(अथ द्वितीयाष्टके पञ्चमप्रपाठके पञ्चमोऽनुवाकः)।
नासो॑मयाजी॒ सं न॑येदना॑गतं॒ वा ए॒तस्य॒
पयो॒ योऽसो॑मयाजी॒ यदसो॑मयाजी सं नये॑-
त्परिमो॒ष ए॒व सोऽनृ॑तं करो॒त्यथो॒ परै॒व सि॑
च्यते सोमया॒ज्ये॑व सं न॑ये॒त्पयो॒ वै सोमः॒
पयः॑ सांना॒य्यं पय॑सै॒व पय॑ आ॒त्मन्ध॑त्ते॒ वि
वा ए॒तं प्र॒जया॑ प॒शुभि॑रर्धयति व॒र्धय॑त्यस्य॒
भ्रातृ॑व्यं॒ यस्य॑ ह॒विर्निरु॑प्तं पु॒रस्ता॑च्च॒न्द्रमाः॑
(१) अ॒भ्यु॑देति॑ त्रे॒धा त॑ण्डुलान्वि भ॑जे॒द्ये
म॑ध्य॒माः स्युस्तान॒ग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टा-
क॑पालं कुर्या॒द्ये स्थावि॑ष्ठा॒स्तानिन्द्रा॑य प्रदा॒त्रे
द॒धँश्च॒रुं येऽणि॑ष्ठा॒स्तान्विष्ण॑वे शिपिवि॒-
ष्टाय॑ शृ॒ते च॒रुम॒ग्निरे॒वास्मै॑ प्र॒जां प्र॑ज॒नय॑ति
वृ॒द्धामिन्द्रः॒ प्र य॑च्छति यज्ञो वै विष्णुः॑ प॒-
शवः॒ शिपि॑र्य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति॒ न
द्वे (२) य॒जे॒त॒ यत्पूर्व॑या संप्र॒ति यजे॒तोत्त॑-
रया छ॒म्बट्कु॑र्या॒द्यदुत्तर॑या संप्र॒ति यजे॑त॒
पूर्व॑या छ॒म्बट्कु॑र्या॒न्नेष्टि॒र्भव॑ति॒ न य॒ज्ञस्तदनु॑
ह्रीतमु॒ख्य॑पग॒ल्भो जा॑यत॒ एका॑मे॒व य॑जेत
प्रग॒ल्भो॑ऽस्य जाय॒तेऽना॑दृत्य॒ तद्द्वे ए॒व य॑जेत
यज्ञमु॒खमे॒व पूर्व॑या॒ऽऽलभ॑ते॒ यज॑त उत्त॑-
[[1298]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(२ द्वितीयकाण्डे—
(अभ्युदयेष्ट्यादीष्टित्रयविधिः)
रया देवता॑ एव पूर्व॑याऽवरु॒न्ध इ॑न्द्रि॒यमुत्त॑
रया देवलो॒कमेव॒ (३) पूर्व॑याऽभि॒जय॑ति
मनुष्यलो॒कमुत्त॑रया॒ भूय॑सो यज्ञक्र॒तूनुपै॑त्ये॒षा
वै सु॒मना॒ नामेष्टी॒र्यम॒द्येजा॒नं प॒श्चाच्च॒न्द्रमा॑
अ॒भ्यु॑देत्य॒स्मिन्ने॒वास्मै॑ लो॒केऽर्धु॑कं भवति
दाक्षायणय॒ज्ञेन॑ सुव॒र्गका॑मो यजेत पू॒र्णमा॑से॒
सं न॑येन्मैत्रावरु॒ण्याऽऽभिक्ष॑याऽमावा॒स्या॑यां
यजेत पूर्णमा॑से॒ वै दे॒वानाँ॑ सु॒तस्तेषा॑मे॒तम॑
र्धमा॒सं प्रसु॑त॒स्तेषां॑ मैत्रावरु॒णी व॒शाऽभा॑वा॒
स्या॑यामनूबन्ध्या॑ यत् (४) पू॒र्वे॒द्युर्यजते॒
वेदि॑मे॒व तत्क॑रोति॒ यद्व॒त्सान॑पाक॒रोति॑ सदो
हविर्धा॒ने ए॒व सं मि॑नोति॒ यद्यज॑ते दे॒वै
रे॒व सु॒त्याँ सं पा॑दयति॒ स ए॒तम॑र्धमा॒सँ
स॑ध॒मादं॑ दे॒वैः सोमं॑ पिवति॒ यन्मै॑त्रावरु॒ण्याऽऽ
भिक्ष॑याऽमावा॒स्या॑यां॒ यज॑ते॒ यैवासौ दे॒
वानां व॒शानू॑ब॒न्ध्या॑ सो एवैषैतस्य॑ सा॒क्षाद्वा
ए॒ष दे॒वान॒भ्यारोहति॒ य ए॑षां य॒ज्ञम् (५)
अ॒भ्या॒रोह॑ति॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः
