०२

(अथ द्वितीयाष्टके पञ्चमप्रपाठके द्वितीयोऽ नुवाकः)।
त्वष्टा॑ ह॒तपु॑त्रा॒ वीन्द्रँ॒ सोम॒माहर॑त्तस्मि॒-
न्निद्र॑ उपह॒वमै॑च्छत॒ नं नोपा॑ह्वयत पु॒त्रं मे॑ ऽ
वधी॒रिति॒ स य॑ज्ञवेश॒सं कृ॒त्वा प्रा॒सहा॒ सो-
म॑मपिब॒त्तस्य॒ स य॒दत्यशि॑ष्यत॒ तत्त्वष्टा ऽ ह-
व॒नीय॒मुप॒ प्राव॑र्त॒यत्स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॒ य-
दव॑र्तयत्त॒द्वृ॒त्रस्य॑ वृत्र॒त्वं यदब्र॑वी॒त्स्वाहेन्द्र॑श-
त्रुर्वर्ध॒स्वेति॒ तस्मा॑दस्य (१) इन्द्रः॒ शत्रु॑-
रभव॒त्स सं॒भव॑न्नग्नीषोमा॑व॒भि सम॑भव॒त्स इ॑षु-
मा॒त्रमि॑षुमात्रं॒ विष्व॑ङ्ङवर्ध॒त स इ॒माल्ँलो॒-

[[1278]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे)
(अग्नीषोमीयपुरोडाशविधिः)
कान॑वृणो॒द्यदिमाल्ँ लो॒कानवृ॑णो॒त्तद्वृत्रस्य॑ वृ-
त्र॒त्वं तस्मा॒दिन्द्रो॑ऽबिभे॒त्स प्र॒जाप॑ति॒मुपा॑धा-
व॒च्छत्रु॑र्मेऽज॒नीति॒ तस्मै॒ वज्रँ॑ सि॒क्त्वा प्रा
य॑च्छदे॒तेन॑ ज॒हीति॒ तेना॒भ्या॑यत॒ ताव॑ब्रूताम-
ग्नीषोमौ॒ मा (२) प्र हा॑रा॒वम॒न्तः स्व॒
इति॒ मम॒ वै यु॒वँ स्थ॒ इत्य॑ब्रवी॒न्माम॒भ्येत॒-
मिति॒ तौ भा॑ग॒धेय॑मैच्छतां॒ ताभ्या॑मे॒तम॑ग्नी-
षो॒मीय॒मेका॑दशकपालं पू॒र्णमा॑से॒ प्राय॑च्छ॒त्ता-
व॑ब्रूताम॒भि संद॑ष्टौ॒ वै स्वो॒ न श॑क्नुव॒
ऐ॒तुमिति॒ स इन्द्र॑ आ॒त्मनः॑ शीतरू॒राव॑जन-
य॒त्तच्छी॑तरू॒रयो॒र्जन्म य ए॒वँ शीतरू॒रयो॒-
र्जन्म॒ वेद॑ (३) नैनँ॑ शीतरू॒रौ ह॑तः॒स्ता-
भ्या॑मेनम॒भ्य॑न॒यत्तस्मा॑ज्जञ्ज॒भ्यमा॑नाद॒ग्नीषोमौ॒
निर॑क्रामतां प्राणापा॒नौ वा ए॑नं॒ तद॑जहितां
प्रा॒णो वै दक्षो॑ ऽपा॒नः क्रतु॒स्तस्मा॑ज्जञ्ज
भ्यमा॑नो ब्रु॒यान्मयि॑ दक्षक्र॒तू इति॑ प्राणा-
पा॒नावे॒वाऽऽ त्मन्ध॑त्ते सर्व॒मायु॑रेति॒ स दे॒वता॑
वृ॒त्रान्नि॒र्हूय॒ वार्त्रघ्नँ ह॒विः पू॒र्णभा॑से॒ निर॑-
वप॒द्घ्नन्ति॒ वा ए॑न पू॒र्णमा॑स॒ आ (४)
अ॒मा॒वा॒स्या॑यां प्याययन्ति॒ तस्मा॒द्वार्त्रघ्नी
पू॒र्णमा॒सेऽनू॑च्येते॒ वृध॑न्वती अमावा॒स्या॑यां॒

[[1279]]

