(अथ द्वितीयाष्टके चतुर्थप्रपाठके चतुर्दशोऽनुवाकः)।
नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां॑ के॒तरु॒षसा॑
मे॒त्यग्रे॑। भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र
च॒न्द्रमा॑स्तिरति दी॒र्घमायुः॑। यमा॑दि॒त्या अँ॒ शु-
मा॑प्या॒यय॑न्ति॒ यमक्षि॑त॒मक्षि॑तयः॒ पिब॑न्ति। तेन॑
नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒रा प्या॑ययन्तु
भुव॑नस्य गो॒पाः। प्राच्यां॑ दि॒शि त्वमि॒न्द्रा
सि॒ राजो॒तोदी॑च्यां वृत्रहन्वृत्र॒हाऽसि। यत्र॒
यन्ति॑ स्रो॒त्यास्तत् (१) जि॒तं ते॑ दक्षिण॒ता
वृ॑ष॒भ ए॑धि॒ हव्यः॑। इन्द्रों जयाति॒ न परा॑
जयाता अधिरा॒जो राज॑सु राजयाति विश्वा॒
हि भू॒याः पृत॑ना अभि॒ष्टीरु॒पसद्यो॑ न॒मस्यो॑
यथाऽस॑त्। अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं
दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात्। स्व॒रा-
[[1265]]
प्रपा. ४ अनु. १४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(याज्यानुवाक्याभिधानम्)
डिन्द्रो॒ दम॒ आ वि॒श्वगू॑र्तः स्व॒रिरम॑त्रो ववक्षे॒
रणा॑य। अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा
इव धे॒नवः॑। ईशान॑म् (२) अ॒स्य जग॑तः
सुव॒र्दृश॒मीशा॑नमिन्द्र त॒स्थु॑षः। त्वामिद्धि
हवा॑महे सा॒ता वाज॑स्य का॒रवः॑। त्वां वृ॒त्रे-
ष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः। त्य-
द्द्याव॑ इन्द्र ते श॒तँ श॒तं भूमी॑रु॒त स्युः। न
त्वा॑ वज्रिन्त्स॒हस्रँ॒ सूर्या॒ अनु॒ न जात॒म॑ष्ट॒
रोद॑सी। पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यं ते॑
सु॒पाव॑ हर्य॒श्वाद्रिः॑ (३) सो॒तुर्बा॒हुभ्याँ
सुर्य॑तो॒ नार्वा॑। रे॒वती॑र्नः भध॒माद॒ इन्द्रे॑ स-
न्तु तु॒विवा॑जाः। क्षु॒मन्तो॒ याभि॒र्मदे॑म। उ-
द॑ग्ने॒ शुच॑य॒स्तव॒ वि ज्योति॒षोदु॒ त्यं जा॒तवे॑
दसँ स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव
सूर्य। शो॒चिष्के॑शं विचक्षण। चि॒त्रं देवा-
ना॒मुद॑गा॒दनी॑कं॒ चक्षु॑मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः।
आऽप्रा॒ द्यावा॑पृथि॒वी अन्तरि॑क्षँ॒ सूर्यं॑ आ॒
त्मा जग॑तस्त॒स्थुषः॑ (४) च॒। विश्वे॑ दे॒वा
ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुतः॑। जु॒षन्तां॒ युज्यं॒
पयः॑। विश्वे॑ देवाः शृणु॒तेमँ हवं॑ मे ये अ॒-
न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ। ये अ॑ग्निजि॒ह्वा
[[1266]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(याज्यानुवाक्याभिधानम्)
उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादय-
ध्वम् (५) ।।
