(अथ द्वितीयाष्टके चतुर्थप्रपाठके नवमोऽनुवाकः)।
मा॒रु॒तम॑सि म॒रुता॒मोज॒ इति॑ कृ॒ष्णं वासः॑
कृ॒ष्णतू॑षं॒ परि॑ धत्त ए॒तद्वै वृष्ट्यै॑ रू॒पँ स-
रू॑प ए॒व भू॒त्वा प॒र्जन्यं॑ वर्षयति र॒मय॑त मरुतः
श्ये॒नमा॒यिन॒मिति॑ पश्चाद्वा॒तं प्रति॑ मीवति
पुरोवा॒तमे॒व ज॑नयति व॒र्षस्याव॑रुद्धयै वात
ना॒मानि॑ जुहोति वा॒युर्वै वृष्ट्या॑ ईशे वा॒यु-
मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑
प॒र्जन्यं॑ वर्षयत्य॒ष्टौ (१) ज॒हो॒ति॒ चत॑स्रो॒
वै दिश॒श्चत॑स्त्रोऽवान्तरदि॒शा दि॒ग्भ्य ए॒व वृ-
ष्टिँ॒ सं प्र च्या॑वयति कृष्णाजि॒ने सं यौ॑ति
ह॒विरे॒वाक॑रन्तर्वे॒दिँ सं यौ॒त्यव॑रुध्द्यै॒ यती॑
नाम॒द्यमा॑नानाँ शी॒र्षाणि॒ परा॑ऽऽप॒तन्ते ख॒-
र्जुरा॑ अभव॒न्तेषाँ॒ रस॑ ऊ॒र्ध्वो॑ऽपत॒त्तानि॑ क-
रीरा॑ण्यभवन्त्सौ॒म्यानि॒ वै क॒रीरा॑णि सौ॒म्या
खलु॒ वा आहु॑तिर्दि॒वो वृष्टिं॑ च्यावयति॒ य-
त्क॒रीराणि॒ भव॑न्ति (२) सौ॒म्ययै॒वाऽऽहु॑त्या
दि॒वो वृष्टि॒मव॑ रुन्धे॒ मधु॑षा॒ सं यौ॑त्य॒पां वा
ए॒ष ओष॑धीनाँ॒ रसो॒ वन्मध्व॒द्भ्य ए॒वौष-
धीभ्यो वर्ष॒त्यथो॑ अ॒दभ्य ए॒वौष॑धीभ्यो॒ वृष्टिं॒
नि न॑यति मान्दा॒ वाशा॒ इति॒ सं यौ॑ति ना-
म॒धेयै॑रे॒वैना॒ अच्छै॒त्यथो॒ यथा॑ ब्रू॒यादसा॒वे-
हीत्ये॒वमे॒वैना॑ नाम॒धेयै॒रा (३) च्या॒व॒य॒ति॒
[[1246]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(करीरीमिष्टिमन्त्रव्याख्यानम्)
वृष्णो॒ अश्व॑स्य सं॒दान॑मसि॒ वृष्ट्यै॒ त्वोप॑ न
ह्या॒मीत्या॑ह॒ वृषा॒ वा अश्वो॒ वृषा॑ प॒र्जन्यः
कृ॒ष्ण इ॒व खलु॒ वै भू॒त्वा व॑र्षति रू॒पेणै॒वै
नँ॒ सम॑र्धयाति व॒र्षस्यव॑रुद्ध्यै ।। ४ ।।
(अ॒ष्टौ भव॑न्ति नाम॒धेयै॒रैका॒न्नत्रिँ॒शच्च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
चतुर्थप्रपाठके नवमोऽनुवाकः ।। ९ ।।
(अथ द्वितीयकाण्डे चतुर्थप्रपाठके नवमोऽनुवाकः)।
कारीर्युत्तरभागस्था मन्त्रा अष्टम ईरिताः।
अथ नवमे पूर्वभागस्थाः सप्तमानुवाकोक्तमन्त्रा व्याख्यायन्ते।
तत्र यजमानस्य वस्त्रपरिधानं विधत्ते—
मारुतमसीति। तूषा वस्त्रस्य दशान्ताः कृष्णा यस्य तत्कृष्णतूषम्। जलपूरितैर्मेवैरादित्यप्रकाशे सर्वत आवृते सति वृष्टेः स्वरूपं कृष्णं भाति। यजमानोऽपि कृष्णवस्त्रप्रावरणो वृष्टिसमानरूपः सन्पर्जन्यं वर्षयितुं प्रभुर्भवति।
मन्त्रान्तरं विनियुङ्क्ते—
रमयतेति। प्रतिमीवति प्रतिबध्नाति।
पुरोवातो वर्षन्नित्यादिमन्त्राणां विनियोगं दर्शयति –
वातनामानीति। जिन्वरुग्ररित्यादीनि वायोर्नामानि तदुद्देशेन होमे सति यो वायुर्वृष्टेरीश्वरः स तुष्टः सन्वर्षयति।
पाठप्राप्तां मन्त्रसंख्यां प्रशंसति—
अष्टौ जुहोतीति मान्दा वाशा इति मन्त्रेण सक्तूनां संयवनं यद्विधास्यते तस्याऽऽधारं विधत्ते—
