(अथ द्वितीयाष्टके चतुर्थप्रपाठके द्वादशोऽनुवाकः)।
त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्रँ॒ सोम॒माऽह॑र॒त्तस्मि॒
न्निन्द्रं॑ उपह॒वमै॑च्छत॒ तं नोपा॑ह्वयत पु॒त्रं
मे॑ऽवधी॒रिति॒ य य॑ज्ञवेश॒सं कृ॒त्वा प्रा॒सहा॒
सोम॑मपिब॒त्तस्य॒ यद॒त्यशि॑ष्यत॒ तत्त्वाष्टा॑ऽऽह
व॒नीय॒मुप॒प्राव॑र्तय॒त्स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॒ स
याव॑दू॒र्ध्वः प॑रा॒विध्य॑ति॒ ताव॑ति स्व॒यमे॒व व्य॑-
रमत यदि॑ वा॒ ताव॑त्प्रव॒णम् (१) आ॒सी॒
द्यदि॑ वा॒ ताव॒दध्य॒ग्नेरासी॒त्स सं॒भव॑न्न॒ग्नीषो-
मा॑व॒भि सम॑भव॒त्स इ॑षुमा॒त्रमि॑षुमात्रं॒ विष्व॑-
ङ्ङवर्धत॒ स इ॒माल्लोँ॒कान॑वृणो॒द्यदि॒माल्लो॒कान
वृ॑णो॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वं तस्मा॒दिन्द्रो॑ऽबिभे॒दपि॒
त्वष्टा॒ तस्मै॒ त्वष्टा॒ वज्र॑मसिञ्चत्तपो वै स वज्र॒
आसी॒त्तमु॒द्य॑न्तुं॒ नाश॑क्नो॒दथ वै तर्हि॒ विष्णुः॑
(२) अ॒न्या दे॒वता॑ऽऽसी॒त्सो॑ऽब्रवी॒-
द्विष्ण॒वेही॒दमा ह॑रिष्यावो॒ येना॒यमि॒दमिति॒
रा विष्णु॑स्त्रे॒धाऽऽत्मानं॒ वि न्य॑धत्त पृथि॒व्यां
तृती॑यम॒न्तरि॑क्षे॒ तृती॑यं दि॒वि तृती॑य॒मासीत्ते-
पर्याव॒र्ताद्ध्यबि॑भे॒द्यत्पृ॑थि॒व्यां तृती॑य॒मासी॒त्ते-
नेन्द्रो वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सो॑ऽ
ब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् (३)
मयि॑ वी॒र्यं तत्ते॒ प्र दा॑स्या॒मीति॒ तद॑स्मै॒ प्राय॑-
[[1258]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(त्रैधातवीयद्रव्योद्देशेनेन्द्रविष्णुदेवताकत्वसहस्रदक्षिणयोविधिः)
च्छ॒त्तत्प्रत्य॑गृह्णा॒दधा॒ मेति॒ तद्विष्ण॒वेऽति॒
प्राय॑च्छ॒त्तद्विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑
इन्द्रि॒यं द॑धा॒त्विति॒ यद॒न्तरि॑क्षे॒ तृती॑यमासी॒
त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सो॑ऽ
ब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् (४)
मयि॑ वी॒र्य॑ तत्ते॒ प्र दास्या॒मीति॒ त॑दस्मै॒ प्रा-
य॑च्छ॒त्तत्प्रत्य॑गृह्णा॒द्दविर्मा॑ऽधा॒ इति॒ तद्वि
ष्ण॒वेऽति॒ प्राय॑च्छ॒त्तद्विष्णुः॒ प्रत्य॑ गृह्णाद॒
स्मास्विन्द्र॑ इन्द्रि॒यं द॑धा॒त्विति॒ यद्दि॒वि तृती॑-
य॒मासी॒त्तेनेन्द्रो॒ व॒ज्रमुद॑यच्छ॒द्विप्ण्व॑नुस्थितः॒
सो॑ऽब्रवी॒न्मा मे॒ प्र हा॒र्येना॒हम (५) इद॒-
मस्मि॒ तत्ते॒ प्र दा॑स्या॒मीति॒ त्वी ३ इत्य॑ब्र-
वीत्सं॒धां तु सं द॑धावहै॒ त्याये॒व प्र वि॑शा॒नी-
ति॒ यन्मां प्रवि॒शेः किं मा॑ भुञ्जा॒ इत्य॑ब्रवी॒-
त्त्वामे॒वेन्धी॑य॒ तव॒ भोगा॑य॒ त्वां प्र वि॑शेय॒-
मित्य॑बवी॒त्तं वृ॒त्रः प्रावि॑शदु॒दरं॒ वै वृ॒त्रः क्षु-
त्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यः (६) एवं॒
वेद॒ हन्ति॒ क्षुधं॒ भ्रातृव्यं॒ तद॑स्मै॒ प्राय॑च्छ॒त्त-
