११

(अथ द्वितीयाष्टके चतुर्थप्रपाठके एकादशोऽनुवाकः)।
सर्वा॑णि छन्दाँ॑ स्ये॒तस्या॒मिष्ट्या॑म॒नूच्या॒नी
त्या॑हुस्त्रि॒ष्टु॒भो वा ए॒त॒द्वीर्य॑ यत्क॒कुदु॒ष्णिहा॒
जग॑त्यै॒ यदु॑ष्णिहक॒कुभा॑व॒न्वाह॒ तेनै॒व सर्वा॑णि॒
छन्दाँ॒ स्येव॑ रुन्धे गाय॒त्री वा एषा॒ यदु॒ष्णि-
हा॒ यानि॑ च॒त्वार्यध्य॒क्षरा॑णि॒ चतु॑ष्पाद ए॒व
ते प॒शवो॒ यथा॑ पुरो॒डाशे॑ पुरो॒डाशोऽध्ये॒वमे॒व
तद्यदृ॒च्यध्य॒क्षरा॑णि॒ यज्जग॑त्या (१) प॒रि॒-
द॒ध्यादन्तं॑ य॒ज्ञं ग॑मयेत्त्रि॒ष्टुभा॒ परि॑ दधाती-
न्द्रि॒यं वै वी॒र्यं त्रि॒ष्टुभि॑न्द्रि॒य ए॒व वी॒र्ये॑ य॒ज्ञं
प्रति॑ष्ठापयति॒ नान्तं॑ गमय॒त्यग्ने॒ त्री ते॒ वाजि॑-
ना॒ त्री॒ प॒धस्थेति त्रिव॑त्या॒ परि॑ दधाति सरू

[[1252]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(त्रैधातवीयेष्टिविधिः)
प॒त्वाय॒ सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीयं॒
कामा॑यकामाय॒ प्र यु॑ज्यते॒ सर्वे॑भ्यो॒ हि का
मे॑भ्यो य॒ज्ञः प्र॑यु॒ज्यते॑ त्रैधात॒वीये॑न यजेता
भि॒चर॒न्त्सर्वो॒ वै (२) ए॒ष यज्ञो॒ यत्त्रै॑धा॒त-
वीयँ॒ सर्वे॑णैवैनं॑ य॒ज्ञेना॒भि च॑रति स्तृणु॒त
ए॒वैन॑मे॒तयै॒व य॑जेताभिच॒र्यमा॑णः॒ सर्वो॒ वा
ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीयँ॒ सर्वे॑णै॒व य॒जेन॑ य
जते॒ नैन॑मभि॒चर॑न्स्तृणुत ए॒तयै॒व य॑जेत स॒-
हस्रे॑ण य॒क्ष्यमा॑णः॒ प्रजा॑तमे॒वैन॑द्ददात्ये॒तयै॒व
य॑जेत स॒हस्रे॑णेजा॒नोऽन्तं॒ वा ए॒ष प॑शू॒नां ग॑
च्छति (३) यः स॒हस्रे॑ण॒ यज॑ते प्र॒जाप॑तिः॒
खलु॒ वै प॒शून॑सृजत॒ ताँ स्त्रै॑धात॒वीये॑नै॒वासृ॑
जत॒ य ए॒वं वि॒द्वाँ स्त्रै॑धात॒वीये॑न प॒शुका॑मो॒
यज॑ते॒ यस्मा॑दे॒व योनेः॑ प्र॒जाप॑तिः प॒शूनसृ॑-
जत॒ तस्मा॑दे॒वैना॑न्त्सृजत॒ उपै॑नमुत्त॑रँ स॒हस्रं॑
नमति दे॒वता॑भ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यो
य॒क्ष्य इत्यु॒क्त्वा न यज॑ते त्रेधातवीये॑न य-
जेत॒ सर्वो॒ वा ए॒ष य॒ज्ञः (४) यत्त्रै॑धात॒वी
यँ॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒ न दे॒वता॑भ्य॒ आ
वृ॑श्च्यते॒ द्वाद॑शकपालः पुरो॒डाशो॑ भवति॒
ते त्रय॒श्चतु॑ष्कपालास्त्रिष्षमृद्ध॒त्वाय॒ त्रयः॑ पु
रो॒डाशा॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का एषां लो॒-

[[1253]]

