(अथ द्वितीयकाण्डे पञ्चमप्रपाठके तृतीयोऽनुवाकः)।
इन्द्रं॑ वृ॒त्रं ज॑घ्नि॒वाँ सं मृधो॒ऽभि प्रावे॑प॒न्त
स ए॒तं वै॑मृधं पू॒र्णमा॑सेऽनुनिर्वा॒प्य॑मपश्यत्तं॒
निर॑प॒षत्ते॒न वै स मृधोपा॑ह॒त यद्वै॑मृधः पूर्ण॒-
मा॑से ऽनुनिर्वा॒प्यो भव॑ति॒ मृध॑ ए॒व ते॒न यज॑-
मा॒नो ऽप॑ हत॒ इन्द्रो॑ वृ॒त्रँ ह॒त्वा दे॒वता॑भिश्चे-
न्द्रि॒येण॑ च॒ व्या॑र्ध्यत॒ स ए॒तमा॑ग्ने॒यमष्टा॒क॑पा-
लममावा॒स्या॑यामपश्यदै॒न्द्रं दधि॑ (१) तं
[[1286]]
श्रीमत्सायणाचार्यविरचितभाष्यसेता— (२ द्वितीयकाण्डे—
(अमावास्यायां सांनाय्ययागविधिः)
निर॑वप॒त्तेन॒ वै स दे॒वता॑श्चेन्द्रि॒यं चावा॒रुन्ध॒
यदा॑ग्ने॒यो॑ऽष्टाक॑पालोऽमावा॒स्या॑यां॒ भव॑त्यै॒न्द्रं
दधि॑ दे॒वता॑श्चै॒व तेने॑न्द्रि॒यं च यज॑मा॒नो ऽव॑
रुन्ध॒ इन्द्र॑स्य वृत्रं॒ ज॒घ्नुष॑ इन्द्रि॒यं वी॒र्यं पृथि॒-
वीम॒नु व्या॑र्छ॒त्तदोष॑धयो वीरुधो॑ऽभव॒न्त्स
प्र॒जाप॑ति॒मुपा॑धावद्वृ॒त्रं मे॑ ज॒घ्नुष॑ इन्द्रि॒यं
वी॒र्य॑म् (२) पृ॒थि॒वीमनु॒ व्या॑र॒त्तदोष॑धयो
वी॒रुधो॑ऽभूव॒न्निति॒ स प्र॒जाप॑तिः प॒शून॑ब्रवीदे॒-
तद॑स्मै॒ सं नय॒तेति॒ तत्प॒शव॒ ओष॑धी॒भ्योऽ
ध्या॒त्मन्त्सभ॑नय॒न्तत्प्रत्य॑दुह॒न्यत्स॒मन॑य॒न्तत्सां॑
ना॒य्यस्य॑ सानाय्य॒त्वं यत्प्र॒त्यदु॑ह॒न्तत्प्र॑ति॒धुषः॑
प्रतिधु॒क्त्वँ सम॑नषुः॒ प्रत्य॑धुक्ष॒न्न त मयि॑
श्रयत॒ इत्य॑ब्रवीदे॒तद॑स्मै॑ (३) शृ॒तं कुरु॑तेत्य॒-
ब्रवीत्तदस्मै शृतम॑कुर्वन्निन्द्रि॒यं वावास्मि॑न्वी॒र्यं
तद॑श्रय॒न्तच्छृ॒तस्य॑ शृत॒त्वँ सम॑नैषुः॒ प्रत्य॑धु-
क्षञ्छृ॒तम॑क्र॒न्न तु मा॑ धिनो॒तीत्य॑ब्रवीदे॒तदस्मै॒
दधि॑ कुरुते॒त्य॑ब्रवी॒त्तद॑स्मै॒ दध्य॑कुर्व॒न्तदे॑नमधि-
नो॒त्तद्द॒ध्नो दधि॒त्वं ब्र॑ह्मवा॒दिनो॑ वदन्ति द॒ध्नः
पूर्व॑स्याव॒देय॑म् (४) दधि॒ हि पूर्वं॑ क्रि॒यत॒
इत्यना॑दृत्य त॒च्छृ॑तस्यै॒व पूर्व॒स्याव॑ द्येदि—
न्द्रि॒यमे॒वास्मि॑न्वी॒र्यंँ॑ श्रि॒त्वा द॒ध्नोपरि॑ष्टा—
द्धिनोति यथापू॒र्वमुपै॑ति॒ यत्पू॒तीकै॑र्वा पर्ण
[[1287]]
प्रपा. ५ अनु. ३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अमावास्यायां सांनाय्ययागविधिः)
व॒ल्कैर्वा॑ऽऽत॒ञ्च्यात्सौ॒म्यं तद्यत्क्व॑लै राक्ष॒सं
तद्यत्त॑ण्डु॒लैर्वैश्वदे॒वं तद्यदा॒तञ्च॑नेन मानु॒षं त—
द्यद्द॒ध्ना तत्सेन्द्रं॑ द॒ध्नाऽऽ त॑नक्ति (५)
से॒न्द्र॒त्वाया॑ग्निहोत्रोच्छेष॒णम॒भ्यात॑नक्ति य॒ज्ञस्य॒
सं॑तत्या॒ इन्द्रो वृत्रँ ह॒त्वा परां॒ परावत॑
मगच्छ॒दपा॑राध॒मिति॒ मन्य॑मान॒स्तं दे॒वताः॒
प्रैष॑मैच्छ॒न्त्सो॑ऽब्रवीत्प्र॒जाप॑ति॒र्यः प्र॑थ॒मो॑ऽनुवि॒
न्दति॒ तस्य॑ प्रथ॒म भा॑ग॒धेया॒मिति तं पि॒तरो
ऽन्व॑विन्द॒न्तस्मा॑त्पि॒सृभ्यः॑ पू॒र्वेद्युः क्रि॑य॒ते सो॑ऽ
मावा॒स्यां॑ प्रत्याऽग॑च्छत्तं दे॒वा अ॒भि सम॑—
गच्छन्ता॒मा वै नः॑ (६) अ॒द्य वसु॑ वस॒
तीतीन्द्रो॒ हि दे॒वानां॒ वसु॒ तद॑मावा॒स्या॑या
अमावास्य॒त्वं ब्र॑ह्मवा॒दिनो॑ वदन्ति किंदेव॒त्यँ॑
सांना॒य्यमिति॑ वैश्वदे॒वमिति॑ ब्रूया॒द्विश्वे॒ हि
तद्दे॒वा भा॑ग॒धेय॑म॒भि समग॑च्छ॒न्तेत्यथो॒ खल्वै॒-
