(अथ द्वितीयाष्टके चतुर्थप्रपाठके द्वितीयोऽनुवाकः)।
दे॒वा॒सु॒राः संय॑त्ता आस॒न्ते दे॒वा अ॑ब्रुव॒न्यो
[[1224]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता——(२ द्वितीयकाण्डे
(भ्रातृव्यवतो विजितिसंज्ञकेष्टिविधिः)
नो॑ वी॒य॑वित्तम॒स्तमनु॑ स॒मार॑भामहा॒ इति॒ त
इन्द्र॑मब्रुव॒न्त्वं वै नो॑ वी॒या॑वत्तमोऽसि॒ त्वामनु॑
स॒मार॑भामहा॒ इति॒ सो॑ऽब्रवीत्ति॒स्रो म॑ इ॒मा
स्त॒नुवो॑ वी॒य॑विती॒स्ताः प्री॑णी॒ताथासु॑रान॒भि
भविष्य॒थेति॒ ता वै ब्रू॒र्ह त्य॑ब्रुवन्नि॒यमँ॑ हो॒मु
गि॒यं वि॑मृ॒धेयमि॑न्द्रि॒याव॑ती (१) इत्य॑ब्रवी॒त्त
इन्द्रा॑याँ हो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपालं॒
निर॑वप॒न्निन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॑ते॒ य
द्रिन्द्रायाँ हो॒मुचे॑ नि॒र॒व॑पन्नँ ह॑स ए॒व ते
ना॑मुच्यन्त॒ यदिन्द्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व ते
नापा॑व्रत॒ यदिन्द्रा॑येन्द्रि॒या॑वत इन्द्रि॒यमे॒व ते
ना॒ऽऽत्मन्न॑दधत॒ त्रय॑स्त्रिँशत्कपालं पुरो॒डाशं॒
निर॑वप॒न्त्रय॑स्त्रिँश॒द्वै दे॒वता॒स्ता इन्द्र॑ आ॒
त्मन्ननु॑ स॒मार॑म्भयत॒ भूत्यै॑ (२) तां वाव
दे॒वा विजि॑तिमुत्त॒मामसु॑रै॒व्यर्ज॑यन्त॒ यो भ्रातृ
व्यवा॒न्त्स्यात्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेते
न्द्रा॑याँ हो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपालं॒ नि
व॑पे॒दिन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॒तेऽँह॑सा॒
वा ए॒ष गृ॑ही॒तो यस्मा॒च्छ्रेया॒न्भ्रातृ॑व्यो॒ य
दिन्द्रायाँ हो॒मुचे॑ नि॒वर्प॒त्यँ ह॑स ए॒व तेन॑
मुच्यते मृ॒धा वा ए॒षो॑ऽमिष॑ण्णो॒ यस्मा॑त्स
मा॒नेष्व॒न्यः श्रेया॑नु॒त (३) अभ्रा॑तृव्यो॒ य-
[[1225]]
प्रपा. ४ अनु. २) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(भ्रातृव्यवतो विजितिसंज्ञकेष्टिविधिः)
दिन्द्रा॑य वै॒मृ॒धाय॒ मृध ए॒व तेनाप॑ हते॒ य
दिन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यमे॒व तेना॒ऽऽत्मन्ध॑त्ते॒
त्रय॑स्त्रिँ शत्कपालं पुरो॒डाशं॒ निर्व॑पति॒ त्रय॑-
स्त्रिँ श॒द्वै दे॒वता॒स्ता ए॒व यज॑मान आ॒त्मन्ननु॑
स॒मार॑म्भयते॒ भूत्यै॒ सा वा ए॒षा वि॑जिति॒र्ना
मेष्टि॒र्य ए॒वं वि॒द्वाने॒तयेष्ट्या॒ यज॑त उत्त॒मा
मे॒व विजि॑तिं॒ भ्रातृ॑व्येण॒ वि ज॑यते (४)।।
(इ॒न्द्रि॒याव॑ती॒ भूत्या॑ उ॒तैका॒न्नप॑ञ्चा॒शच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