त्प्रत्य॑गृह्णा॒न्त्रिर्मा॑ ऽधा॒ इति॒ तद्विष्णवे॒ऽति॒
प्राय॑च्छ॒त्तद्विष्णुः प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑
इन्द्रि॒यं द॑धा॒त्विति॒ यत्त्रिः प्राय॑च्छ॒त्त्रिः प्र॒-
त्यगृह॒णात्त॒त्त्रिधा॒तो॑स्त्रि॒धातु॒त्वं यद्वि॒ष्णु॑र
[[1259]]
प्रपा. ४ अनु. १२) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(त्रैधातवीयद्रव्योद्देशेनेन्द्राविष्णुदेवताकत्वसहस्रदक्षिणयोविधिः)
न्वति॑ष्ठत॒ विष्ण॒वेऽति॒ प्राय॑च्छ॒त्तस्मा॑यैन्द्रा-
वैष्ण॒वँ ह॒विर्भ॑वति॒ यद्वा इ॒दं किं च॒ तद॑-
स्मै॒ तत्प्राय॑च्छ॒दृचः॒ सामा॑नि॒ यजूँ॑षि स॒-
हस्रं॒ वा अस्मै॒ तत्प्राय॑च्छ॒त्तस्मा॑त्स॒ह॒स्र॒दक्षि-
णम् (७) ।।
(प्र॒व॒णं॒ विष्णु॒र्वा इ॒दमि॒दमहं यो य॑व॒त्येक॑विँ शतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
चतुर्थप्रपाठके द्वादशोऽनुवाकः ।। १२ ।।
(अथ द्वितीयकाण्डे चतुर्थप्रपाठके द्वादशोऽनुवाकः)।
त्रैधातवीयतद्द्रव्ये एकादश उदीरिते।
अथ द्वादशे तस्य द्रव्यस्येन्द्राविष्णुदेवताकत्वं सहस्रदक्षिणां च विधास्यन्नादौ कर्मनाम्नि विधातुत्वसंपादनायोपाख्यानं दर्शयति—
त्वष्ट हतपुत्र इति। विश्वरूपनाम्नस्त्वष्टुपुत्रस्येन्द्रेण कृतो वध उपरितनप्रपाठकस्य प्रथमनुवाके स्पष्टी भविष्यति। स च हतपुत्रास्त्वष्टा कोपादिन्द्ररहितं सोमयागं कर्तुमुद्यतः। तस्मिन्यागे मामाह्वयेत्येवमिन्द्रोऽब्रवीत्। स तु त्वष्टा तं पुत्रं मेऽवधीरित्यवदत्। तमिन्द्रं नोपाह्वयत। स चेन्द्रो यज्ञस्य विधातं कृत्वा बलात्कारेण सोमं पीतवान्।
अथ त्वष्टुरभिचारहोमेनेन्द्रवधहेतोः पुरुषस्योत्पत्तिं दर्शयति—
तस्य यदिति। तस्येन्द्रेण बलात्पीतस्य सोमस्य संबन्धि रसरूपं यदल्पमत्यशिष्यत तद्गृहीत्वा त्वष्टाऽभिचारं कर्तुमाहवनीयमुपेत्य होमेनाग्निं वैर्युत्पादनाय प्रवृत्तमकरोत्। तस्मिन्होमे मन्त्रमिममुच्चारितवान्स्वाहेन्द्रशत्रुर्वर्धस्वेति। तस्यायमर्थः हेऽग्ने तुभ्यमिदं स्वाहुतं, पुनरिन्द्रस्य शातयिता कश्चित्पुरुषो भूत्वा वर्धस्वेति। सोऽग्निर्यावता कालेनोर्ध्वज्वालारूपो भूत्वा पराभूतमिन्द्रं कर्तुं विध्या-
[[1260]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(त्रैधातवीयद्रव्योद्देशेनेन्द्राविष्णुदेवताकत्वसहस्रदक्षिणयोविधिः)
मीत्युद्यतो भवति तावति काले वह्निः स्वयमेव त्वरतोऽभूज्ज्वाला शान्तेत्यर्थः। तत्र मन्त्रगतस्वरापराधो निमित्तम्। तथा हि, इन्द्रस्य शातयितेन्द्र शत्रुरिति विवक्षायां तत्पुरुषसमासस्यान्तोदात्तत्वेनं भवितव्यम्। आद्युदात्तस्त्वयं शब्दः प्रयुक्तः। स च बहुव्रीहितां द्योतयति। “बहुव्रीहो प्रकृत्या पूर्वपदम्” इति पूर्वपदाद्युदात्तत्वविधानात्। सति बहुव्रीहाविन्द्रः शातयिता यस्येत्प्रर्थो भवति। सोऽयं मन्त्रगतः