प्रपा. ४ अनु. ११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(त्रैधातवीयेष्टिविधिः)
काना॒माप्त्या॒ उत्त॒रउत्तरो॒ ज्याया॑न्भवत्ये॒व-
मि॑व॒ हीमे लो॒का य॑व॒मयो॒ मध्य॑ ए॒तद्वा अ-
न्तरि॑क्षस्य रू॒पँ समृ॑द्ध्यै॒ सर्वे॑षामभिग॒मय॒-
न्नव॑ द्य॒त्यछ॑म्बट्कारँ॒ हिर॑ण्यं ददाति॒ तेज॑
ए॒व (५) अव॑ रुन्धे ता॒र्प्य द॑दाति प॒शूने॒-
वाव॑ रुन्धे धे॒नुं द॑दात्या॒शिष॑ ए॒वाव॑ रुन्धे॒
साम्नो॒ वा ए॒ष वर्णो॒ यद्धिर॑ण्यं॒ यजु॑षां ता॒-
र्प्यमु॑क्थाम॒दानां॑ धे॒नुरे॒ताने॒व सर्वा॒न्वर्णा॒नव॑
रुन्धे ।। ६ ।।
(जग॑त्याऽभि॒च॒रन्त्सर्वो॒ वै ग॑च्छति य॒ज्ञस्तेज॑ ए॒व॒ त्रिँ॒शच्च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
चतुर्थप्रपाठके एकादशोऽनुवाकः ।। ११ ।।
(अथ द्वितीयकाण्डे चतुर्थप्रपाठकः एकादशोनुवाकः)।
अनुवाके तु दशमे कारीरीष्टिः समापिता।
अथैकादशे त्रैधातवीयेष्टिर्विधीयते। तत्राऽऽदौ सामिधेनीषु द्वे धाय्ये विधत्ते—
सर्वाणि छन्दा ँ सीति। एतस्यां त्रैधातवीयेष्टौ सामिधेनीरूपेण सर्वाण्यपि च्छन्दांस्यनुवक्तव्यानीत्यभिज्ञा आहुः। तत्तु सर्वच्छन्दोनुवचनं कथं घटत इति तदुच्यते—ककुच्छन्दस्त्रिष्टुभः सारम्, उष्णिक्छन्दो जगत्याः सारम्। अतस्तदुभयानुवचनेन सर्वच्छन्दोनुवचनं संपद्यते। प्र सो अग्ने तवोतिभिरित्येषा ककुतदीयेषु त्रिषु पादेषु मध्यमपादस्य द्वादशाक्षरत्वात्। प्र होमे पूर्व्यं वच इत्येषोष्णिक्तदीयेषु त्रिषु पादेष्वान्तिमपादस्य द्वादशाक्षरत्वात्। एतदुभयवचनेन त्रिष्टुब्जगत्योर्लाभेऽपि गायत्र्या अलाभशङकां वारयितुमन्तर्भावं दर्शयति–