(तदीशा॒नमद्रि॑स्तस्थु॑षस्त्रिँ॒शच्च॑)।
इति श्रीकृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
चतुर्थप्रपाठके चतुर्दशोऽनुवाकः ।। १४ ।।
दे॒वा म॑नु॒प्या॑ देवासु॒रा अब्रु॑वन्देवासु॒रास्तेषां गाय॒त्री प्र॒जापति॒स्ता यत्राग्ने॒
गोभि॑श्चि॒त्रया॑ मरु॒तं देवा॑ वसव्या॒ अग्ने॑ मारु॒तं देवा॑ वसव्या॒ देवाः॑ शर्मण्याः॒ स-
वा॑णि॒ त्वष्टा॑ ह॒तपु॑त्रो दे॒वा वै रा॒जन्या॑न्नवो॑नव॒श्चतु॑र्दश ।। १४ ।।
दे॒वा म॑नु॒ष्याः॑ प्र॒जां प॒शून्देवा॑ वसव्याः परिद॒ध्यादि॒-
दमस्म्य॒ष्टाच॑त्वारिँ शत् ।। ४८ ।।
हरि॑ ॐ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
चतुर्थप्रपाठकः ।। ४ ।।
(अथ द्वितीयकाण्डे चतुर्थप्रपाठके चतुर्दशोऽनुवाकः)।
त्रयोदशे चरुः प्रोक्तः शक्तिस्तम्भनिवारकः।
इत्थं काम्येष्टयः समाप्ता। अथान्तिमानुवाके चतुर्दशे याज्मानुवाक्या वक्तव्याः। तत्र “यः अपयक्ष्मगृहीतः स्यात्तस्मा एतमादित्यं चरुं निर्वपेत” इत्यत्र पुरोनुवाक्यामाह—नवो नव इति।
आदित्यस्य चन्द्रदीप्तिकारणत्वाच्चन्द्राभेदेनाऽऽदित्य इह स्तूयते। चन्द्रमा जायमानः प्रतिदिनमुदयं गच्छन्नवो नवो भवति। शुक्लप्रतिपद्येककलायुक्तः। द्वितीयायां कलाद्वययुक्तः इत्येवं कलावृद्धियाभ्यां प्रतिदिनं नूतनत्वम्। चन्द्रवद्दी (न्द्रेदी) प्तिकारणभूत (णभूत) आदित्योऽपि प्रतिदिनं नूतनो भवति। स्वरूपे वृद्धिक्षयाभावेऽपि दक्षिणोत्तरगतिभ्यां नूतनत्वम्। स चाह्नां केतश्चिह्नं, त-
[[1267]]
प्रपा. ४ अनु. ४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(याज्यानुवाक्याभिधानम्)
स्मिन्नुदिते सत्यहरिदमिति ज्ञायमानत्वात्। उषसां प्रभातकालानामग्र उपक्रमे प्राच्यामुदयमेति, तदनुरोधेन प्रातरग्निहोत्रादीनां प्रवृत्तेर्देवेभ्यो भागं विदधाति। तादृशश्चन्द्रकलावृद्धिक्षयहेतुरादित्य इह कर्मण्यागच्छन्दीर्घमायुः प्रतिरति प्रकर्षेण ददातु। तत्रैव याज्यामाह—
यमादित्या इति। यं चन्द्रसमंशुं स्थिरभूतैककलामात्रावशिष्टमादित्याशुक्लपक्षे प्रतिदिनमेकैककलाप्रदानेनाऽऽप्यायबन्ति। किंच, यमक्षितं पौर्णमास्यामक्षीणचन्द्रं कृष्णपक्षे प्रतिदिनं वह्न्यादयो देवाः स्वयमक्षितयः क्षयरहिता पिबन्ति, एकैकां कलामपक्षयन्ति। अत एव सोमोत्पतौ स्मर्यते “प्रथमां पिबते वह्निः”, इति। ज्योतिःशास्त्रप्रक्रियया त्वादित्यरश्मय एव स्वयमक्षितय एवैकैकां कलां पिबन्त्याच्छादयन्ति। तेन चन्द्रेणामृते (तमये) न राजा दीप्यमान आदित्यो वरुणो बृहस्पतिरित्येवमादयो भुवनस्य गोप्तारो देवा नोऽस्मान्रोगग्रस्तान्रोगं निवार्याऽऽप्याययन्तु।
