(तत्र प्रथमोऽनुवाकः)।
ह॒रिः॒ ॐ।
वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्रः पु॒रोहि॑तो दे॒व ना॑मा-
सीत्स्व॒स्रीयोऽसु॑राणां॒ तस्य॒ त्रीणि॑ शी॒र्षा-
ण्या॑सन्त्सोम॒पानँ॑ सुरा॒पान॑म॒न्नाद॑नँ॒ स
प्र॒त्यक्षं॑ दे॒वेभ्यो॑ भा॒गम॑वदत्प॒रोक्ष॒मसु॑रेभ्यः॒ स
र्व॑स्भै॒ वै प्र॒त्यक्षं॑ भा॒गं व॑दन्ति॒ यस्मा॑ ए॒व प॒
रोक्षं॒ वद॑न्ति॒ तस्य॑ भा॒ग उ॑दि॒तस्तस्मा॒दि-
न्द्रो॑ऽबिभेदी॒दृङ्वै रा॒ष्ट्रं वि प॒र्याव॑र्तय॒तीति॒
तस्य॒ वज्र॑मा॒दाय॑ शी॒र्षाण्य॑च्छिन॒द्यत्सो॑म॒पा-
न॑म् (१) आसी॒त्स क॒पिञ्ज॑लोऽभव॒द्यत्सु॑-
रा॒पान॒ ँ स क॑ल॒विङ्को॒ यद॒न्नाद॑नँ॒स ति॑-
त्ति॒रिस्तस्या॑ञ्जलिना॑ ब्रह्मह॒त्यामपा॑गृह्णा॒त्ताँ
सं॑वत्स॒रम॑बि॒भत्सं भू॒तान्य॒भ्य॑क्रोश॒न्ब्रह्म॑ह॒-
न्निति॒ स पृ॑थि॒वीमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒
तृती॑यं॒ प्रति॑ गृहा॒णेति॒ साऽब्र॑वी॒द्वरं॑ वृणै
खा॒तात्प॑राभवि॒ष्यन्ती॑ मन्ये॒ ततो॒ मा परा॑
भूव॒मिति॑ पु॒रा ते॑ (२) सं॒व॒त्स॒रादपि॑ रोहा॒
दित्य॑ब्र॒वीत्तस्मा॑त्पु॒रा सं॑वत्स॒रात्पृ॑थि॒व्यै खा॒-
तमपि॑ रोहति॒ वारे॑वृत्तँ॒ ह्य॑स्यै॒ तृतीयं ब्र-
[[1272]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(अग्नीषोमयिहाविर्विध्युपोद्घातः)
ह्मह॒त्यायै॒ प्रत्य॑गृह्णा॒त्तस्वकृ॑ता॒मिरि॑णमभ॒वत्त-
स्मा॒दाहि॑ताग्निः श्रद्धादे॒वः स्वकृ॑त॒ इरि॑णे॒
नाव॑ स्येद्ब्रह्मह॒त्यायै ह्ये॑ष वर्णः॒ स वन॒स्पती॒-
नुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑यं॒ प्रति॑ गृ-
ह्णी॒तेति॒ तेऽब्रु॒वन्वरं॑ वृणामहै वृ॒क्णात् (३)
प॒रा॒भ॒विष्यन्तो॑ मन्यामहे॒ ततो॒ मा परा॑ भृ॒मे-
त्या॒व्रश्च॑नाद्वो॒ भूयांँ॑स॒ उत्तिष्ठा॒नित्य॑ब्रवी॒त्त-
स्मा॑दा॒व्रश्च॑नाद्वृ॒क्षाणां॒ भूयाँ॑स॒ उत्ति॑-
ष्ठन्ति वारे॑वृ॒तँ॑ ह्ये॒षां॑ तृती॑यं ब्रह्मह॒त्यायै॒ प्रत्य॑
गृह्ण॒न्त्स नि॑र्या॒सो॑ ऽभव॒त्तस्मा॑न्निर्या॒सस्य॒
नाऽऽश्यं॑ ब्रह्मह॒त्यायै ह्ये॑ष वर्णोऽथो खलु॒ य
ए॒व लोहि॑तो॒ यो वा॒ ऽऽव्रश्च॑नान्नि॒र्येष॑ति॒ तस्य॒
नाऽऽश्य॑म् (४) काम॑म॒न्यस्य॒ स स्त्री॑षँ
सा॒दमुपासीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑यं॒ प्रति॑
गृह्णी॒तेति॒ ता अ॑ब्रुव॒न्वरं॑ वृणामहा॒ ऋत्वि॑-
यात्प्र॒जां विन्दा॑महै॒ काम॒मा विज॑नितोः॒ सं
भ॑वा॒मेति॒ तस्मा॒दृत्वि॑या॒त्स्त्रियः॑ प्र॒जां विन्दन्ते॒
काम॒मा विज॑नितोः॒ सं भ॑वन्ति॒ वारे॑वृतँ॒
ह्या॑सां॒ तृती॑यं ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्त्सा
मलवद्वासा अम॒वत्तस्मा॒न्मल॑वद्वाससा॒ न सं
व॑देत (५) न स॒हा ऽऽसी॑त॒ नास्या॒ अन्न॑म-
द्यादब्रह्मह॒त्यायै॒ ह्ये॑षा वर्ण॑ प्रति॒मुच्या ऽऽ
[[1273]]
प्रपा. ५ अनु. १) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अग्नीषोमीयहविर्विध्युपोद्घातः)
स्तेऽथो॒ खल्वा॑हु॒रभ्यञ्ज॑नं॒ वाव स्त्रि॒या अन्न॑-
