०४

(अथ द्वितीयाष्टके पञ्चमप्रपाठके चतुर्थोऽनुवाकः)।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वै द॑र्शपूर्णमा॒सौ
य॑जेत॒ य ए॑नौ॒ सेन्द्रौ॒ यजे॒तेति॑ वै॒मृधः पू॒र्ण-
मा॑सेऽनुनिर्वा॒प्यो॑ भवति॒ तेन पू॒र्णमा॑सः
सेन्द्र॑ ऐन्द्रं दध्य॑मावा॒स्या॑यां तेना॑मावा॒स्या॑
सेन्द्र॒ य ए॒वं वि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒
सेन्द्रा॑वे॒वैनौ॑ यजते॒ श्वःश्वो॑ऽस्मा ईजा॒नाय॒
वसी॑यो भवति दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा
अकुर्व॒त ते दे॒वा ए॒ताम् (१) इष्टि॑मपश्य
न्नाग्नावैष्ण॒वमेका॑दशकपालँ॒ सर॑स्वत्यै च॒रुँ
सर॑स्वते च॒रुं तां पौ॑र्ण॒मासँसँ॒स्था-
प्यानु॒ निर॑व॒पन्ततो॑ दे॒वा अभ॑व॒न्पराऽसु॑रा॒
यो भ्रातृ॑व्यवा॒न्त्स्यात्स पौ॑र्णमा॒सँसँ॒स्था
प्यैतामिष्टि॒मनु॒ निर्व॑पेत्पौर्णमा॒सेनै॒व वज्रं॒
भ्रातु॑व्याय प्र॒हृत्या॑ऽऽग्नावैष्ण॒वेन॑ दे॒वता॑श्च
य॒ज्ञं च॒ भ्रातृ॑व्यस्य वृङ्क्ते मिथु॒नान्प॒शू
न्त्सारस्व॒ताभ्यां॒ याव॑दे॒वास्यास्ति॒ तत् (२)
सर्वं॑ वृङ्क्ते पौर्णमा॒सीमे॒व य॑जेत॒ भ्रातृ॑व्य
वा॒न्नामा॑वा॒स्याँ॑ ह॒त्वा भ्रातृ॑व्यं॒ नाऽऽप्या॑-
ययति साकंप्रस्था॒यीये॑न यजेत प॒शुका॑मो॒
यस्मै॒ वा अल्पे॑ना॒ऽऽहर॑न्ति॒ नाऽऽत्मना॒ तृप्य॑ति॒
नान्यस्मै॑ ददाति यस्मै॑ मह॒ता तृप्य॑त्या॒-

[[1293]]

प्रपा. ५ अनु. ४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अग्नावैष्णवादियागविधिः)
त्मना॒ ददा॑त्य॒न्यस्मै॑ मह॒ता पू॒र्णँ हो॑त॒व्यं॑
तृ॒प्त ए॒वैन॒मिन्द्रः॑ प्र॒जया॑ प॒शुभि॑स्तर्पयति
दारुपा॒त्रेण॑ जुहोति॒ न हि मृ॒न्मय॒माहु॑तिमान॒श
औदु॑म्बरम् (३) भ॒व॒त्यूर्ग्वा उदु॒म्बर॒
ऊर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्ज॑ प॒शूनव॑ रुन्धे॒
नाग॑तश्रीर्महे॒न्द्रं य॑जेत॒ त्रयो॒ वै ग॒तश्रि॑यः
शुश्रु॒वान्ग्रा॑म॒णी रा॑ज॒न्य॑स्तेषां॑ महे॒न्द्रो दे॒-
वता॒ यो वै स्वा दे॒वता॑मति॒यज॑ते॒ प्र स्वायै॑
दे॒वता॑यै च्यवते॒ न परां॒ प्राप्नो॑ति॒ पापी॑या-
न्भवति संवत्स॒रमिन्द्रं॑ यजेत संवत्स॒रँ हि
व्र॒तं नाति॒ स्वा (४) ए॒वैनं॑ दे॒वते॒ज्यमा॑ना॒
भूत्या॑ इन्धे॒ वसी॑यान्भवति संवत्स॒रस्य॑ प॒र-
स्ता॑द॒ग्नये॑ व्र॒तप॑तये पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्वं॑-
पेत्संवत्स॒रमे॒वैनं॑ वृ॒त्रं ज॑घ्निवाँ स॑म॒ग्निर्व्रतमा
ल॑म्भयति॒ ततोऽधि॒ कामं॑ यजेत (५)।
(ए॒तां तदौदु॑म्ब॒रँस्वा त्रिँ॒शच्च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
पञ्चमेप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।
(अथ द्वितीयकाण्डे पञ्चमप्रपाठके चतुर्थोऽनुवाकः)।
उक्ते वैमृधसांनाय्ये द्वितृतीयानुवाकके।।

[[1294]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(अग्नावैष्णवादियागविधिः)
अथ चतुर्थं आग्नावैष्णवादयो वक्तव्याः।





[[1295]]

प्रपा. ५ अनु. ४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(आग्नावैष्णवादियागविधिः)








[[1296]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—–(२ द्वितीयकाण्डे
(आग्नावैष्णवादियागविधिः)

अत्र मीमांसा।
तृतीयाध्यायस्य पञ्चमपादे चिन्तितम्—-
‘आक्रामन्सह कुंभीभिरस्मिञ्छेषक्रिया न वा
जुह्वाऽवदानात्प्रकृताविव शेषक्रियोचिता।।
कुम्भीषु शेषासंसिद्धेः साकंप्रस्थाय (य्य) कर्मणि।
न स्विष्टकृदिदं (डं) कार्यमग्नीधे स्रुक्प्रदानतः’।।
‘साकंप्रस्थायीयेन यजेत पशुकामः’ इति विहिते कर्मणि श्रूयते—सहकुम्भीभिरभिक्रामन् इति। तत्र चतसृभिदधिपयः कुम्भिभि। सहाऽऽ हवनीयदेशेऽभिक्रमणमात्रं श्रुतम्।
न तु तत्र कुम्भीभिर्होमः श्रुतः। तथा सत्यस्य कर्मणः सांनाय्यविकृतित्वाज्जुह्वा कुम्भीभ्योऽवदाय जुहुयात्। हुतशेषेण च स्विष्टकृदादिकं सांनाय्यशेषेणेव कर्तव्यमिति प्राप्ते ब्रूमः नात्र कुम्भीषु हुतशेषः सांनाय्य इव जुह्वाऽवदानाभावात्। अग्नीधे स्रुचौ प्रदाय सह कुम्भीभिरभिक्रामन्नित्युक्तत्वाज्जुहूपभृतोः प्रत्तत्वादभिक्रमणस्य होमार्थत्वाच्च कुम्भीभिरेव दधिपयसोहोंमे सति कुम्भीमात्रमवशिष्यते, न हुतहविःशेषः। तत्र कृतः शेषकर्मं कार्यम्।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमपिरपाठके
चतुर्थोऽनुवाकः ।। ४ ।।

[[1297]]

प्रपा. ५ अनु.५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अभ्युदयेष्ट्यादीत्रयविधिः)