(अथ द्वितीयकाण्डे चतुर्थप्रपाठके दशमोऽनुवाकः)।
देवा॑ वसव्या॒ देवाः॑ शर्मण्या॒ देवाः॑ सपी
तय॒ इत्या ब॑ध्नाति दे॒वता॑भिरे॒वान्वहं॒ वृर्ष्टि॑-
मिच्छति॒ यदि॒ वर्षे॒त्ताव॑त्ये॒व हो॑तव्यं॑ यदि॒ न
वर्षे॒च्छ्वो भू॒ते ह॒विर्निवपेदहोरा॒त्रे वै मि॒त्राव
रु॑णावहोरा॒त्राभ्यां॒ खलु॒ वै प॒र्जन्यो॑ वर्षति॒
नक्तं॑ वा॒ हि दिवा॑ वा॒ वर्ष॑ति मि॒त्रावरु॑णा॒-
वेव स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑
(१) अ॒हो॒रा॒त्राभ्यां॑ प॒र्जन्यं॑ वर्षयतो॒ऽग्नये
धाम॒च्छेद॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेन्मा-
रु॒तँ स॒प्तक॑पालँ सौ॒र्यमेक॑कपालम॒ग्निर्वा
[[1249]]
प्रपा. ४ अनु. १०) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(कारीर्युत्तरभागस्थमन्त्रव्याख्यानम्)
इ॒तो वृष्टि॒मुदी॑रयति म॒रुतः॑ सृ॒ष्टां न॑यन्ति
य॒दा खलु॒ वा अ॒सावा॑दि॒त्यो न्य॑ङर॒श्मिभिः॑
पर्या॒वर्त॒तेऽथ॑वर्ष॑ति धाम॒च्छदि॑व॒ खलु॒ वै
भू॒त्वा व॑र्षत्ये॒ता वै दे॒वता॒ वृष्ट्या॑ ईशते॒ ता
ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ताः (२)
ए॒वास्मै॑ प॒र्जन्यं॑ वर्षयन्त्यु॒ताव॑र्षिष्य॒न्वर्ष॑त्ये॒व
सृ॒जा वृष्टिं दि॒व आऽद्भिः स॑मु॒द्रं पृ॒णेत्या॑हे॒-
माश्चै॒वामूश्चा॒पः सम॑र्धय॒त्यथो आ॒भिरे॒वामूर
च्छै॑त्य॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒-
द्रिय॒मित्या॑ह यथाय॒जुरे॒वैतदुन्न॑म्भय पृथि॒वी-
मिति॑ वर्षा॒ह्वां जु॑होत्ये॒षा वा ओष॑धीनां वृ-
ष्टि॒वनि॒स्तयै॒व वृष्टि॒मा च्या॑वयति॒ ये दे॒वा
दि॒विभा॑गा॒ इति॑ कृष्णाजि॒नमव॑ धूनोती॒म
ए॒वास्मै॑ लो॒काः प्री॒ता अ॒भीष्टा॑ भवन्ति
(३)।।
(अ॒स्मै॒ धा॒व॒ति॒ ता वा एक॑विँ शतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
चतुर्थप्रपाठके दशमोऽनुवाकः ।। १० ।।
(अथ द्वितीयाष्टके चतुर्थप्रपाठके दशमोऽनुवाकः)।
प्राच्याङ्गमन्त्राः कारीर्या व्याख्याता नवमे स्फुटम्।
अथोत्तरभागस्थमन्त्रा दशमे व्याख्यायन्ते।
[[1250]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(कारीर्युत्तरभागस्थमन्त्रव्याख्यानम्)
तत्र त्रिषु दिनेषु क्रमेण च्छदिस्त्रये सक्तुबन्धनार्थं मन्त्रान्विनियुङक्ते—
देवा इति। तत्तन्मन्त्रोक्ताभिर्देवताभिरनुगृहीतः प्रतिदिनं वृष्टिमिच्छति।
तत्र वर्षावर्षपक्षयोर्व्यवस्थया सक्तुहोमं पुरोडाशनिर्वापं च विधत्ते—
यदि वर्षेदिति। तावत्ये सक्तुबन्धने कृते सति वर्षणपक्षे पुरोडाशनिर्वापमन्तरेण पिण्डिर्जुहुयात्। प्रथमदिने वृष्टो सन्यां पिण्डत्रयहोमेनैव कर्मसमाप्तिः। तथा द्वितीयतृतीययोर्दिनयोः। त्रिष्वपि दिनेषु वृष्ट्यभावे चतुर्थदिने पुरोडाशनिर्वापं कुर्यात्।