म॒भ्यञ्ज॑नमे॒व न प्र॑ति॒गृह्यं॒ काम॑म॒न्यदिति॒
या मल॑वद्वाससँ सं॒भव॑न्ति॒ यस्ततो॒ जाय॑ते॒
सो॑ऽभिश॒स्तो यामर॑ण्ये॒ तस्यै॑ स्ते॒नो यां प-
रा॑चीं॒ तस्यै ह्रीतमु॒ख्य॑पग॒ल्भो या स्नाति॒
तस्या॑ अ॒प्सु मारुको॒ या (६) अ॒भ्यङ्क्ते
तस्यै॑ दु॒श्चर्मा॒ या प्र॑लि॒खते॒ तस्यै॑ खल॒ति
र॑पमा॒री याऽऽङ्क्ते तस्यै॑ का॒णो या द॒तो
धाव॒ते तस्यै॑ श्या॒वद॒न्या न॒खानि॑ निकृ॒न्तते॒
तस्यै॑ कुन॒खी या कृ॒णत्ति॒ तस्यै॑ क्ली॒बो या
रज्जुँ॑ सृ॒जति॒ तस्या॑ उ॒दबन्धु॑को॒ या प॒र्णेन॒
पिब॑ति॒ तस्या॑ उ॒न्मादु॑को॒ या ख॒र्वेण॒ पिब॑ति॒
तस्यै॑ ख॒र्वास्ति॒स्रो रात्री॑र्व्र॒तं चरेदञ्ज॒लिना॑ वा॒
पिबे॒दख॑र्वेण वा॒ पात्रे॑ण प्रजायै॑ गोपी॒थाय॑
(७)।।
(यत्सो॑म॒पानं ते वृ॒क्णात्तस्य॒ नाऽश्यं॑ वदे॒त मारु॑को॒ या खर्वेण
वा॒ त्रीणि॑ च)
इति श्रीकृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
पञ्चमप्रपाठके प्रथमो ऽनुवाकः ।। १ ।।
(अथ द्वितीयकाण्डे पञ्चमः प्रपाठकः)।
(तत्र प्रथमोऽनुवाकः)।
[[1274]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(अग्नीषोमीयहविर्विध्युपोद्घातः)
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्।।
द्वितीयादिचतुर्थान्तैस्त्रिभिरेतैः प्रपाठकैः।
उक्ताः काम्येष्टयः काण्डे द्वितीये परतस्तु यत्।।
आद्ये दर्शपूर्णमासमन्त्रव्याख्यानमीरितम्।
विधयो मन्त्रसंबद्धा बहवः प्रतिपादिताः।।
तच्छेषविधयो वाच्या व्याख्येया होत्रमन्त्रकाः।
*अतो ऽनुब्राह्मणं त्वत्र वर्ण्यते पाठकद्वये।।
प्रपाठके पञ्चमेऽनुवाका द्वादश संस्थिताः।
आध्वर्यवं पूर्वषट्के याज्या उत्तम ईरिताः।।
हौत्रमन्त्रविधिव्याख्यावारादिप्रायमन्तरे।
अग्नीषोमीयहविषो विधिस्तत्राऽऽद्ययोर्द्वयोः।।
…
…
…
…
…
…
…
*प्रकृतब्राह्मणमिति ख. पुस्तकस्थपाठान्तरम्।
[[1275]]
प्रपा. ५ अनु. १) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अग्नीषोमीयहविर्विध्युपोद्घातः)
…
…
…
…
…
…
…
…
…
…
…
…
…
[[1276]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(अग्नीषोमीयहविर्विध्यपुद्घातः)
…
…
…
…
…
…
…
…
…
…
…
…
…
…
…
[[1277]]
प्रपा. ५ अनु. २) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अग्नीषोमीयपुरोडाशविधिः)
अत्र मीमांसा।
तृतीयाध्यायस्य चतुर्थपादे चिन्तितम्—
“न संवदेत मलवद्वाससेत्यपि पूर्ववत्।
पुमर्थः स्यात्क्रतौ क्वापि संवादस्याप्रसक्तितः”।।
दर्शपूर्णमासप्रकरणे श्रूयते “मलवद्वाससा न संवदेत” इति। अस्य निषेधस्य प्रकरणात्क्रत्वङ्गत्वमिति चेन्न। अप्रसक्तप्रतिषेधप्रसङ्गात्। “यस्य व्रत्ये ऽहन्पत्न्यनालम्भुका भवति। तामपरुध्य यजेत” इति। रजस्वलाया निःसारणान्न क्रतौ संवादप्रसक्तिः तस्मात्केवलंपुरुषार्थस्यास्य प्रकरणादुत्कर्षः।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे
दीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके
प्रथमोऽनुवाकः ।। १ ।।