का॒मय॑ते॒ तथा॑ करोति॒ यद्य॑व॒विध्य॑ति॒ पापी॑
यान्भवति॒ यदि॒ नाव॒विध्य॑ति स॒दृङ्व्या॒वृ
त्का॑म ए॒तेन॑ य॒ज्ञेन॑ यजेत क्षुरप॑वि॒र्ह्ये॑ष य॒ज्ञ
स्ता॒जक्पुण्यो॑ वा॒ भव॑ति॒ प्र वा॑ मीयते॒ त-
[[1299]]
प्रपा. ५ अनु.५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अभ्युदयेष्ट्यादीष्टित्रयविधिः)
स्यै॒तद्व्र॒तं नानृ॑तं वदे॒न्न माँ॒ सम॑श्रीया॒न्न
स्त्रिय॒मपे॑यान्नास्य॒ पल्पू॑लनेन॒ वासः पल्पूल-
येयुरे॒ताद्धि देवाः सर्वं॒ न कुर्वन्ति॑ (६)।।
(च॒न्द्रमा॒ द्वे दे॑वलो॒कमे॒व यद्य॒ज्ञं प॑ल्पूलयेयुः॒षट्च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
पञ्चमप्रपाठके पञ्चमोऽनुवाकः ।। ५।।
(अथ द्वितीयकाण्डे पञ्चमप्रपाठके पञ्चमोऽनुवाकः)।
द्विधा चतुर्थे पुभेदात्प्रोक्ता सांनाय्यदेवता।
अथ पञ्चमेऽभ्युदयेष्ट्यादयो वक्तव्याः।
…
…
…
…
…
…
…
…
…
…
…
…
…
[[1302]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(२ द्वितीयकाण्डे
(अभ्युदयेष्ट्यादीष्टित्रयविधिः)
…
…
…
…
…
…
…
…
…
[[1303]]
प्रपा. ५ अनु.२) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अभ्युदयेष्ट्यादीष्टित्रयविधिः)
…
अत्रः मीमांसा।
षष्ठाध्यायस्य पञ्चमपादे चिन्तितम्—
“इष्टिरभ्युदये दर्शात्कर्मान्यदुत देवताः।
पूर्वास्त्याज्या विशिष्टस्य विधानादन्यकर्म तत्।
प्रकृतप्रत्यभिज्ञानान्न कर्मान्तरचोदना।
देवताः प्राकृतास्त्यक्त्वा द्रव्यमन्याभ्य उच्यते” ।।
दर्शपूर्णमासयोः श्रूयते—-‘यस्य हबिर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशकपालं कुर्याद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दध ँश्चरुं येऽणिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुम्’ इति। अयमर्थः—दशंभ्रान्त्या केनचिच्चतुर्दश्यां हविर्निरुप्तं भवति। ततः प्रत्यूषे पूर्वस्यां दिशि चन्द्रमा अभ्युदेति तदा निरुप्तास्तण्डुलास्त्रेधा विभक्तव्याः। अखण्डिता ईषाखण्डिता अतिसूक्ष्मकणाश्चेति त्रैविध्यम्। ते च त्रिविधा दात्रादिगुणविशिष्टेभोऽग्न्यादिभ्यो देवेभ्य इति। तत्रेदं प्रक्रान्तदर्शकर्मणोऽन्यत्कर्म। कुतः। कालापराधप्रायश्चित्तार्थं द्रव्यदेवताविशिष्टस्य कर्मणो विधीयमानत्वात्। तत इदं प्रायश्चित्तं कृत्वा परेद्युरनुष्ठेयमिति प्राप्तेः ब्रूमः। हविरर्निरुप्यमिति प्रकृतं यद्दर्शकर्म तत्परित्यज्य कर्मान्तरविधिकल्पने प्रकृतहानाप्रकृतागमौ प्रसज्येयाताम्। अतस्तस्मिन्नेव प्रकृते कर्माणि निरुप्तस्य हविषः पूर्वदेवताभ्यो दर्शसंबन्धिनीभ्योऽपनयोऽत्राभिधीयते। तण्डुलोपलक्षितं यद्धविर्दधिरूपं व्रीहिरूपं च पूर्वेद्युर्निरुप्तं तद्धविः पूर्वदेवतात्मनोऽग्नेरिन्द्राच्च विभजेदिति देवताहविषो परस्परविभागोऽत्र विधीयते, न तु तण्डुलानां स्थविष्ठमध्यमाणिष्ठरूपस्त्रिविधो विभागो विधीयते। तस्य
धनुश्चिहूनान्तर्गतग्रन्थस्थाने ख. पुस्तके सोऽयं दर्शपूर्णमासयोः प्रक्रमोऽनेन दर्शपूर्णमासाभ्यां यजेत तेन पञ्च वर्षाणीष्ट्वा विरमेद्यजेत वा। इति पाठान्तरम्।
[[1304]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(२ द्वितीयकाण्डे—
(अभ्युदयेष्टयादीष्टित्रयविधिः)
प्राप्तत्वात्। ये मध्यमाः स्युरिति विनियोगभेदादर्थप्राप्तः, स विभागः। ततः पूर्वदेवतास्त्यक्त्वा दातृत्वादिगुणयुक्ताभ्यो वह्न्यादिदेवताभ्यः पूर्वं निरुप्तं हविः प्रदातव्यम्। ननु प्रतिपदि प्रातर्निर्वापकालो न तु दर्शे। तथाऽपि दर्शभ्रान्त्याऽपि चतुर्दश्यां निर्वापाभावान्निर्वापादूर्ध्वं चन्द्रोदयो न प्राप्नोति। नैष दोषः। दध्नो द्व्यहकालीनत्वेनार्थसिद्धेः (द्धे) पूर्वेद्युर्दोहनातञ्चने, तदभिप्रायेण निरुप्तमित्युच्यते। यद्वा व्रीहिनिर्वापोऽपि पूर्वेद्युर्विकल्पितः । तथा च श्रूयते –‘यदि बिभीयादभि मोदेष्यतीति महारात्रे हवींषि निर्वपेत्’ इति। अथमर्थः भ्रान्त्या प्रमादेन वा दर्शोऽयमित्याभिनिश्चितवतो मां प्रति चन्द्रोऽभ्युदेष्यतीति भीतिरस्ति तदा तस्मिन्नेव दिने महारात्रे सर्वाणि निर्वपेदिति। अतो निरुप्तस्यैव हविषोऽस्मिन्नेव कर्मणि कालव्यत्यासं निमित्तीकृत्य देवतान्तरसंयोगरूपः प्रयोगप्रकारभेद उपदिष्यते। ततो दर्शस्यैवायं नैमित्तिकः प्रयोगो न तु दर्शलोपप्रायश्चित्तमिति नैमित्तिकं दर्शप्रयोगमनुष्ठाय पश्चात्स्वकाले नित्योऽपि दर्शप्रयोगोऽनुष्ठातव्यः।
तत्रैवान्यच्चिन्तितम्-
“ऊर्ध्वं चन्द्रोदये सेष्टिर्निर्वापात्पूर्वमप्युत।
उक्तेराद्योऽन्तिमः पक्षो निरुप्तेत्यविवक्षया”।।
सा पूर्वक्ताऽभ्युदयेष्टिर्हविर्निर्वापादूर्ध्वं चन्द्रोदये सति कर्तव्या। निरुप्तं हविरभ्युदेतीत्युक्तत्वादिति चेन्मैवम्। हविरभ्युदयस्य निमित्तत्वेनं तद्विशेषणस्य निर्वापस्याविवक्षितत्वात्। अन्यथा वाक्यभेदापत्तेः। यस्य हविरभ्युदेति तत्र हविर्निरुप्तमित्येवं वाक्यभेदः। तस्मिन्निर्वापात्प्रागपि चन्द्रोदये सत्यविहितकाले कर्मोपक्रममात्रेणेयमिष्टिः कर्तव्या। तत्रैवान्यच्चिन्तितम्-