कृष्णाजिने इति। प्रकृतौ कृष्णाजिने हविःस्वरूपान्व्रीहनिवहन्ति तण्डु—
[[1247]]
प्रपा. ४ अनु. ९) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(कारीरीष्टिमन्त्रव्याख्यानम्)
लान्पिनष्टि च। अतोऽत्रापि कृष्णाजिने संयवने वा हविः कृतं भवति। देशविशेषं विधत्ते—
अन्तर्वेदीति। वेदेर्बाहिः संयवने यज्ञभूमिमप्रविश्य हविनावरुध्यते।
करीराणि विधातुं प्रस्तौति।
यतीनामिति। पारमहंस्यरूपं चतुर्थाश्रमं प्राप्तानां येषां यतीनां मुखे ब्र ह्मात्मप्रतिपादको वेदान्तशब्दो नास्ति तान्यतीनिन्द्र आरण्येभ्यः श्वभ्यः प्रायच्छत्। तथा कौषीतकिब्राम्हणोपनिषदीन्द्रस्य प्रतिज्ञा समाम्नायते। “अरुन्मुखा न्यतीन्त्सालावृकेभ्यः प्रायच्छम्” इति। पतितत्वातेषां तथात्वं युक्तम्। तथा च स्मर्यते—
“नित्यकर्म परित्यज्य वेदान्तश्रवणं विना।
वर्तमानस्तु संन्यासी पतत्येव न संशयः।। इति।”
तेषां च सालाबृकैर्भक्षणं षष्ठकाण्डे समाम्नायते “इन्द्रो यती त्सालावृकेभ्यः प्रायच्छत्तान्दक्षिणत उत्तरवेद्या आदन्” इति। वेदान्तश्रवणवाञ्छां विना नित्यकर्म परित्यक्तवतां भवतामपीदृशी गतिरिति दर्शयितुं वेदिसमीपे भक्षणम्। सा लावृकैरद्यमानानां यतीनां यानि शीर्षाणि कपालास्थीनि भूमावपतन्, तानि खर्जूरवृक्षत्वेनोदभवन्। ये तालाभिधाना महाखर्जूरास्तेषां फलानि शिरःकपालसदृशानि लक्ष्यन्ते। तेषां फलानां रस ऊर्ध्वनुत्क्रम्य भूमावपतत्। पतित्वा च सोमलतासदृशीनां लतानां सोमप्रतिनिधि भूतानामङकुररूपाणि करीर शब्दवाच्यान्यभवन्। अत एव सोमाङकुरसदृशत्वातसौम्यानि करीराणि, तदाहुतिश्च सौम्या सती दिवः सकाशाद्वृष्टिं प्रच्यावयति।
“अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते।
आदित्याज्जायते वृष्टिः” इति स्मृतेः।
सक्तूनां प्रकृतिद्रव्यं विधत्ते—यत्करीराणीति ।
संयवनसाधनं माक्षिकद्रव्यं विधत्ते—
मधुषा समिति। माक्षिका हि नानाविधेभ्य पुष्पभ्यो रसानादाय मधू
[[1248]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(कारीर्युत्तरभागस्थमन्त्रव्याख्यानम्)
कुर्वन्ति। तेषां च रसानामोषधिजन्यत्वाच्चोभयसारत्वम्। मन्त्रेण संयवनं विधत्ते—
मान्दा वाशा इति। मान्दादीन्यपां नामानि तैरेना अभिमुखत्वेन प्राप्नोति। किंच, हे देवदत्त समागच्छेति यथा लोके ब्रूयादेवमेवैना अपः स्वनामभिराच्या वयति। कृष्णाजिनबन्धनमन्त्रं व्याचष्टे—
वृष्णो अश्वस्येति। यथाऽश्वो वृषा सेचनसमर्थ एवं पर्जन्योऽपि सेचनसमर्थः संन्नुदकपूर्णे (रणे) न कृष्ण एव भूत्वा पश्चाद्वर्षति। अतः कृष्णेन रज्जु रूपेणैनं पर्जन्यं समृद्धं करोति। तच्च वर्षस्यावरोधाय संपद्यते।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे
दीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके
नवमोऽनुवाकः ।। ९ ।।