०३

(अथ द्वितीयाष्टके चतुर्थप्रपाठके तृतीयोऽनुवाकः)।
दे॒वा॒सु॒राः संयत्ता आस॒न्तेषां गाय॒त्र्योजो॒
बला॑मिन्द्रि॒यं वी॒र्य॑ प्र॒जां प॒शून्त्सं॒गृह्या॒ऽऽदा—
या॑प॒क्रम्या॑तिष्ठ॒त्ते॑ऽमन्यन्त य॒तरान्वा इ॒यमु॑पा-
व॒र्त्स्यति॒ त इ॒दं भ॑विष्य॒न्तीति॒ तां व्य॑ह्वयन्त॒
विश्व॑कर्म॒न्निति॑ दे॒वा दाभीत्यसु॑राः॒ सा ना

[[1227]]

प्रपा. ४ अनु. ३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(भ्रातृव्यवतः स्पर्धमानस्य संवर्गेष्टिविधिः)
न्य॑त॒राँ श्च॒नोपाव॑र्त॒त ते दे॒वा ए॒तद्यजु॑रप
श्य॒न्नोजो॑ऽसि सहो॑ऽसि॒ बल॑मसि (१) भ्रा-
जो॑ऽसि दे॒वानां॒ धाम॒ नामा॑सि॒ विश्व॑मसि
वि॒श्वायुः॒ सर्व॑मसि स॒र्वायु॑रभि॒भूरिति॒ वाव
दे॒वा असु॑राणा॒भोजो॒ बल॑मिन्द्रि॒यं वी॒र्य प्र॒
जां प॒शून॑वृञ्जत॒ यद्रा॑यत्र्य॑प॒क्रम्याति॑ष्ट॒त्तस्मा॑-
दे॒तां गा॑य॒त्रीतीष्टि॑माहुः संवत्स॒रो वै गा॑य॒त्री
संवत्स॒रो वै तद॑ष॒क्रम्या॑तिष्ठ॒द्यद॒तेया॑ देवा
असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं वी॒र्य॑म् (२)
प्र॒जां प॒शूनवृञ्ज॒त तस्मा॑दे॒ताँ सं॑व॒र्ग इतीष्टि॑
माहु॒र्यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्ध॑मान ए॒तये
ष्ट्या॑ यजेता॒ग्नये॑ संव॒र्गाय॑ पुरो॒डाश॑मष्टाक॑
पालं॒ निर्व॑पे॒त्तंँ शृ॒तमास॑न्नमे॒तेन॒ यजु॑षा॒ऽभि
मृ॑शे॒दोज॑ ए॒व बल॑मिन्द्रि॒यं वी॒र्य॑ प्र॒जा॑ प॒शू
न्भ्रातृ॑व्यस्य वृङ्क्ते॒ भव॑त्या॒त्मना॒ परा॑ऽस्य॒
भ्रातृ॑व्यो भवति (३)।
(बल॑मस्ये॑तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं वी॒र्य॑ पञ्च॑चत्वा॑
रिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
चतुर्थप्रपाठके तृतीयोऽनुवाकः।। ३ ।।