अहोरात्रावसक्तं भवतीति वदता सूत्रकारेणात्यन्तसंयोगवाचिनीं द्वितीयां प्रयुञ्जानेनाहोरात्रयोर्निरन्तरं बन्धनं यदुक्तं तद्विधिमर्थंवादेनोन्नयति—
अहोरात्रे इति। अह्नः सूर्यप्रकाशयुक्तत्वान्मित्रत्वम्। रात्रेरन्धकारेण लीन (णाऽऽवरक) त्वाद्वरुणत्वम्। पर्जन्यश्चाहोरात्राभ्यामन्तरेण त्रर्षितुं न क्षमः। कुतः। कालान्तरस्याभावात्। तथा सति रात्रौ दिवसे वा सर्वदा विर्षिष्यतीति ज्ञातुमशक्यत्वान्निरन्तरं बन्धनीयम्। तेन तुष्टौ मित्रावरुणौ वर्षयतः—
हविर्निर्वपेदिति सामान्येन् यदुक्तं तदेव विशेषतः प्रपञ्चयति—
अग्नय इति। धामा ह यत्ते अजरेति याज्यानुवाक्ययोर्धामशब्दोपेतत्वद्धामच्छदग्निः। तदर्थस्तु धामान्यस्मदद्गृहादीन्यन्धकारापादिकया वृष्ट्याऽऽच्छादयतीति धामच्छत्तस्मै निर्वाप। अग्नौ प्रास्ताऽऽहुतिरितिस्मृत्यनुसारेणाग्निरस्माल्लोकादाहुत्यादित्यद्वारा वृष्टिमुत्पादयति। सृष्टामुत्पादितां तां वृष्टिं मरुतो यत्र तत्र नयन्ति। यस्मिन्कालेऽसावादित्यो न्यग्भूतैस्तीव्रै रश्मिभिः परि आवर्ततेऽतिशयेन संतापं करोति तदा पर्जन्यद्वारा वर्षति। वर्षन्स धामानि गृहादीन्याच्छादयन्निव बहुलमेघयुक्तो भूत्वा वर्षंति। तथा सत्यग्निमरुत आदित्य इत्येता एव देवता वृष्टिनियमनाय समर्थाः। ताश्च हविर्भिस्तुष्टा यजमानार्थं वर्षयन्ति यद्यपि पर्जन्यः स्वयमेवावर्षिष्यन्निव पूर्वं स्थितस्तथाऽप्येताभिर्देवताभिः प्रेरितः क्षणमात्रेण पुरो वातादिसामग्रीं संपाद्य सर्वथा वर्षत्येव।
आमस्थालीपूरणमन्त्रं व्याचष्टे—
सृजा वृष्टिमिति। अद्भिः पृणेत्येनेनेमा भूलोकस्था अपः समर्धयति।
[[1251]]
प्रपा. ४ अनु. १) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(त्रैघातवीयेष्टिविधिः)
सृजा वृष्टिमित्यनेनामूः स्वर्गस्था अपः समर्धायति। किंचाऽऽभिरेव भूलोकस्थाभिरद्भिरमूरच्छैति स्वर्गस्था अपः प्राप्तुं गच्छति—
कृष्णाविप्रोक्षणमन्त्रस्य स्पष्टार्थतां दर्शयति—
अब्जा इति। पुनर्नवायां होमं विधत्ते—
उन्नम्भयेति। एषा वै पुनर्नवैवौषधीनां सर्वासां मध्ये वृष्टिवनिर्वृष्टिभाक्। वर्षर्तौ बहुलतरसमुद्भवात्। मन्त्रान्तरं विनियुङ्क्ते—
ये देवा इति। दिवि भागा अन्तरिक्षभागाः पृथिवीभागा इत्युक्तत्वाल्लोकाः प्रीताः सन्तो यजमानायाभीष्टप्रदा भवन्ति।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-
र्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके
दशमोऽनुवाकः ।। १० ।।