०४

(अथ द्वितीयकाण्डे चतुर्थप्रपाठके चतुर्थोऽनुवाकः)।
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑स्मात्सृ॒ष्टाः
परा॑चीराय॒न्ता यत्राव॑स॒न्ततो॑ ग॒र्मुदुद॑तिष्ठ॒त्ता
बृह॒स्पति॑श्चा॒न्ववै॑ताँ॒ सो॑ऽब्रवी॒द्बृह॒स्पति॑र
नया॑ त्वा॒ प्रति॑ष्ठा॒न्यथ॑ त्वा॒ प्र॒जा उ॒पाव॑र्त्स्य॒-
न्तीति यं प्रति॑ष्ठ॒त्ततो॒ वै प्र॒जाप॑तिं प्र॒जा उ॒-
पाव॑र्तन्त॒ यः प्र॒जाका॑मः॒ स्यात्तस्मा॑ ए॒तं प्रा॑-
जाप॒त्यं गा॑र्मु॒तं च॒रुं निर्व॑पेत्प्र॒जाप॑तिम् (१)
ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै
प्र॒जां प्र ज॑नयति प्र॒जाप॑तिः प॒शून॑सृजत॒ ते॑

[[1230]]

श्रीमत्सायणाचार्यविरचितभाष्येसमेता—-(२ द्वितीयकाण्डे
(गार्मुतचरुविधिः)
ऽस्मात्सृ॒ष्टाः परा॑ञ्च आय॒न्ते यत्राव॑स॒न्ततो॑
ग॒र्मुदुद॑तिष्ठ॒त्तान्पू॒षा चा॒न्ववै॑ताँ सो॑ऽब्रवीत्पू॒
षाऽनया॑ मा॒ प्र ति॒ष्ठाथ॑ त्वा प॒शव॑ उ॒पाव॑
र्त्स्य॒न्तीति॒ मां प्र ति॒ष्ठेति॒ सोमो॑ऽब्रवी॒न्मम॒ वै
(२) अ॒कृ॒ष्ट॒प॒च्यमित्य॒भौ वां॒ प्र ति॑ष्ठा॒नी
त्य॑ब्रवी॒त्तौ प्राति॑ष्टत्ततो॒ वै प्र॒जाप॑तिं प॒शव॑
उ॒पाव॑र्तन्त॒ यः प॒शुका॑म॒ स्यात्तस्मा॑ ए॒तँ
सो॑मापौ॒ष्णं गा॑र्मु॒तं च॒रुं निर्व॑पेत्सोमापू॒षणा॑
वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑
प॒शून्प्र ज॑नयतः॒ सोमो॒ वै रे॑तो॒धाः पू॒षा प॑
शू॒नां प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति
पू॒षा प॒शून्प्र ज॑नयति (३)।
(वपे॒त्प्र॒जा॑पतिं॒ वै दधा॑ति पू॒षा त्रीणि॑ च) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
चतुर्थप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।

(अथ द्वितीयकाण्डे चतुर्थप्रपाठके चतुर्थोऽनुवाकः।)

(स्पर्धमानस्य विहिता संवर्गेष्टिस्तृतीयके)
अथ चतुर्थे गार्मुतं चरुं विधातुं प्रस्तौति—-
प्रजापतिरिति। ताः पराङ्मुखत्वेनापगताः प्रजा यत्र देशे निवासं कृतवत्यस्तत्र देशे भाण्डक्षालनादिनिष्कासपातेन ततो देशाद्गर्मुत्संज्ञकमकृष्टपच्यमरण्यमृद्गरूपं धान्यमुदतिष्ठत्तदानीं बृहस्पतिश्च प्रजापतिश्च ताः प्रजा अनुगतवन्तौ। अत्र चकारादनाम्नातोऽपि प्रकृतः प्रजापतिः सगुच्चीयते। तदा प्रजापतिं प्रति

[[1231]]

प्रपा. ४ अनु. ५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(चित्रायागस्योपहोममन्त्राः)
बृहस्पतिरेवमब्रवीत्। अनया गार्मुतधान्यरूपया त्वां प्रतिष्ठानि धान्यवत्त्वेन प्रतिष्टतं करोमि, ततो धान्यवन्तं त्वां तदर्थिन्यः प्रजा उपगमिष्यन्तीयुक्त्वा तं प्रजापतिं प्रति प्रतिष्ठितवान्। ततो धान्यवन्तं प्रजापतिं धान्यार्थिन्यः प्रजा उपगताः। विधत्ते—-
यः प्रजाकाम इति। अथ पशुकामस्य सोमापौष्णं गार्मुतं चरुं विधातुं प्रस्तौति—-
प्रजापतिरिति। पशुनिवासस्थानेऽपि भक्षिततृणशेषगोमयादिपातेन गर्मुत उत्पत्तिः। तया गर्मुता प्रजापतिः पूषणं सोमं च प्रतिष्ठाप्य पशूनाप्तवान्। अथष्टिं विधत्ते—यः पशुकाम इति।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके
चतुर्थोऽनुवाकः ।। ४ ।।