न्द्रमित्ये॒व ब्रू॑या॒दिन्द्रं॒ वाव ते तद्भि॑ष॒ज्यन्तो॒ऽभि
सम॑गच्छ॒न्तेति॑ (७) ।।
(दधि॑ मे ज॒घ्नुष॑ इन्द्रि॒यं॑ वी॒र्या॑मित्य॑ब्रवी॒देतद॑स्मा अ॒वदेयं॑ तनक्ति
नो॒ द्विच॑त्वारिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
पञ्चमप्रपाठके तृतीयोऽनुवाकः।। ३ ।।
[[1288]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(२ द्वितीयकाण्डे—
(अमावास्यायां सांनाय्ययागविधिः)
(अथ द्वितीयकाण्डे पञ्चमप्रपाठके तृतीयोऽनुवाकः)।
द्वितीयेऽग्नीषोमयागोऽभिहितः पूर्णिमादिने।।
अथ तृतीयेऽमावास्यायां सांनाय्ययागो वक्तव्यः।
…
…
…
…
…
…
…
…
…
…
…
…
[[1289]]
प्रपा. ५ अनु. ३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अमावास्यायां सांनाय्ययागविधिः)
…
…
…
…
…
…
…
…
…
…
…
…
[[1290]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(अमावस्यायां सांनाय्ययागविधिः)
…
…
…
…
…
…
…
…
…
…
अत्र मीमांसा।
चतुर्थाध्यायस्य तृतीयपादे चिन्तितम्—
[[1291]]
प्रपा. ५ अनु. ३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अमावास्यायां सांनाय्ययागविधिः)
“संस्थाप्य पौर्णमासीं तामनु वैमृध ईरितः ।
द्वयोरङ्गमुतैकस्य द्वयोः स्यात्प्रक्रियावशात्।।
उत्पत्तिवाक्यतः पूर्णमाससंयोगभासनात्।
तस्येवाङ्गं न दर्शस्य प्रक्रिया वाक्यबाधिता” ।।
दर्शपूर्णमासप्रकरणे श्रूयते—-“संस्थाप्य पौर्णमासीं वैमृधमनुनिर्वपति” इति। तत्रेयं वैमृधेष्टिः प्रकरणबलात्प्रयाजादिवदुभयोरपि दर्शपूर्णमासयोरङ्गमितिचेन्न। वाक्यस्य प्रबलत्वात्। न च संस्थाप्येति पौर्णमास्याः समाप्त्यभिधानात्तदङ्गत्वमयुक्तमिति वाच्यम्। दर्शसाधारणाङ्गसमाप्त्यभिप्रायेप्त्यणोपपत्तेः। तस्मादुत्पत्तिवाक्यादेककर्तृत्ववाचिक्त्वाप्रत्ययाच्च पूर्णमासस्यैवाङ्गम्।
द्वितीयाध्याये तृतीयपादे चिन्तितम्—
“दर्शपूर्णिमयोः प्रोक्त आग्नेयः केवलो ऽप्यसौ ।
दर्शे यदिति वाक्याभ्यां कर्मान्यद्वा ऽनुवादगीः ।।
अभ्यासादन्यकर्मत्वं द्विर्दर्शेऽ सौ प्रयुज्यताम्।
एकत्वं प्रत्यभिज्ञानादनूक्त्यैन्द्राग्नसंस्तुतिः ” ।।
“यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति” इति कालद्वये विहितम्, “यदाग्नेयोऽष्टाकपालोऽमावास्यायां भवति” इति एकस्मिन्काले पुनर्विहितम्, तत्राविशेषपुनःश्रुतिलक्षणेनाभ्यासेन प्रयाजानामिव भेदः। तथा सत्याग्नेययागस्य दर्शकाले द्विः प्रयोग इति चेन्न। प्रत्यभिज्ञानादाग्नेयस्यैकत्वे सत्येककालवाक्यस्यानुवादत्वात्। न चानुवादो व्यर्थः। विधेयैन्द्राग्नस्तुत्यर्थत्वात्। यद्यप्याग्नेयोऽष्टाकपालोऽमावास्यायां भवति, तथाऽपि न केवलेनाग्निना साधुर्भवति। इन्द्रसहितोऽग्निः समीचीनतरः । तस्मादैन्द्राग्नः कर्तव्य इति विधेयस्तुतिः । प्रयाजवैषम्यं तुक्तमेवानुसंधेयम्। तस्मादनुवादः।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके
तृतीयोऽनुवाकः ।। ३ ।।
[[1292]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(आग्नावैष्णवादियागविधिः)