०६

(अथ द्वितीयाष्टके पञ्चमप्रपाठके षष्ठोऽनुवाकः)।
ए॒ष वै दे॑वर॒थो यद्द॑र्शपूर्णमासो यो द॑र्श-
पूर्णमा॒सावि॒ष्ट्वा सोमे॑न॒ यज॑ते॒ रथ॑स्पष्ट
ए॒वाव॒साने॒ वरे॑ दे॒वाना॒मव॑ स्यत्ये॒तानि॒ वा
अङ्गा॒परूँ॑षि संवत्स॒रस्य॒ यद्द॑र्शपूर्णमा॒सौ
यए॒वं वि॒द्वान्द॑र्शपूर्णमा॒सौ यज॒तेऽङ्गापरूँ॑
ष्ये॒व सं॑वत्स॒रस्य॒ प्रति॑ दधात्ये॒ते वै संवत्स॒
रस्य॒ चक्षु॑षी॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वं वि॒द्वा॒-
न्द॑र्शपूर्णमा॒सौ यज॑ते॒ ताभ्या॑मे॒व सु॑व॒र्गं लो॒क-
मनु॑ पश्यति (१) ए॒षा वै दे॒वानां॒ विक्रा॑-
न्ति॒र्यद्द॑र्शपूर्णमा॒सौ य ए॒वं वि॒द्वान्द॑र्शपूर्ण-
मा॒सौ यज॑ते दे॒वाना॑मे॒व विक्रा॑न्ति॒मनु॒ वि-
क्र॑मत ए॒ष वै देव॒यानः॒ पन्था॒ यद्द॑र्शपूर्ण-
मासौ॒ य ए॒वं वि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते य
ए॒व देव॑यानः॒ पन्था॒स्तँ स॒मारोहत्ये॒तौ वै
दे॒वानाँ॒ हरी॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वं वि॒द्वा-
न्द॑र्शपूर्णमा॒सौ यज॑ते॒ यावे॒व दे॒वानाँ॒ हरी॒
ताभ्या॑म् (२) ए॒वैभ्यो॑ ह॒व्यं व॑हत्ये॒तद्वै दे॒-
वाना॑मा॒स्यं॑ यद्द॑र्शपूर्णमा॒सौ य ए॒वं वि॒द्वा-
न्द॑र्शपूर्णमा॒सौ यज॑ते सा॒क्षादे॒व दे॒वाना॑मा॒स्ये॑
जुहोत्ये॒प वै ह॑विर्धा॒नी यो द॑र्शपूर्णमासया॒जी
सा॒यंप्रा॑तरग्निहो॒त्रं जु॑होति॒ यज॑ते दर्शपूर्ण

[[1309]]

प्रपा. ५ अनु. ६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यविधिः)
मा॒साव॑हरहर्हविर्धा॒निनाँ॑ सु॒तो य एवं वि॒-
द्वान्द॑र्शपूर्णमा॒सौ यज॑ते हविर्धा॒न्य॑स्मीति॒
सर्व॑मे॒वास्य बर्हि॒ष्यं॑ द॒त्तं भ॑वति दे॒वा वा
अहः॑ (३) य॒ज्ञियं॒ नावि॑न्द॒न्ते द॑र्शपूर्णमा॒-
साव॑पुन॒न्तौ वा ए॒तौ पू॒तौ मेध्यौ॒ यद्द॑र्शपूर्ण-
मा॒सौ य ए॒वं वि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते
पू॒तावे॒वैनौ॒ मेध्यौ॑ यजते नामा॑वा॒स्या॑यां च
पौर्णमा॒स्यां च॒ स्त्रिय॒मुपे॑या॒द्यदु॑पे॒यान्निरि॑न्द्रि
यः स्या॒त्सोम॑स्य॒ वै राज्ञो॑ऽर्धमा॒सस्य॒ रात्र॑यः
पत्न॑य आस॒न्तासा॑ममावा॒स्यां॑ च पौर्ण-
मा॒सीं च॒ नोपैत् (४) ते ए॑नम॒भि सम॑न-
ह्येतां॒ तं यक्ष्म॑ आर्छ॒द्राजा॑नं॒ यक्ष्म॑ आर॒दिति॒
तद्रा॑जय॒क्ष्मस्य॒ जन्म॒ यत्पापी॑या॒नभ॑व॒त्तत्पा॑पय-
क्ष्म॒स्य॒ यज्जा॒याभ्या॒मवि॑न्द॒त्तज्जा॒येन्य॑स्य॒ य
ए॒वमे॒तेषां॒ यक्ष्मा॑णां॒ जन्म॒ वेद॒ नेन॑मे॒ते
यक्ष्मा॑ विन्दति॒ स ए॒ते ए॒व न॑म॒स्यन्नुपा॑धा-
व॒त्ते अ॑ब्रूतां॒ वरं॑ वृणावहा आ॒वं दे॒वानां॑
भाग॒धे अ॑साव (५) आ॒वदधि॑ दे॒वा इ॑-
ज्यान्ता॒ इति॒ तस्मोत्स॒दृशींनाँ॒ रात्री॑णाम-
मावा॒स्या॑यां च पौर्णमा॒स्यां च॑ दे॒वा इ॑ज्यन्त
ए॒ते हि दे॒वानां॑ भाग॒धे भा॑ग॒धा अ॑स्मै म-

[[1310]]

श्रीमत्सायणाचार्यविरचितभाष्येसमेता—-(२ द्वितीयकाण्डे—
(दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यविधिः)
नु॒ष्या॑ भवन्ति॒ य ए॒वं वेद॑ भू॒तानि॒ क्षुध॑मघ्न-
न्त्स॒द्यो म॑नु॒ष्या॑ अर्धमा॒से दे॒वा मा॒सि पि॒-
तरः॑ संवत्स॒रे वन॒स्पत॑यस्त॒स्मा॒द॑ह॒रहर्मनु॒ष्या॑
अशनमिच्छन्तेऽर्धमासे देवा इ॑ज्यन्ते मासि
पि॒तृभ्यः॑ क्रियते संवत्स॒रे वन॒स्पत॑यः॒ फलं॑
गृह्णन्ति॒ य ए॒वं वे॒द हन्ति॒ क्षुधं॒ भ्रातृ॑व्यम्
(६)।।
(प॒श्य॒ति॒ ताभ्या॒मह॑रदैसाव॒ फलँ स॒प्त च॑ ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायं द्वितीयाष्टके
पञ्चमप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।

(अथ द्वितीयकाण्डे पञ्चमप्रपाठके षष्ठोऽनुवाकः)।
पञ्चमेऽभ्युदयेष्ट्याद्यास्तिस्त्र इष्टय ईरिताः।


[[1311]]

प्रपा. ७ अनु. ५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(दर्श पूर्णमासयोः सोमयागेन सह पौर्वापर्यविधिः)









[[1312]]

श्रीमत्सायणाचार्यविरचितभाष्येसमेता—-(२ द्वितीयकाण्डे-
(दर्श पूर्णमासयोः सोमयागेन सह पौर्वापर्यविधिः)




[[1313]]

प्रपा. ५ अनु. ७) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(हौत्रविवक्षया सामिधेनीव्याख्यानम् )