१३

(अथ द्वितीयाष्टके चतुर्थप्रपाठके त्रयोदशोऽनुवाकः।
दे॒वा वै रा॑ज॒न्या॑ज्जाय॑मानादबिभयु॒स्तम॒न्त-
रे॒व सन्तं॒ दाम्नाऽपौ॑म्भ॒न्त्स वा ए॒षोऽपो॑ब्धो
जायते॒ यद्रा॑ज॒न्यो॑ यद्वा ए॒षोऽन॑पोब्धो॒ जा
ये॑त वृत्रान्घ्नँ श्च॑रे॒द्यं का॒मये॑त राज॒न्य॑मन॑-

[[1263]]

प्रपा. ३ अनु. १३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।

(ऐन्द्राबार्हस्पत्यचरुविधिः)
पोब्धो जायेत वृत्रान्घ्नँश्च॑रे॒दिति॒ तस्मा॑ ए॒-
तमै॑न्द्राबार्हस्प॒त्यं च॒रुं निर्व॑पैदै॒न्द्रो वै रा॑ज॒
न्यो॑ ब्रह्म॒ बृ॒हस्पति॒र्ब्रह्म॑णै॒वैनं॒ दाम्नो॒ऽपो
म्भ॑नान्मुञ्चति हिर॒ण्मयं॒ दाम॒ दक्षि॑णा सा॒क्षा
दे॒वैनं॒ दाम्नो॒ऽपोम्भ॑नान्मुञ्चति (१) ।।
(ए॒नं॒ द्वाद॑श च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहिताया द्वितीयाष्टके
चतुर्थप्रपाठके त्रयोदशोऽनुवाकः ।। १३ ।।
(अथ द्वितीयाष्टके चतुर्थप्रपाठके त्रयोदशोऽनुवाकः)।
त्रैधातवीययागस्य द्वादशे देवतेरिता।
अथ त्रयोदशेऽनुवाक ऐन्द्राबार्हस्पत्यं चरुं विधातुं प्रस्तौति—
देवा वा इति। राजन्यस्याप्रतिबद्धशक्तिकत्वेनेतरवैरिवद्देवानपि हनिष्यतीति मत्वा देवा भीताः सन्तो गर्भमध्य एव स्थितं सन्तं राजन्यं शक्तिप्रति बन्धलक्षणेन दाम्नाऽपगतशक्तिको यथा भवति तथौम्भञ्शक्तिप्रतिबन्धं पूरि तवन्तः। अत एव सर्वत्र लोके राजन्यः प्रतिबद्धशक्तिक एव जायते। यद्यप्रतिबद्धशक्तिको जायेत गर्भनिर्गमनमारभ्य वैरिणो मारयन्निव लोके चरेत्। इदानीं विधत्ते—
यं कामयेतेति। यं राजन्यं इत्यध्वर्युरेवं कामयेत देवैरप्रतिबद्धसक्तिकोऽयं जायतां सर्वत्र निवारकान्वैरिणो मारयन्नेव चरित्विति तस्येयमिष्टिः। देवेष्विन्द्रस्य क्षत्रियत्वं बृहदारण्यके समाम्नातम् –“यान्येतानि देवत्रा क्षत्त्राणीन्द्रो वरुणः सोमो रुद्रः” इति। तस्मान्मनुष्येषु राजन्य ऐन्द्रः। “ब्रह्म वै देवानां बृहस्पतिः” इत्यस्य श्रवणाद्बृहस्पतेर्ब्राह्मणजातित्वम्। अत ऐन्द्राबार्हस्पत्यचरौ

[[1264]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता— (२ द्वितीयकाण्डे-
(याज्यानुवाक्याभिधानम्)
निरुप्ते सत्येनमैन्द्रं राजन्यं ब्रह्मणा बृहस्पतिसामर्थ्येन दैविकाच्छक्तिप्रतिबन्धान्मोचयति। अत्रोचितां दक्षिणां विधत्ते—
हिरण्मयमिति। दाम रज्जुः। बन्धके दामनि दत्ते सति प्रत्यक्षत एव बन्धमोक्षो भवति।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय
तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके
त्रयोदशो ऽनुवाकः ।। १३ ।।