चतुर्थप्रपाठके द्वितीयोऽनुवाकः।। २ ।।
(अथ द्वितीयाष्टके चतुर्थप्रपाठके द्वितीयोऽनुवाकः)।
आद्येऽनुवाके काम्येष्टिः स्पर्धमानस्य वर्णिता।
अथ द्वितीये तस्यैव विजितिसंज्ञामिष्टिं विधातु प्रस्तौति—-
देवसुरा इति। युध्दायोद्युक्ता देवाः परस्परमिदमब्रुवन्नोऽस्माकं मध्ये योऽतिशयेन वीर्यवांस्तमनुसृत्य वयं सर्वे समारभामहे सम्यग्युध्दोपक्रमं कुर्व (म) इति। ततस्त इन्द्रमदिशयेन वीर्यवन्तं निश्चित्य तेनोक्तास्तदीयास्तिस्रास्तनूर्हविर्भिस्तर्पितवन्तः। तैश्च हविर्भिः क्रमेण पापविमोकं वैर्यपघातं सामर्थ्यधारणं च कृतवन्तः। त्रिष्वेकादशकपालपुरोडाशेषु मिलित्वा त्रयस्त्रिंशत्कपालः पुरोडाशः संपद्यते। तेन च त्रयस्त्रिंशत्संख्याकान्देवानिन्द्र आत्माधीनान्करोति। तच्चेश्वर्याय संपद्यते। ततो देवा असुरैः सह युध्दार्थ तां पूर्वोक्तां पापविमोकशत्रुवधेन्द्रियधारणरूपामुत्तमां विजितिं प्राप्नुवन्। विधत्ते—-
यो भ्रातृव्यवानिति। पूर्वोक्तप्रवदादिविशेषणवदंहोमुगादिविशेषणानियाज्यानुवाक्यागतशब्दाभिप्रायेण वा स्वार्थपरत्वेन वा योजनीयानि। अंहोमुचे प्र
[[1226]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—–(२ द्वितीयकाण्डे—-
(भ्रातृव्यवतो विजितिसंज्ञकेष्टिविधिः)
भरेमा मनीषामत्यस्मिन्मन्त्रेऽस्त्यहोमुक्शब्दः वि न इन्द्रो मृधो जहीत्यस्मिन्मन्त्रेऽस्ति विमृधशव्दः । इन्द्रियादि शतक्रतो इत्येसेमिन्त्रेऽस्तीन्द्रियशब्दः अर्थपरत्वं तु विस्पष्टम्। पूर्वोक्तेषु प्रघदादिष्वपि प्रणोदनवत्त्वं शत्रुविबाधवत्वं प्रत्यङ्मुखवत्वं योज्यम्। यस्माद्यजमानाद्भ्रातृव्यः श्रेयान्भवति स एब यजमानः पाप्पना गृहीतो भवति। स च प्रथमहविषा पापान्मुच्यते। समानेषु मध्ये यस्माद्यजमानाद यः श्रेयान्भवति सोऽन्यो यद्यप्यभ्रातृव्यस्तथाप्योषोऽश्रेयान्यजमानः श्रेयस्त्वंम (मा) त्रसंपादितवैरित्वेन तेनान्येनाभिषण्णोऽभिभूतो भवति, तदीयश्रेयस्त्वमसहमानः सम्रहमभिभूतोऽस्मीति क्लिश्नाति। स तु द्वितीयेन हविषा मृधस्तादृशाशत्रूनपहते। तृतीयेन हविषेन्द्रियधारणं भवति। पूर्ववत्समुदितया त्रयस्त्रिंशत्संख्यया यजमानस्य सर्वा देवताः स्वाधीना भवन्ति। तच्च भूत्यै संपद्यते। इष्टेर्नामोपद्दिश्य तद्वेदनं प्रशंसति—
सा वा इति। विशेषेण जनयन्त्यनयेति विजितिः एतद्वेदिता भ्रातृव्येणसह युद्ध्वा तां पूर्वोक्तां षापमोक्षादिरूपामुत्तमां विजिंति प्राप्नोति।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके
द्वितीयोऽनुवाकः।। २ ।।