“प्राक्प्राकृतीभ्यो निर्वापो वैकृतीभ्योऽथवाऽग्रिमः।
तण्डुलोक्तेर्वैकृतीभ्यो हविर्मात्रोपलक्षणात्”।।
निर्वापात्प्राग्यदा चन्द्रोदयस्तदा चन्द्रोदयादूर्ध्वं क्रियमाणो निर्वापः प्राकृतीभ्यो देवताभ्यो युक्तः। कुतः । तण्डुलान्विभजेदितिष्टवाक्येन तण्डुलीभावादूर्ध्वंप्राकृतदेवतापनयनश्रवणात्। निर्वापस्तु व्रीहीणामेवेति तस्मिन्काले प्राकृताग्न्यादिदेवता नापनीता इति प्राप्ते ब्रूमः- वैकृतीभ्यो दातृत्वादिगुणयुक्ताभ्यो निर्वापः कर्तव्यः। कुतः। तण्डुलशब्देन हविर्मात्रस्योपलक्षणात्। अन्यथा दधिपयसो
[[1305]]
प्रपा.५ अनु. ५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अभ्युदयेष्ट्यादीष्टित्रयविधिः)
रतण्डुलत्वेन देवतापनयो न स्यात्। हविर्मात्रविवक्षायां तु ब्रीहीणामपि हविष्ट्वेन प्राकृतदेवतासंवन्धमपनीय देवतान्तरसंवन्धस्य कर्तुं युक्तत्वाद्वैकृतीभ्यो निर्वपेत्।
तत्रैवान्यच्चिन्तितम्-
“प्राकृतीभ्योऽल्पनिर्वापेऽभ्युदये शिष्टतण्डुलान्।
प्राकृतीभ्यो वैकृतीभ्यस्तूष्णीं वा निर्पपेदिह।।
प्राकृतीभ्यः प्रवृत्तत्वाद्वैकृतीभ्यो निमित्ततः।
शिष्टांशस्यापदार्थत्वादसंयोगादिहान्तिमः ”।।
यदा प्राकृतीभ्यो मुष्टिमात्रे निरुप्ते सति चन्द्रोऽभ्युदेति तदा मुष्टित्रयरूपोऽवशिष्टांशः प्राकृतीभ्य एव निर्वप्तव्यः। कुतः। प्राकृतीनां प्रवृत्तत्वात्। इत्येकः पक्षः। चन्द्रोदये निमित्ते सति नैमित्तिकस्य पूर्वदेवतापनयस्यावश्यंभावाद्वैकृतीभ्योऽवशिष्टांशनिर्वाप इति द्वितीयः पथः। अस्तु प्राकृतदेवतापनयो निमित्ताधीनः। अन्यदेवतासंयागस्त्वंशस्य न संभवति। अन्याश्च देवताः प्राकृतदेवतास्थाने निवेशनीयाः। प्राकृतीनां च निर्वापपदार्थसंवन्ध कृप्तो न पदार्थांशेन। ततस्तत्स्थानपतितानां वैकृतीनां च नांशसंयोगो युक्त इत्यस्यांशस्य प्राकृतीभ्योऽपनीतत्वाद्वैकृतीभिरसंयोगाच्च तूष्णीमेव निर्वाप इति राद्धान्तः।
तत्रैवान्यच्चिन्तितम्—-
“सेष्टीः सांनाय्यिनो वा स्यादन्यस्यापि दधिश्रुतेः।
नान्यस्येत्यग्रिमोऽन्त्यः स्याद्देवमात्रविधानतः”
नहि सांनाय्यरहितस्य दधिपयसी विद्येते, तदभावे च दध ँश्चरुं शृते चरुमिति विधिर्न संगच्छते। तस्मात्सांनाय्यिन एव सा पूर्वोक्ताऽभ्युदयोष्टीरिति चेन्मैवम्। अप्राप्ता देवता एवात्र विधीयन्ते। दधिपयसोरपि विधाने वाक्यं भिद्येत। ततस्तण्डुलवत्प्राप्तयोर्दधिपयसोरनूद्यमानतया विध्यभावादुदके चरुश्रपणसंभवाच्च सांनाय्विवदन्यस्यापि सेष्टिरस्ति।