स्वरापराधः अपराधाभावे सत्युन्नतया ज्वालया यजमानस्य कार्यसिद्धिः सूचिता भवति। अपराधे त्ववनतया ज्वालया यजमानस्य कार्यसिद्ध्यभावः सूच्यते। यद्यत्र कार्यासिद्ध्यभावसूचनायाग्निः (ग्नेः) प्रवणमवनतमासीत्, यदि वा कार्यसिद्धेः सूचनार्थमग्निज्वा (ग्नेर्ज्वा) लयाऽधिका वृद्धिरभूत्, तद्यथा तथा वा तिष्ठतु। स त्वग्निः पुरुषरूपेण संभवन्नेवाग्नीषोमावभिव्याप्य समुत्पन्नो होमाघाराङ्गाराभिमानिनमग्निदेवं हूयमानरसाभिमानिनं सोमदेवं च स्वमुखे मक्षिप्योभयोः पार्श्वयोरूर्ध्वाधोदन्तपङ्क्तिभ्यां दष्टवानित्यर्थः। एतच्चोपरितनप्रपाठके “नावब्रूतामभिसंदष्टौ वै स्वः” इत्यत्र स्पष्टी भविष्यति। एतस्योत्पन्नस्य पुरुषस्य वृत्रत्वं दर्शयति—
स इषुमात्रमिति। इषुपातो यावति देशे भवति तावन्तं देशं सर्वासु दिक्षु व्याप्य प्रतिदिनमयमवर्धत, तेन सर्वलोकावरणादस्य वृत्रत्वम्। अथास्य वृत्रस्य वधाय साधनभूतस्य वज्रस्योत्पत्तिं दर्शयति—
तस्मादिति। तस्मात्सर्वलोकावरकाद्वृत्रादिन्द्रोऽबिभेत्। यथेन्द्रस्तथा त्वष्टाऽप्यबिभेत्। त्रिष्वपि लोकेष्वनेनावृतेषु त्वष्टुरिन्द्रस्य चोभयोः समान एव स्थानाभावः। ततस्त्वष्टा तं वृत्रं हन्तुं तेनेन्द्रेण सह मैत्रीं कृत्वा तस्या इन्द्राय वज्रमसिञ्चत्। अस्त्ररूपत्वायाभिमन्त्रितेन जलेन तदीयं वज्रं प्रक्षाल्य तस्मै दत्तबानित्यर्थः। सोऽयमिन्द्रसंबन्धी वज्रोऽभिमन्त्रितत्वात्तपोरूप एवाऽऽसीत्। तपोरूपस्य तस्य वज्रस्योद्यमनाय विष्णु सहकार्यपेक्षामिन्द्रस्य दर्शयति—
तमुद्यन्तुमिति। येदेन्द्र उद्यमने शक्तो नाभूत्तदानीं तस्येन्द्रस्य पुरतो विष्णुर्नाम काचिद्देवताऽऽसीत्तं विष्णुमेवं प्रार्थितवान्वृत्रस्य वीर्यं स्मृत्वा भयमापन्नस्य मम हस्तो वज्रमुद्यन्तुं न प्रभवति। यन वीर्येणायं वत्र इदं जगद्व्प्राप्तवान्
[[1261]]
प्रपा. ४ अनु. १२) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(त्रैधातवीयद्रव्योद्देशेनेन्द्राविष्णुदेवताकत्वसहस्रदक्षिणयोविधिः)
तादृशं वीर्यमावामुभावस्माद्वृत्रादाहरिब्यावः। अतो हे विष्णो मम सहकारित्वभागच्छेति। प्रार्थितस्य विष्णोः साहाय्याचरणप्रकारं दर्शयति—
स विष्णुरिति। विष्णुर्मूर्तित्रयं संपाद्य रक्षणाय लोकत्रये स्थापितवान्। यस्मादस्य वृत्रस्याभिपर्यावर्तात्सर्वदिग्व्यापिरूपाया वृद्धेरयमिन्द्रोऽबिभेत्तस्मादिन्द्रभीतिनिवारणाय मूर्तिप्रयस्थापनं युक्तमित्यभिप्रायः। मूर्तित्रयस्थापनादूर्ध्वं प्रवृत्तमिन्द्रव्यापारं दर्शयति—