“यं कोमयेतान्नादः स्यादिति तस्मा एतं विधातुं निर्वपेदिन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजायेन्द्राय स्वराज्ञे” इत्यत्र राजेन्द्रहविषः पुरोनुवाक्यारूपां स्वराडिन्द्रहविषो याज्यारूपामुभयाकारामृचं पठति—
प्राच्यामिति। हे इन्द्र त्वं प्राच्यां दिशि राजाऽधिपतिरसि। अपि च, हे वृत्रहन्नुदीच्यां वृत्रहा वैरिघातकोऽसि। किंच स्रोत्या नद्यो यव यन्ति तत्सर्वं ते जितन्। नद्यो हि सर्वांसु दिक्षु प्रवहन्ति। अतः सर्वत्र तव विजय इत्यर्यः। किंच, त्वं वृषभः कामानां वर्षयिता हव्यो होमयोग्यः सदक्षिणत एध्याहवनीयस्य दक्षिणभागे स्थितो भव। तत्र स्थित्वां हि ऋत्विग्भिर्हंविर्दीयते। राजेन्द्रहविषो याज्या, अधिराजेन्द्रहविषः पुरोनुवाक्येत्युभयरूपामृचं पठति–
इन्द्र इति। इन्द्रः सर्वत्र जयत्येव न तु क्वापि पराजयते, सर्वषु राजस्वधिको राजा भूत्वा सर्वानन्यान्राजयाति अराज्ञामपि राज्यप्रदानेन राजत्वं संपादयति। किंच, सर्वेषां राज्ञामुपसद्यः शरण्यो नमस्कारार्हश्च यथाऽसद्येन प्रकारेणासि तथा विश्वाः पृतनाः परकीयसेना अभिष्टीरभिभवतुं समर्थो भूयाः। अधिराजेन्द्रहविषो याज्या, स्वराडिन्द्रहविषः पुरोनुवाक्येत्युभयरूपामृंच पठति—
अस्येदेवेति। इदेवेत्युभयं मिलित्वा ऽवधारेण वर्तते। अपि च ननु चेत्यादिवन्निपातसमुदायस्यैकार्थत्वम्। प्ररिरिच इत्यत्र प्रशब्दोऽ तिशब्दार्थे वर्तते। अस्येदेवास्येन्द्रस्यैव महित्व महिमा परितो दिवः पृथिव्या अन्तरिक्षाच्च प्ररिरिचे
[[1268]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(याज्यानुवाक्याभिधानम्)
सर्वतो लोकत्रयमतिरिच्य वर्तत इत्यर्थः। किंचेन्द्रो रणाय युद्धार्थभाववक्ष आभिमुख्येन वहति सेनां प्रापयति। कीदृश इन्द्रः, स्वराट् स्वयमेव राजा न तु पर तन्त्रः। दमे गृहे विश्वगूर्तो विश्वानि सर्वाण्यायुधानि गूर्तान्युद्यतानि येनासौ विश्वगूर्तः। युद्धार्थं त्वरया निर्गन्तुं गृहेऽप्युद्यतायुध एव वर्तते, किमु वक्तव्यं रणभूभावित्यर्थः। स्वरितुं परकीयसेनानामुपरि गन्तुं शीलमस्येति स्वरिः। अमत्रोऽमाद्रोगात्क्षुद्रूपादन्नदानेन त्रायत इत्यमत्रः।
य इन्द्रियकामो वीर्यकामः स्यात्तमेतया सर्वपृष्ठया याजयेत् इत्यत्र राथंतरेन्द्रहविषः पुरोनुवाक्या, रैवतेन्द्रहविषो याज्येत्युभयरूपामृचं पठति-
अभि त्वेति। अदुग्धा धेनवो यथा वत्सान्प्रत्यादरेण हम्भारवं कुर्वन्ति तथा शूरेन्द्र त्वामभितो नोनुव पुनः पुनः स्तुमः। कीदृशं त्वाम्, अस्य जगतोजङ्गमस्य प्राणिजातस्येशानं तस्थुषः स्थाबरस्यापीशानं सुवर्दृशं स्वर्गस्य प्रदर्शयितारम्।
राथंतेरेन्द्रहविषो याज्या, बार्हतेन्द्रहविषः पुरोनुवाक्येत्युभयरूपामृचं पठति—