नवमाध्यायस्य द्वितीयपादे चिन्तितम्—-
“शृतदध्नोः प्रणीतानां न धर्माः सन्ति वा नहि।
अपाकार्थत्वतः सन्ति पाकहेतुत्वसाम्यतः” ।।
[[1306]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता——(२ द्वितीयकाण्डे
(अभ्युदयेष्ट्यादीष्टीत्रयविधिः)
अभ्युदयेष्ट्यां शृते चरुं दधनि चरुमिति शृतदधिनी आम्नायेते। तयोः प्रणीताधर्मा न कर्तव्याः। हविःश्रपणार्थमुत्पन्ना उत्पवनादिधर्मसंस्कृता आपः प्रणीता उच्यन्ते। दधिपयसी तु श्रपणार्थं नोत्पन्ने, किंतु हविष्ट्वेन प्रदानार्थमुत्पन्ने। ततः साम्याभावान्नोत्पवनादयो धर्मास्तयोरिति चेन्मैवम्। अन्यार्थमुत्पन्नयोरपि दधिपयसोरत्र चन्द्रोदयं निमित्तीकृत्य चरुश्रपणहेतुत्वं वाचनिकम्। ततः समानत्वात्तद्धर्माः सन्ति।
द्वितीयाध्यायस्य तृतीयपादे चिन्तितम्-
“यद्दाक्षायणयज्ञेन स्वर्गकामो यजेस तत्।
कर्मान्तरं गुणो वोक्तदर्शादौ फलसिद्धये।।
गुणस्यास्याप्रसिद्धत्वात्कर्मभेदोऽत्र संज्ञया।
गुणो व्युत्पत्तिशेषाभ्यामावृत्त्याख्बो न नाम तत्”।।
दर्शपूर्णमासप्रकरणे श्रूयते- “दाक्षायणयज्ञेन सुवर्गकामो यजेत ” इति। तत्र दाक्षायणशाब्दवाच्यस्य कस्यचिल्लोके प्रसिद्भ्यभावादुद्भिदादिवद्यजिसामानाधिकरण्येन कर्मनामत्वादथैष ज्योतिरित्यादिवदपूर्वसंज्ञया कर्मविधिरिति चेन्न। दाक्षायणशब्दस्याऽऽवृत्तिवाचकत्वात्। तत्र शब्दनिर्वचनाद्वाक्यशेषाच्चावगम्यते। तथा हि अयनमित्यावृत्तिरुच्यते। दक्षस्यैते दाक्षास्तेषामयनमिति तन्निर्वचनम्। दक्ष उत्साही पुनः पुनरावृत्तावनलस इत्यर्थः। तदीयानां प्रयोगाणामावृत्तिर्दाक्षायणशब्दार्थः। तथा चाऽऽवृत्त्या युक्तः प्रकृतो दर्शंपूर्णमासात्मको यज्ञो दाक्षायणयज्ञः। आवृत्तिप्रकारस्तु हे पौर्णमास्यौ द्वे अमावास्ये इत्यादिवाक्यशेषादवगम्यते। ततो दध्यादिवत्प्रसिद्धत्वाद्दर्शपूर्णमासयोः प्रकृतयोरयं स्वर्गफल सिद्ध्यर्थमावृत्त्याख्यस्य गुणस्य विधिर्न तूद्भिदादिवत्कर्मनामधेयम्। एवं साकंप्रस्थायीयेन यजेत पशुकाम इत्यत्रापि द्रष्टव्यम्। अमावास्यायागे द्वौ द्वौ दोहौ संपाद्य चतसृणां दधिपयसोः कुम्भीनां सह प्रस्थापनं साकंप्रस्थायस्तद्युक्तो यागः साकप्रंस्थायीयः। तथा सति प्रकृते दर्शयागे पशुफलाय साकंप्रस्थायाख्यो गुणो विधियते। तृतीयाध्यायस्य चतुर्थपादे चिन्तितम्
“अनृतं न वदेदेष पुंधर्मो वाऽनुवादगीः।
सक्रतौ पुंसि शुद्धे वा ऋतौ यद्वा विधिः क्रतौ।।
[[1307]]