प्रपा. ५ अनु. २) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अग्नीषोमीयपुरोडाशविधिः)
तत्सँ॒ स्थाप्य॒ वार्त्र॑घ्नँ हवि॒र्वज्र॑मा॒दाय॒ पु-
न॑र॒भ्या॑यत॒ ते अब्रू॑तां॒ द्यावापृथि॒वी मा प्र-
हा॑रा॒वयो॒र्वै श्रि॒त इति॒ ते अ॑ब्रूतां॒ वरं॑ वृणा-
वहै॒ नक्ष॑त्रविहिता॒ऽहमसा॒नीत्य॒साव॑ब्रवीच्चि॒-
त्रवि॑हिता॒ ऽहमिती॒यं तस्मा॒न्नक्ष॑त्रविहिता॒ऽसौ
चि॒त्रवि॑हिते॒यं य ए॒वं द्यावा॑पृथि॒व्योः (५)
व॒रं वेदैनं॒ वरो॑ गच्छति॒ स आ॒भ्यामे॒व प्र-
सू॑त॒ इन्द्रो॑ वृ॒त्र॑मह॒न्तो दे॒वा वृत्रँ ह॒त्वाऽग्नी-
षोमा॑वब्रुवन्ह॒व्यं नो॑ वहता॒मिति॒ ताव॑ब्रूता॒-
मप॑तेजसौ॒ वै त्यौ वृ॒त्रे वै त्ययो॒स्तेज॒ इति॒
ते॑ऽब्रुव॒न्क इ॒दमच्छै॒तीति॒ गौरित्यब्रुव॒न्गौ-
र्वाव सर्व॑स्य मि॒त्रमिति॒ सा ऽब्र॑वीत् (६)
वरं॑ वृणै॒ मय्ये॒व स॒तोभये॑न भुनजाध्वा॒ इति॒
तद्गौरा ऽ ह॒रत्तस्मा॒द्गवि॑ स॒तोभये॑न भुञ्जत ए-
तद्वा अ॒ग्नेस्तेजो॒ यद्घृ॒तमे॒तत्सोम॑स्य॒ यत्पयो॒
य ए॒वम॒ग्नीषोम॑यो॒स्तेजो॒ वेद॑ तेज॒स्व्ये॑व भ॑-
वति ब्रह्मवा॒दिनो॑ वदन्ति किंदेव॒त्यं॑ पौर्ण-
मा॒समिति॑ प्राजाप॒त्यनिति॑ ब्रूया॒त्तेनेन्द्रं॑
ज्ये॒ष्ठं पु॒त्रं नि॒रबा॑सायय॒दिति॒ तस्मा॑ज्ज्ये॒ष्ठं
पु॒त्रं धने॑न नि॒रव॑साययन्ति (७) ।।
(अ॒स्य॒ मा वेदाऽऽद्यावा॑पृथि॒व्योर॑ब्रवी॒दिति॒ तस्मा॑च्च॒त्वारि॑ च)

[[1280]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(अग्नीषोमीयपुरोडाशविधिः)
इति श्रीकृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
पञ्चमप्रपाठके द्वितीयोऽनुवाकः ।। २ ।।
(अथ द्वितीयाष्टके पञ्चमप्रपाठके द्वितीयो ऽनुवाकः)।
उपोद्घाते विश्वरूपवधः सम्यक्समीरितः।







[[1281]]

प्रपा. ५ अनु. २) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अग्नीपोमीयपुरोडाशविधिः)










[[1282]]











[[1283]]

प्रपा. ५ अनु ६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अग्नीषोमीयपुरोडाशविधिः)



अथ मीमांसा।
पञ्चमाध्यायस्य प्रथमपादे चिन्तितम्—
“अग्नीषोमीय आग्नेयात्पूर्वो नो वाऽस्तु पूर्वता।
ब्राह्मणक्रमतो मैवं मन्त्रक्रमबलत्वतः।।
स्मृतिक्रमादनुष्ठानं मन्त्राणां स्मारकत्वतः।
प्राबल्यं ब्राह्मणस्यास्ति विधिना ऽ पि कृतार्थता” ।।
अग्नीषोमीययागस्तैत्तिरीयब्राह्मणे पञ्चमप्रपाठके द्वितीयानुवाके समाम्नातः- “ताभ्यामेतमग्नीषोमीयमेकादशपालं पूर्णमासे प्रायच्छत्” इति। आग्नेयभागस्तु षष्ठप्रपाठके तृतीयानुवाक आम्नातः- “यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति” इति। तत्रानुष्ठानेस्य ब्राह्मणोक्तविध्यधीनत्वादग्नीषोमीयस्य प्रथममनुष्ठानमिति प्राप्ते ब्रूमः- मन्त्रकाण्डे पूर्वं पठिता आग्नेयमन्त्राः। तथा हि - हौत्रकाण्ड आज्यभागमन्त्रानुवाकादुत्तरस्मिन्ननुवाके प्रथममग्निर्मूधेत्यादिके आग्नेय्यौ याज्यानुवाक्ये आम्नाते। ततः “न त्वदे तानि” इत्यादिके प्राजापत्ये। ततो ऽ ग्निषोमा सवेदसेत्यादिके अग्नीषोमीये। आध्वर्यवकाण्डे ऽ ग्नये जुष्टं निर्वपाम्यग्नीषोमाभ्यामित्याग्नेयः पूर्वमाम्नातः। यजमानकाण्डे ऽ ग्नेरहं देवयज्यया ऽ न्नादो भूयासमित्याभ्नाय पश्चादग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासमित्याम्नायते। मन्त्रक्रमश्च प्रबलः। मन्त्रैः स्मृत्वा