त्वा मिद्धीति। हे इन्द्र कारवः कर्तारो वयं त्वामित्त्वामेव हवामह आह्वयामः। किंनिमित्तं, वाजस्य साताऽन्नस्य दाननिमित्तम्। अत एव साताविति सप्तम्यन्ततया छन्दोगा अधियते। वृत्रेषु वैरिषु प्राप्तेषु सत्पतिं सन्मार्गपालकं त्वामाह्वयामः। नरो मनुष्या वयं काष्ठासु सर्वासु दिक्षु अर्वतः शत्रुसेनागतानश्वान्दृष्ट्वा त्वामाह्वयामः। हि यस्मादेवं तस्माद्वीर्यदानेनास्मान्पालयेत्यर्थः।
बार्हतेन्द्रहविषो याज्या वैरूपेन्द्रहविषः पुरोनुवाक्येत्युभररूपामृचं पठति—
यद्द्याव इति। हे इन्द्र यद्यपि शतं द्यावः स्युर्द्युलोकाः शतसंख्याका भवेयुः ,अपि च भूमयोऽपि शतसंख्याका भवेयुः, तथाऽपि शतसंख्याकैरेवान्तरविशेषैर्युक्ते ते द्यावापृथिव्यौ जातं त्वामनु नाष्ट जातमात्रं त्वामैश्वर्येणानुकर्तुं न व्याप्नुतो न शक्नुत इत्यर्थः। तथा यद्यपि सूर्याः सहस्रसंख्याकाः स्युस्तथाऽपि हे वज्रिंस्तेजसा त्वामनुकर्तुं न क्षमन्त इत्याभिप्रायः। वैरूपेन्द्रस्य याज्या, वैराजेन्द्रस्य पुरोनुवाक्येत्युभयरूपा कदा चनस्तरीरसीत्येषा नात्राम्नाता किंतु शाखान्तरवशाद्व्याहर्तव्या। सा च प्रथमकाण्ड एव व्याख्याता।
वैराजेन्द्रस्य याज्या, शाक्वरेन्द्रस्य पुरोनुवाक्येत्युभयरूपामृचं पठति—
पिबा सोममिति। हे इन्द्र त्वं सोमं पिब। स च पीतः सोमस्त्वा मन्दतु
[[1269]]
प्रपा. ४ अनु. १४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(याज्यानुवाक्याभिधानम्)
त्वां हर्षयतु। हरिनामका अश्वा यस्यासौ हर्यश्वः हे हर्यश्व ते त्वदर्थमद्रिरूपांशुसवनादिरूपः पाषाणो यं सोमं सुषावाभिषुतयांस्त्वं (स्तं) पिबेति पूर्वत्रान्वयः। कीदृशोऽद्रि, सोतुरभिषोतुर्ऋत्विजो बाहुभ्यां सुयतः सुष्ठु नियमितः अत एव नार्वा न त्वेवाचीन्मे नियमनरहितः सोमं यत्र तत्र पातयित्वा विनाशयति। तादृशं सोमं पीत्वा वीर्यं देहीत्यभिप्रायः। शाक्केस्न्द्रस्य याज्या, रेवतेन्द्रस्य पुरोनुवाक्येत्युभयप्यामृचं पठति—
रेवतीर्न इति। रेवत्यो धनवत्य, सधमादोऽस्माभिः सह मादयन्त्यो हर्षयुक्ताः, तुविवाजा वह्यन्नोपेता आपो नोऽस्माकं स्वामिनीन्द्रे सन्तु अस्माकं सुखाय तिष्ठन्तु। याभिरद्भिः सह वयं क्षुमन्तः शब्दयन्त इन्द्रं स्तुवन्तो मदेन हृध्याम।
यश्चक्षुष्कामः स्यात्तस्मा एतामिष्टिं निर्वपेदग्नये भ्राजस्वते पुरोडाशमाष्टाकपाल ँ सौर्यं चरुमग्नये भ्राजस्वते पुरोडाशमष्टाकपालम् इत्यत्राऽऽग्नेये कर्मणि याज्युनुवाक्ययोः प्रतीके दर्शयति।
