप्ताः साप्तदश्यं तु वैमृधे।
पुनर्वाक्येन संहार्यमनारभ्योक्तिचोदित्”।।
अनारभ्य किंचिदाम्नायते—“सप्तदश सामिधेनीरनुब्रूयात्” इति। तथा वैमृधेऽध्वरकल्पायां पशौ मित्रविन्दायामाग्रयणेष्टयादौ च पुनः साप्तदश्यं विहितम्। यद्यप्यनारभ्याधीतानां प्रकृतिगामित्वं न्याय्यं तथाऽपि श्रुतेन पाञ्च दश्येनावरुद्धत्वाद्विकृतिष्वेतन्निविशते। तथा सति वैमृधादिविकृतिष्वनारभ्यगादप्राप्ताः सप्तदश सामिधेन्यः प्राकरणिकेन विधिना पुनर्विधीयमाना गृहमेधीयाज्यभागवत्क्लृप्तोकारकत्वेनेतिकर्तव्यताकाङ्क्षां पूरयन्त्यश्चोदकं लोपयन्त्यो वैमृधादेरपूर्वकर्मतां गमयन्ति। साप्तदश्यं त्वनारभ्यवादप्राप्तमनूद्यत इति प्राप्ते ब्रूमः- वैमृधादिषु सामिधेन्य आज्यभागवन्न विधीयन्ते, किंतु चोदकप्रा-
[[1344]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—–(२ द्वितीयकाण्डे—
(काम्यसामिधेनीनैमित्तिकसामिधेनीनामभिधानम्)
प्तास्ता अनूद्य साप्तदश्यं विधीयते। तत्र साप्तदश्यं वैमृधादिप्रकरणेष्वाम्नातैर्विधिभिः कासुचिदेव विकृतिषु प्राप्तम्। अनारभ्यवादेन तु सर्वासु विकृतिषु । तत्रानारभ्यवादो विलम्बते। प्रथमं विधेयस्य साप्तदश्यस्य सामिधेनीसंबन्धमवबोध्य तत्संबन्धान्यथानुपपत्या क्रतुसंबन्धं परिकल्प्य प्रकृतौ पाञ्चदश्यपराहतत्वेन विकृतिषु सर्वासु प्रवेशः क्रियत इति विलम्बः। प्राकरणिकैर्वि धिभिः सामिधेनीसंबन्ध एव बोधनीयः। क्रतौ तद्विशेषे च प्रवेशो न बोधनी यः। प्रत्यक्षप्रकरणेनैव तत्सिद्धेः। तत्र साप्तदश्यस्य वैमृधादिविकृतिविशेष संबन्धे सहसा प्रतिपन्ने सति तद्विरोधी विकृतिसंबन्धो न कल्पयितुं शक्यः। अनारभ्यवादस्तु वैमृधादिषु प्राप्तस्य नित्यानुवादोऽस्तु यद्वा प्रकरणविधिवैमृधादिषु साप्तदश्यस्य प्रापकः। अनारभ्यवादस्तु चोदकप्राप्तस्य पाञ्चदश्यस्य बाधकः। सर्वथाऽपि चतुर्धाकरणबदुपसंहारो न त्याज्यभागवदपूर्वं कर्म। तत्रैव पत्र्चमपादे चिन्तितम्—-
“सामिधेनीविवृद्धौ किमागमोऽभ्यस्यतामुत।
आगमः पूर्ववन्मैवमभ्यासप्रकृतित्वतः।।
तत्राप्याद्यन्तयोर्यावत्पूर्त्यभ्यासो यथोक्ति वा।
अभ्यस्याऽऽगमतः पूर्तिः पूरणार्थत्वतोऽग्रिमः।।
त्रित्वं न पूरणायोक्तमन्यथाऽप्यत्र पूरणात्।
विवक्षितमबाधित्वा भवेत्पूरणमागमात् ” ।।
दर्शपूर्णमासयोः पञ्चदश सामिधेनीर्विधाय काम्या तद्वृद्धिर्विधीयत—“एकविँ शतिमनुब्रूयात्प्रतिष्ठाकामस्य” इत्यादिना। यथा बहिष्पवमान ऋगागमस्तथाऽत्रापीति प्राप्ते ब्रूमः एकादशभिः पठिताभिः पञ्चदशसंख्याया अपूर्ता वृगन्तरागमनेन तत्पूरणं न कृतं, किंतु तत्पूरणायाभ्यासो विहितः—-“ त्रिःऽ
[[1345]]
प्रपा. ५ अनु. ११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सामिधेनीषू होतृ नियमविशेषाध्वर्य्वाधारविशेषयोरभिधानम्)
प्रथमामन्वाह त्रिरुत्तमाम्” इति। अतः काम्यानामभ्यासेन पूरणं युक्तम्। अभ्यासपक्षेऽपि यावत्कृत्वोऽभ्यासे सत्येकविंशतिसंख्या पूर्यते तावत्कृत्वः प्रथमोत्तमे अभ्यसनीये। कुतः। विहितस्य त्रिरभ्यासस्य पूरणार्थत्वदर्शनात्। मैवम्। न हि त्रित्वं पूरणार्थं विहितम्। प्रथमाया द्विरभ्यासेनोत्तमायाश्चतुरभ्यासेन पञ्चदशसंख्या पुरणात्। अतो विवक्षितं त्रित्वम्। तथा सति तदेवाधाय प्रथमोत्तमे त्रिरभ्यस्य षण्णामृचामागमेनैकविंशसंख्या पूरणीया।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके
दशमोऽनुवाकः ।। १० ।।