[[1228]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(२ द्वितीयकाण्डे
(भ्रातृव्यवतः स्पर्धमानस्य संवर्गेष्टविधिः)
(अथ द्वितीयकाण्डे चतुर्थप्रपाठके तृतीयोऽनुवाकः)।
द्वितीये विजयार्थेष्टिः प्रोक्ता विजितिनाम (मि) का।
अथ तृतीये भ्रातृव्यवतः स्पर्धमानस्य संवर्गेष्टिं विधित्सुरादौ तदङ्गभूतं मन्त्रं पठितुं प्रस्तौति—
देवासुरा इति। ओजस्त्वसृङ्गमासादिधातुभ्यो जातोऽष्टमो धातुः। तथा च संप्रदायविद्भिरुक्तम्—-“ओजो नामाष्टमी दशा” इति। बलं शरीर शक्तिः। इद्रियं दृष्ट्यादिपाटवम्। वीर्यमुत्साहः। प्रजाः पुत्रादिकाः पशवः गवादिकाः। देवासुरेषु युध्दार्थं गतेषु तदीयानोजःप्रभूतीन्षट्पदार्थान्गायत्री संगृह्य तदुभयेभ्योऽपक्रभ्य दूरे स्थितवती। तां दृष्ट्वा ते देवासुराश्चैवममन्यन्त—उभयोर्वर्गयोर्मध्ये यतरान्यद्वर्गस्थितानियं गायत्री प्राप्स्यति तद्वर्गस्थिता इदं सर्वैश्वर्यं प्राप्स्यन्तीति। तदुभयेऽपि तां गायत्रीं विलक्षणेन शब्देनाऽऽहूतवन्तः। हे विश्वकर्मन्निति देवानामाह्वानं, दाभीत्यसुराणामाह्वानं विश्वानि कर्माणि यस्याः सा विश्वकर्मा तत्सलंबोधनं हे विश्वकर्मन्निति। दभ्नोति विरोधिनो हिनस्तीति दाभी तत्संबोधनं हे दाभीति। सा गायत्रयन्यतरानुभयोर्मध्ये कानपि पुरुषान्नैव प्राप्नोत्। ततस्ते देवास्तत्प्राप्त्युपायत्वेनैतद्यजुरपश्यन्। तदिदं यजुः पठति—-
ओजोऽसीति। अत्र सर्वात्मकत्वेन गायत्री स्तूयते। ओजोबले व्याख्याते। सहः सहिष्णुत्वं धैर्यम्। भ्राजो दीप्तिः। देवानां धाम स्वर्गः। नामेन्द्रादिकम्। विश्वमचेतनं कृत्स्नं जगत्। विश्वायुः कृत्स्नान्नयुक्तम्। सर्व चेतनरूपं कृत्स्नं जगत्। सर्वाण्यायुष्याणि यस्य चेतनस्य जगतस्तत्सर्वायुः। वैरिणोऽभि भवतीत्यभिभूः यथाय (जुर्म) न्त्रस्यार्थं (प्राप्यं) फलं दर्शयति—
इति वावेति। अनेनवोक्तेन स्तुतिरूपेण मन्त्रेण गायत्रीं प्रसाद्य तत्प्रसादादसुराणामोजआदिषट्कं विनाश्य स्वयं तल्लब्धवन्तः। अथेष्टिं विधातुं प्रस्तौति—
यद्गायत्रीति। विधास्यमानाया इष्टेर्गायत्री संवर्ग इति नामद्वयम।

[[1229]]

प्रपा. ४ अनु. ३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(गाप्रुचरुविधिः)
यस्याद्गायत्री सर्वमादायापक्रम्य स्थित्वा मन्त्रेण स्तुता सती सर्वमानीतवती तस्मात्तेन मन्त्रेण हविरभिमृश्य क्रियमाणेष्टिर्गायत्रीत्युच्यते। सा च गायत्री संवत्सररूपा। तदीयाक्षरेष्वर्धमासेषु च चतुविंशतिसंख्याकायाः समानत्वात्। अतः संवत्सर एव तदानीं गायत्रीरूपेणापक्रम्यातिष्ठदिति संवत्सरात्मकत्वात्प्रशस्तेयमिष्टिः। यस्मादेतयेष्ट्या देवा असुराणां संवर्गनामकोऽयं यागः इदानीं विधत्ते—-
यो भ्रातृव्यानिति। संवर्गँ ,सँ रयिं जयेति याज्यायां संवर्गशब्दश्रवणाद्वैरिसंबन्ध्योजआदिवर्जनहेतुत्वाच्चायमग्निः संवर्ग। पूर्वपठितमोजोऽसीत्यादिमन्त्रं विनियुङ्क्ते—-
त ँ शृतमिति। तं पुरोडाशं शृतं पक्वमासन्नं वेद्यामासादितम्।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके
तृतीयोऽनुवाकः।। ३ ।।