उदग्ने शुचय इति। उदग्ने शुचयस्तव शुक्रा इत्येषा पुरोनुवाक्या। सा च प्रथमकाण्डस्य तृतीयप्रपाठके व्याख्याता। वि ज्योतिषा बृहता भात्यग्निरित्येषा याज्या। सा तु प्रथमकाण्डस्य द्वितीयप्रपाठके व्याख्याता। सौर्ये कर्मणिपुरोनुवाक्याः प्रतीकं दर्शयति।
उदु त्यमिति। सेयं प्रथमकाण्डस्य चतुर्थप्रपाठके व्याख्याता। तत्रैव याज्यामाह—
सप्त त्वेति। हे सूर्य देव त्वां सप्त हरितोऽश्वा रथे वहन्ति। कीदृशं त्वां शोचिष्केशं शोचींषि दीप्यमानाः केशस्थानीया रश्मयो यस्य तादृशम्। हे विचक्षणेति सूर्यविशेषणम्। तत्रैव विकल्पितां याज्यामाह—
चित्रं देवानामिति। चित्रं रक्तश्वेतादिविविधवर्णं देवानां रश्मीनामनीकं सैन्यसदृशं मण्डलमुदगादुदेति। कीदृशं मित्रादिदेवोपलक्षितस्य कृत्स्नस्य प्राणिजातस्येन्द्रियाधिष्ठातृत्वाच्चक्षुःस्थानीयम्। तन्मण्डलस्थः सूर्यो जगतो जङ्गमस्य
[[1270]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(याज्यानुवाक्याभिधानम्)
तस्थुषः स्थावरस्य चाऽऽत्मा। स लोकत्रयमाप्राः सर्वतः पूरितवान्। वैश्वदेवी ँ सांग्रहणीं निर्वपेद्ग्रामकामः इत्यत्र पुरोनुवाक्यामाह–
विश्वे देवा इति। विश्वे देवा युज्यं योग्यं षयः क्षीरवत्सारभूतं हविर्जुषन्ताम्। कीदृशा देवा, ऋतावृध ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितारः, ऋतु भिर्हवनश्रुतस्तैस्तैर्ऋतुभिरुपलक्षिते कर्मण्याह्वानस्य श्रोतारः। तत्रैव याज्यामाह—
विश्वे देवा इति। हे विश्वे देवा मे मदीयमिमं हवमाह्वान शृणुत। ये यूयमन्तरिक्षे स्थान्तरिक्षलोके स्थिता ये चोप समीपे पृथिव्यां स्थिता ये च द्यवि द्युलोके स्थ ये चाग्निजिह्वा अग्निरेव जिह्वा येषां तेऽग्निजिह्वा अग्निद्वारेण हविषः स्वीकर्तार उत वा ऽ न्ये ऽपि वा यजत्रा यष्टव्यास्ते सर्वेऽपि अस्मिन्बर्हिषि यज्ञ आसद्योपविश्य मादयध्वं हृष्टा भवत यजमानं हर्षयध्वम्। अत्र विनियोग संग्रहः –
“आदित्येष्टौ नवोद्वे तु प्राच्यामित्यादिकं त्रय (चाष्टक) म्।
राजादिगुणकेन्द्रस्य पुरोडाशसमूहके।।
आग्नेय उदविज्योद्वे उदु त्यं जातवेदसम्।
सप्त चित्रं त्रयं सौर्ये सांग्रहण्या उ (मु) मे इमे।
विश्वे देवा इति प्रोक्ता मन्त्राः सप्तदशैव हि।।”
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके
चतुर्दशोऽनुवाकः ।। १४ ।।
वेदार्थस्य प्रकाशेन तमो हर्दि निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः।।
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य
श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
द्वितीयकाण्डे चतुर्थः प्रपाठकः।। ४ ।।
[[1271]]
प्रपा. ५ अनु. १) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अग्नीषोमीयह विर्विध्युपोद्घातः)