प्रपा. अनु. ५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अभ्यदयेष्ट्यादीष्टित्रयविधिः)
अनृतोक्तेः पुमर्थत्वात्तन्निषेधे तथाविधः।
स्मार्तानुवादः पुंस्क्रत्वोः श्रुतिप्रक्रिययोर्वशात्।।
नाऽऽख्याते पुरुषस्योक्तिः क्रतावेव प्रयाजवत्।
स्मार्तोक्तनियमादन्यः संयोगोऽतः क्रतौ विधिः।।
दर्शपूर्णमासप्रकरणे श्रूयते—नानृतं वदेदिति। तत्र पुरुषधर्मत्वेनायं प्रतिषेधो विधीयते। कुतः। प्रतियोगिनोऽनृतवदनस्य पुंधर्मत्वात्तन्निषेधस्यापि पुरुषधर्मत्वेनैव विधातव्यत्वात्। वदेदित्येतदाख्यातं तावत्कर्तृवाचकम्। तेनाऽऽख्यातेन कर्तुः प्रतीयमानत्वात्। पुरुषस्याऽऽख्यातप्रत्ययवाच्यत्वे सति प्रकृत्यर्थस्य वदनस्य पुरुषधर्मत्वं युक्तम्। अन्यथा भिन्नविषयत्वेन वाधकत्वं न स्यात्। तस्मात्पुरुष वाचकाख्यातश्रुत्या प्रकरणं बाधित्वा पुरुषार्थोऽयं निषेधो विधीयते। अस्त्येव स्मार्तः प्रतिषेध इति चेत्। तर्ही तस्यैतच्छ्रुतिवाक्यं मूलमस्तु। तस्मात्पुरुषार्थ इत्येकः पूर्वः पक्ष। आख्यातभिन्नविषयत्वेन बाधकत्वं न स्यात्। आख्यात्तश्रुतेः प्रकरणस्य चाविरोधाय क्रतुयुक्तपुरुधर्मोऽस्तु। नह्येतद्वाक्यं स्मृतेर्मूलम्। भिन्नविषयत्वात्। स्मृतिश्चोपनमारभ्याऽऽमरणं पुरुषस्यानृतं प्रतिषेधति। तन्मध्यपातित्वात्क्रतावपि स्मार्तो निषेधः प्रप्त एव। तदुभयार्थोऽप्ययं प्रतिषेधो न विधीयते, किंत्वनूद्यत इति द्वितीयः पूर्वः पक्षः। आख्यातेन भावनाऽभिधीयते। कर्ता तु तदविनाभूतोऽर्थात्प्रतीयते। अतः श्रुत्यभाबात्केवलेन प्रकरणेन प्रयाजादिवदारादुपकारकः क्रतावेव निविशते। न च तत्रापि विधीयते, कितुं सार्वत्रिकस्य निषेधस्य क्रतावपि प्राप्तत्वादनूद्यत एवेति तृतीयः पूर्वपक्षः। सत्यमेववदेन्नानृतमिति योऽयं स्मार्तनियमरूपः पुरुषार्थः संयोगस्तस्मादन्यक्रत्वर्थः संयोगः। अतो प्राप्तत्वाद्विधियते। एतद्विध्यतिक्रमे क्रतोरेव वैगुण्यं न तु पुरुषस्य प्रत्यवाय। अतोऽत्र क्रतुगामि प्रायश्चत्तम्। पुरुषार्थनियमातिक्रमे तु पुरुषस्यैव प्रत्यवायो न तु क्रतोर्वैगुण्यम्। तत्र स्मार्तप्रायश्चित्तमितिविशेषः।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदारथप्रकाशे कृष्णयजुर्वे दीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके
पञ्चमोऽनुवाकः।। ५।।
[[1308]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—– (२ द्वितीयकाण्डे—
(दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यविधिः)