यत्पृथिव्यामिति। विष्णुना स्वकीयवक्ष्यमाणद्वयापक्षेया तृतीयं शरीरं पृथीव्यां यत्स्थापितमासीत्तेन युक्त स इन्द्रस्तस्य विष्णोः पृष्ठतः स्श्चितस्तं वज्रमुदयच्छत्। तदानीं स वृत्रो भीतः सन्निन्द्रमिदमब्रवीत्-हे इन्द्र मे शरीरं मा प्रहारस्ति वा इदं किंचिन्मयि वीर्य पृथिवीव्याप्तिक्षमं तत्सर्वं तुभ्यं दास्यामीत्युक्त्वा तदिन्द्राय दत्तवान्। स चेन्द्रस्तत्स्वी चकार। स्वीकृत्य च मां धारयेति ब्रुवन्विष्णवे तद्वीर्यमत्यादरेण प्रायच्छत्। स च विष्णुरस्मासु मध्येऽयमिन्द्रो वीर्यं धारयत्वित्यभिप्रेत्येन्द्रार्थं तद्वीर्यं प्रत्यगृह्णात्। ईदृशमिन्द्रकृत्यं द्वितीयपर्याये दर्शयति—
यदन्तरिक्ष इति। हे विष्णो पूर्वं सकृद्वीर्यग्रहणेन मां धारितवानसि, तदपेक्ष्य द्विर्मां धारयेति ब्रुवन्वीर्यं प्रायच्छत्। तृतीयपर्याये तस्येन्द्रस्य कृत्यं दर्शयति—
यद्दिवीति। येन वीर्येणाहमिदं जगदव्याप्तवानास्मि तत्सर्वं ते प्रदास्यामीत्युक्त इन्द्रोऽङ्गी चकार। अङ्गीकारार्थोऽयं त्वीशब्दः। अस्तु तथेत्यर्थः। तस्य वीर्यस्य प्रदानात्प्रागेवेन्द्रवृत्रयोः संधिं दर्शयति—
संधां तु समिति। तुशब्दो वक्तव्यशेषसद्भावद्योतनार्थः। तत्सर्वं वीर्यं तुभ्यं दास्यामीति (मि) किंत्वन्यच्छेषं वक्तव्यमस्ति। तावदुभौ संधानं करवाव। कीदृशं संधानमिति तदुच्यते—हे इन्द्र त्वामेवाहं प्रविशानीति। तत इन्द्र एवमब्रवीद्यदि त्वं मां प्रविशेस्तदा किं मामेव भोक्ष्यस इति। ततो बृत्र इदमब्रवीन्नाहं त्वां भोक्ष्ये, किंतु त्वाभिन्धीयोदराग्निपाटवेन प्रकाशयेयं दीपयेयं, तच्च तव बहुविधान्नभोगायोपयुज्येत। ततस्त्वां प्रविशामीत्युक्त्वा तमिन्द्रं
[[1262]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— (२ द्वितीयकाण्डे—
(ऐन्द्राबार्हस्पत्यचरुविधिः)
वृत्रः प्राविशत्। प्रविष्टश्च वृत्रो बह्वन्नपूरणक्षममवकाशरूपमुदरमभवत्। लोकेऽपि मनुष्योदरे वर्तमाना क्षुदेवात्यन्तबाधकत्वात्सहजो भ्रातृव्यः। एतद्वेदनस्य क्षुदपघातः फलम्। तस्य वृत्रस्य प्रवेशात्पूर्वं द्युलोकगतवीर्यदानं यदस्ति तदिदानीं दर्शयति—
तदस्मा इति। पूर्ववद्व्याख्येयम्। इदानीं त्रिधातुनिर्वचनं दर्शयति—
यत्त्रिः प्रेति। वृत्रस्य त्रिवारप्रदानेनेन्द्रस्य त्रिवारप्रतिग्रहेण च वीयर्रूपस्य पुरोडाशस्य हविषास्त्रिधा भिन्नस्य त्रिधातुनाम संपन्नम्। त्रयो धातवश्चतुष्कपालरूपा भेदा यस्य द्वादशकपालपुरोडाशस्य सोऽयं त्रिधातुः। त्रिसंख्यातस्य हविषो व्यासक्तदेवतां विधत्ते—
यदविष्णुरिति। यस्माद्विष्णुरनुकूलत्वेन स्थितस्तस्मै च विष्णवेऽयमिन्द्रोऽत्यादरेण प्रायच्छत्तस्माद्व्यासक्तयोरिन्द्रविष्ण्वोस्तत्र देवतात्वम्। त्रिवारं प्रत्तं तद्वीर्यरूपं हविर्वेदत्रयरूपेण प्रशंसति—
यद्वा इदमिति। अत्र च या हिरण्यदक्षिणा पूर्वमुक्ता तस्याः संख्याविधिमुन्नयति—
सहस्रमिति। यस्मात्सहस्रभेदाभिन्नं वीर्यं दत्तवांस्तस्मात्सहस्रदक्षिणाकमिदंकर्म द्रष्टव्यम्।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णय-
जुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके
द्वादशोऽनुवाकः ।। १२ ।।