[[1284]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(अग्नीषोमीयपुरोडाशविधिः)
पश्चादनुष्ठेयत्वात्। ब्राह्मणं त्वप्राप्तपदार्थविधिनाऽपि चरितार्थम् । अतोऽ नुष्ठानस्मरणायैवोत्पन्नान्मन्त्रान्बाधितुं नालमिति मन्त्रक्रमेणा ऽऽ ग्नेयस्यैव प्रथममनुष्ठानम्।
तृतीयाध्यायस्य चतुर्थपादे चिन्तितम्—
“जञ्जभ्यमानमन्त्रोक्तिः पुंसो धर्मः क्रतोरुत।
वाक्यादाद्यः प्रक्रियया द्वितीयस्त्वाविरुद्धया”
दर्शपूर्णमासप्रकरणेश्रूयते—-“प्रणो वै दक्षोऽपानः क्रतुस्तस्माज्जञ्चभ्यमानो ब्रूयान्मयि दक्षक्रतू इति प्राणापानावेवाऽऽत्मन्धत्ते सर्वमायुरेति” इति। गात्रविनामेन विदारितमुखः पुरुषो जञ्जभ्यमानः, तस्य वाक्यान्मन्त्रोक्तिः प्रतीयते। वाक्यं च प्रकरणाद्वलीयः। तस्माकेवलं पुंधर्म इति चेन्मैवम् ऋतावपि जञ्जभ्यमानपुरुषसंभवेन वाक्यप्रकरणयोर्विरोधाभावे सत्युभाभ्यां ऋतुयुक्तपुरुषसंस्कारत्वावगमात्।
तत्रैव प्रथमपादे चिन्तितम्—
“वार्त्रघ्न्यौ पौर्णमासे स्तो वृधन्वत्यौ तु दर्शने।
इति प्रधानशेषत्वमुक्तं किंवा व्यवस्थितिः।।
क्रमेण प्रापिता मन्त्राश्चत्वारो ऽ प्याज्यभागयोः।
क्रमाद्वाक्यं बलीयो ऽत एषां दर्शादिशेषता।।
न मुख्ये सोम एको ऽस्ति ना ऽऽधारत्वादिकालयोः।
दर्शादेरव्यवस्थित्या प्राप्तौ वाक्यादव्यवस्थितिः।।”
दर्शपूर्णमासप्रकरणे श्रूयते—“तस्माद्वार्वघ्नी पूर्णमासेऽनूच्येते वृधन्वती अमावास्यायाम्” इति। तत्रेदं वार्त्रघ्नीयुगलं वृधन्वतीयुगलं च हौत्रकाण्डे आज्याभागयोः क्रमेऽग्निर्वृत्राणि जङ्घनदित्यनुवाकेना ऽऽम्नातम्। उदाहृतेन तु ब्राह्मणवाक्येन दर्शपूर्णमासयागयोस्तद्विधिरवगम्यते। तत्र वाक्यस्य प्रबलत्वादेषां मन्त्राणां दर्शपूर्णमासयागाङ्गत्वं न त्वाज्यभागाङ्गत्वमिति प्राप्ते ब्रूमः- “अग्निर्वृत्राणि जङ्घनत्” इत्याग्नेयी प्रथमा वार्त्रघ्नी। “त्वं सोमासि सत्पतिः” इति सौम्या द्वितीया वार्त्रघ्नी। “अग्निः प्रत्नेन मन्मना” इत्याग्नेयी प्रथमा

[[1285]]

प्रपा. ५ अनु. ३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अमावस्यायां सांनाय्ययोगविधिः)
वृधन्वती। “सोमगीर्मिष्ट्वा वयम्” इति सौम्या द्वितीया वृधन्वती। तत्र मुख्ययोर्दर्शपूर्णमासयोराग्नेयपुरोडाशसद्भावादाग्नेयीद्वयस्य विकल्पेन पुरोनुवाक्यात्वं कथंचिद्भवतु। सौम्ययोस्तु तन्न संभवति। सोमदेवताया अभावात्। नह्यग्नीषोमीयेऽपि केवलः सोमो विद्यते। किंच, पौर्णमास्याममावास्यायामिति सप्तमीभ्यामाधारत्वं गम्यते । तच्च यागवाचित्वे यागस्य मुख्यत्वान्न संभवति । कालस्य तुपसर्जनत्वात्तद्वाचित्वं युक्तम् । किंच, प्रयाजमन्त्रानुवाकस्यानन्तरमेवायमनुवाकः पठितः स चा ऽऽज्यभागयोरङ्गयोः क्रमो न तु मुख्ययोर्दर्शपूर्णमासयोः। तस्मान्न मन्त्रचतुष्टयस्य मुख्ययागत्ङ्गत्वम्, किं तु आज्यभागाङ्गत्वम्। नन्वेतत्क्रमेणैव लब्धं तत्रप्याग्नेमे प्रथम आज्यभागे मन्त्रो ऽप्याग्नेयः, सौम्ये वितीये सोम्य इत्येषा व्यवस्था लिङ्गेनैव लभ्यते। वाढम्। तथाऽपि वार्त्रघ्नीयुगलं पूर्णमासे वृधन्वतीयुगलममावास्यामित्येषा व्यवस्था पूर्वमप्राप्ता ब्राह्मणवाक्येन विधीयत इति न वैयर्थ्यम्।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्ण-
यजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके
द्वितीयो ऽनुवाकः ।। २ ।।