[[1254]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(त्रैधातवीयेष्टिविधिः)
गायत्री वा इति। उष्णिक्छन्दसोऽष्टाविंशत्यक्षराणि तत्र चतुर्विंशत्यक्षरैर्गायत्र्यन्तर्भूता। यान्यधिकाक्षराणि चत्वारि सन्ति ते चतुष्पात्पशुस्वरूपा एव। पूर्वस्मिन्प्रपाठके त्रिधाताविष्टौ पुरोडाशस्योपरि पुरोडाशान्तरस्थापनं विहितम्। एवमत्रापि विधास्यते। एवं सति यथा पुरोडाशेऽध्युपर्यन्यः पुरोडाशः स्थाप्यते, एवमेवोष्णिक्छन्दस्कायामृचि गायत्रीछन्दोक्षरसंख्याया अधिकाक्षराणि चत्वारीति यत्तदवमन्तव्यम्। अतः पुरोडाशसाम्यायाक्षराधिक्यं युक्तमित्यभिप्रायः। * प्रकृतौ द्वै ऋचावुक्ते आ जुहोत दुवस्यतेति गायत्री सामिधेनी, त्वं वरुण इति जगती भवति, ते अपवदितुं त्रिष्टुभं विधत्ते—
यज्जगत्येति। उष्णिक्छन्दसो जगतीवीर्यत्वेन निरूपितत्वात्तदेवात्र जगतीशब्देन विवक्ष्यते। तस्मिंश्चोष्णिक्छन्दसि गायत्र्यन्तर्भावस्योक्तत्वाल्लाक्षितलक्षणया जगतीशब्दो गायत्रीं ब्रूते। तथा सति प्रकृतिवद्रयत्र्या परिधानं यत्तदेवात्र जगतीपरिधानमिति विवक्षितत्वात्तत्र बाध इत्युच्यते। अथवा शाखान्तरानुसारेण मुख्ययैव जगत्याऽत्र प्राप्तं परिधानं दूष्यते। तत्परिधाने हि यज्ञं नाशितवान्भवति। अथ त्रिष्टुभा परिदध्यात्सामिधेनीः समापयेदित्यर्थः। त्रिष्टुभ इन्द्रियसामर्थ्यरूपत्वाद्यज्ञं सामर्थ्ये प्रतिष्ठापितवान्भवति। ततो यज्ञं न नाशयति। तां त्रिष्टुभं दर्शयति—
अग्ने त्री त इति। त्रिशब्दा बहवो यस्यां सन्तीति त्रिवती। सेयं तृतीयकाण्डस्य द्वितीयप्रपाठके समाम्नास्यमानत्वात्तत्रैव व्याख्यास्यते। यथाऽस्यामृचि त्रिशब्दस्तथा त्रैघातवीयकर्मनामन्यपि त्रिशब्दोऽस्तीति सारूप्यम्। सर्वकामसाधनत्वेन यागं विधत्ते—
सर्वो वा इति। सर्वेषु यज्ञेषु यानि च्छदांसि प्रयोक्तव्यानि तानि सर्वाण्यत्रोष्णिक्कु द्भ्यामेवावरुध्यानीत्युक्तम्। अतोऽयं सर्वयज्ञस्वरूपत्वाद्यस्य यः कामोऽस्ति तेन तदर्थं प्रयोक्तव्यः। यस्माज्जोतिष्टोमादिरखिलो यज्ञः सर्वकामार्थं प्रयुज्यते तस्मात्सर्वज्ञस्वरूपस्यास्य सर्वकामार्थत्वं युक्तम्।

  • प्रकृतावा जुहोत दुवस्यतेति गायत्री सामिधेनीषु परिधानीया भवति तामपवदितुमिति तै. इति ख. पुस्तके पाठान्तरम्।

[[1255]]

प्रपा. ४ अनु. ११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(त्रैधातवीयेष्टिविधिः)
सामान्येन सर्वकामार्थत्वं विधाय विशेषतोऽभिचारहेतुत्वं विधत्ते—
त्रैधातवीयेनेति। अभिचारपरिहारार्थत्वं विधत्ते—
एतयैवेति। एतयैव त्रैधातवीयेष्ट्यैव।
सहस्रदक्षिणाकस्य ज्योतिर्विश्वज्योतिरप्तोर्याममहाव्रतादेरनुष्ठानसिद्धिं प्रति साधनत्वं विधत्ते—
एतयैवेति। यस्तु सहस्रदक्षिणाकेन यागेन यष्टुमसमर्थः सन्नहं तेन यक्ष्य इति कामयते सोऽयमेतयेष्ट्या यजेत पश्चात्तत्र प्रजातं प्रभूतं बहुविधं सहस्रं दातुं शक्तो भवत्येव। ततस्तादृशकर्मानुष्ठानं सिध्यति।
अथ सहस्रदक्षिणाकेन यागेनेष्टवत उपरितनहुविधयज्ञसाधनद्रव्यार्थं विधत्ते—
एतयैवेति। यः पुमान्गोसहस्रदक्षिणाकेन यागेनेष्टवान्भवति स एष पशू नामवसानं प्राप्नोति। तेनोत्तरक्रतूननुष्ठातुमसमर्थो भवति। अतस्तत्सामर्थ्याय पशुकामः सन्प्रजापतिवदेतेनष्ट्वा पशुयोनेरस्मादेव यागात्पशून्प्राप्नोति। तदुत्तर क्रतुषु दातव्यं गोसहस्रमेनं यजमानं प्राप्नोति। यज्ञं संकल्प्याननुष्ठातुः संकल्प भ्रंशपरिहारार्थं विधत्ते—
देवताभ्यो वा इति। आवृ (व्र) श्चनं सर्वथा विच्छेदो देवताद्रोह इति यावत्।
अस्मिन्कर्मणि द्रव्यं विधत्ते—
द्वादशकपाल इति। समूहाकारेण गणनायां द्वादशकपालत्वेऽप्यनुष्ठाने त्रिसंख्याकाश्चतुष्कपालाः कर्तव्याः। तथा त्रिसंख्याया यजमानस्य त्रिवारं समृद्धत्वं संपद्यते। पुरोडाशसंख्यां प्रशंसति—
त्रयः पुरोडाशा इति। पूर्वप्रपाठकोक्तत्रिधाताविव प्रमाणवैषम्यं विधत्ते –
उत्तरउत्तर इति । चोदकप्राप्तं व्रीहिमयत्वपवादितुं यवमयं विधत्ते—
यवमयो मध्य इति। भूलोकवर्तिनो मनुष्याः। स्वर्गलोकवर्तिनः सूर्यचन्द्रादयश्च विस्पष्टमुपलभ्यन्त इत्यस्ति तयोरेकविधत्वम्। अन्तरिक्षवर्तिनस्तु यक्षगन्धर्वादयो नोपलभ्यन्त इति वैलक्षण्यम्। एवं यवमयस्येतरवैलक्षण्यादन्तरिक्षरू

