(अथ द्वितीयाष्टके चतुर्थप्रपाठके पञ्चमोऽनुवाकः)।
अग्ने॒ गोभि॑र्न॒ आ ग॒हीन्दो॑ पु॒ष्ट्या जु॑षस्व
नः। इन्द्रो॑ ध॒र्ता गृ॒हेषु॑ नः। स॒वि॒ता यः
स॑ह॒स्रियः॒ स नो॑ गृ॒हेषु॑ रारणत्। आ पू॒षा
ए॒त्वा वसु॑। धा॒ता द॑दातु नो र॒यिमीशा॑नो॒
जगत॒स्पतिः॑। स नः॑ पू॒र्णे॑न वावनत्। त्वष्टा॒
यो वृ॑ष॒भो वृषा॒ स नो॑ गृ॒हेषु॑ रारणत्। स॒
हस्रे॑णा॒युते॑न च। येन॑ दे॒वा अ॒मृत॑म् (१)
दी॒र्घँ श्रवो॑ दि॒व्यैर॑यन्त। राय॑स्पोष॒ त्वम॒–
स्मभ्यं गवां॑ कु॒ल्मिं जी॒वस॒ आ यु॑वस्व।
अ॒ग्निर्गृह॒प॑तिः॒ सोमो॑ विश्व॒वनिः॑ सवि॒ता
[[1232]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—– (२ द्वितीयकाणडे
(चित्रायागस्योपहोममन्त्राः)
सु॑मे॒धाः स्वाहा॑ । अग्ने॑ गृहप॒ते यस्ते भृत्यो॑
भा॒गस्ते॒न सह॒ ओज॑ आ॒क्रम॑माणाय धेहि॒
श्रैष्ठ्या॑त्प॒थो मा यो॑षं मूर्धा भू॑यासँ॒ स्वाहा॑
( २ )।।
(अ॒मृत॑म॒ष्टात्रिँ॑शच्च)
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
चतुर्थप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।
(अथ द्वितीयकाण्डे चतुर्थप्रपाठके पञ्चमोऽनुवाकः)।
प्रजापश्वर्थिनोरुक्तश्चतुर्थे गार्मुतश्च. ।
अथ व्यवहितेन षष्ठेन चित्रायागं विधित्सुरादौ पञ्चमेनानुवाकेनोपहोममन्त्रान्पठति।
कल्पः—-‘चित्रापौर्णमासे चित्रामिष्टिं निर्वपेदाग्नेयादीनि सप्ताग्ने गोभिर्न आगहीत्येतेनानुवाकेपहोमाः’ इति। तत्र प्रथममन्त्रपाठस्तु—-
अग्ने गोभिरिति। हेऽग्ने गोभिः सह नोऽस्मान्प्रत्यागद्यागच्छ। हे इन्द्रो पशुपुष्ट्या नोऽस्माञ्जुषस्व प्रीणय। इन्द्रो नोऽस्माकं गृहेषु धर्ता पशूनां धारयिता भवतु।
द्वितीयमन्त्रपाठः तु—सवितेति। पशूंना सहस्रं यस्यास्त्यसौ सहस्त्रियः तादृशो यः सविता नोऽस्माकं गृहेषु रारणद्भृशं रमताम्। पशुपोषकश्च देव आ गच्छतु। वसु धनमपि आगच्छतु। तृतीयमन्त्रपाठस्तु—
धातेति। सर्वस्य विधाता जगतः पालक ईश्वसो नोऽस्मभ्यं रयिं धनं ददातु। स ईश्वरो नोऽस्मान्पूर्णेन धनेन वावनद्भृशं भजतु रक्षतु। चतुर्थमन्त्रपाठस्तु—-
त्वष्टा य इति। यस्त्वष्टा वृषभः श्रेष्ठो वृषा कामानां वर्षिता सोऽस्माकं गृहेषु पशुनां सहस्रेणायुतेन च सह रारणद्भृशं रमताम्। पञ्चममन्त्रपाठस्तु—-
[[1233]]