[[1256]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(त्रैधातवीयेष्टिविधिः)
पत्वम्। तच्च समृद्ध्यै संपद्यते। त्रिधातुवत्त्रिष्वपि पुरोडाशेषु सकृदेव हस्तस्पर्शे नावदानं विधत्ते—
सर्वेषामिति। यदुक्तं सूत्रकारेण “हिरण्यं तार्प्यं धेनुरिति दक्षिणा” इति तदेतद्विधत्ते—
हिरण्यमिति। हिरण्यस्य तेजस्वित्वात्तद्दानेन तेजःप्राप्तिः। तार्प्यस्य घृताक्तवस्त्रत्वात्तद्दानेन पशुप्राप्तिः। धेनोः कामधेनुत्वसाम्यात्तद्दानेनाऽऽशिषां प्राप्तिः सर्व तेजः सामरूप ँ ह शश्वदित्याम्नानाद्धिरण्यस्य सामवर्णत्वम्। यजुर्वेदं क्षत्त्रियस्याऽऽहुर्योनिमित्याम्नातत्वात्तार्प्यस्य च राजसूये क्षत्त्रियेण परिहितत्वादीदृशं संबन्धमभिप्रेत्य तार्प्यं यजुषां वर्णः स्वरूपमित्युच्यते। उक्थैः शस्त्रैर्देवतानां जायमाना प्रदा यास्वृक्षु ता ऋच उक्थामदास्तासां नवप्रसूतधेनुवद्वर्षणहेतुत्वाद्धेन्वा ऋग्वर्णत्वम्। उक्तद्रव्यत्रयदानेनोक्तान्वर्णान्प्राप्नोति।
अथ मीमांसा।
षष्ठाध्यायस्य द्वितीयपादे चिन्तितम्—
“असमाप्यं समाप्यं वा काम्यं कामे निवर्तिते।
आद्यः प्रयोजनाभावादन्त्यो निन्दादिसंश्रवात्।।”
चित्रया यजेत पशुकामः, कारीर्या वृष्टिकामो यजेत इत्यादिषु कामप्रेरितेन पुरुषेण कर्मोपक्रान्तम्। तस्य च समाप्तेः प्रागेव केनचिन्निमित्तेन तत्फलप्राप्तौ दौषदर्शनेन वा कामो निवर्तते तदानीं कर्मानुष्ठाने प्रयोजनभावान्न समापनीयमिति चैन्मैवम्। प्रक्रान्तस्य कर्मणोऽसमाप्तौ निन्दाप्रायश्चित्तयोः श्रवणात्। “देवताम्यो वा एष आवृश्च्यते यो यक्ष्य इत्युक्त्वा न यजते त्रैधातवीयेन यजेत” इति तदुभयं श्रुतम्। तस्मात्समापनीयम्।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्ण-
यजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठक
एकादशोऽनुवाकः ।। ११ ।।

[[1257]]

प्रपा. ४ अनु. १२) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(त्रैधातवीयद्रव्योद्देशेनेन्द्राविष्णुदेवताकत्वसहस्र दक्षिणोयोविधिः)