(तत्र प्रथमोऽनुवाकः)।
ह॒रिः॒ ॐ
दे॒वा म॑नुष्याः॑ पि॒तर॒स्ते॑ऽन्यत॑ आस॒न्नसु॑रा॒
रक्षाँ॑सि पिशा॒चास्ते॑ऽन्यत॒स्तेषां॑ देवाना॑
मु॒त यदल्पं॒ लोहि॑तमकु॑र्व॒न्तद्रक्षाँ॑ सि॒ रात्री॑
भिरसुभ्न॒न्तान्त्सु॒ब्धान्मृ॒तानभि॒ व्यौ॑च्छ॒त्ते दे॒वा
अ॑विदु॒र्यो वै नो॒ऽयं म्रि॒यते॒ रक्षाँ॑ सि॒ वा
इ॒मं घ्नन्तीति॒ ते रक्षाँ॒ स्युपा॑मन्त्रयन्त॒ ता
न्य॑ब्रुव॒न्वरं॑ वृणामहै॒ यत्(१) असु॑रा॒ञ्ज
या॑म तन्नः॑ स॒हास॒दिति॒ ततो॒ वै दे॒वा असु॑
रानजय॒न्तेऽसु॑राञ्जि॒त्वा रक्षाँ॒ स्यपा॑नुदन्त
तानि॒ रक्षाँ॒ स्य॑नृतमक॒ती॑त सम॒न्तं दे॒वान्प
र्य॑विश॒न्ते दे॒वा अ॒ग्नाव॑नायन्त॒ ते॑ऽग्नये॒ प्र॒व॑ते
पुरो॒डाश॑म॒ष्टाक॑पालं॒ नि॑रवपन्नग्नये॑ विबा॒ध
व॑ते॒ऽग्ने॒य प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒रव॑प॒
न्यान्ये॒व पु॒रस्ता॒द्रक्षाँ॑सि (२) आस॒न्ता
नि॒ तेन॒ प्राणु॑दन्त॒ यदग्नये॑ विबा॒धव॑ते॒ या
न्ये॒वाभि॒तो॒ रक्षाँ॒स्यास॒न्तानि॒ तेन॒ व्य॑बाध
न्त॒ यद॒ग्नये॒ प्रती॑कवते॒ यान्ये॒व प॒श्चाद्रक्षाँ॒
स्यास॒न्तानि॒ तेनापा॑नुदन्त॒ ततो॑ दे॒वा अभ॑व-
न्पराऽसुरा॒ यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्ध॑—
[[1222]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(भ्रातृव्यवत इष्टिविधिः)
मान ए॒तयेष्ट्या॑ यजेता॒ग्नये प्रव॑ते पुरो॒डाश॑
म॒ष्टाक॑पालं॒ निर्व॑पेद॒ग्नये॑ विबा॒धव॑ते (३)
अ॒ग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒र्वप॑ति॒
य ए॒वा॑स्मा॒च्छेया॒न्भ्रा॑तृव्य॒स्तं ते॒न प्र॒णु॑दते॒
यद॒ग्नये॑ विबा॒धव॑ते॒ य ए॒वने॑न स॒दृङ्तं तेन॒
वि बा॑धत॒ यद॒ग्नये॒ प्रती॑कवते॒ य ए॒वास्मा॒
त्पापी॑या॒न्तं तेनाप॑ नुद॒ते प्र श्रेयाँ॑ सं॒ भ्रातृ॑
व्यं नुद॒तेऽति॑ स॒दृशं॑ क्रामतिः॒ नैनं॒ पापी॑या—
नाप्नोति॒ य ए॒वं वि॒द्वाने॒तयेष्ट्या॒ यज॑ते
(४)।।
(वृ॒णा॒म॒है॒ यत्पु॒रस्ता॒द्रक्षाँ॑ सि वपेद॒ग्नये॑ विबा॒धव॑त ए॒वं च॒त्वारि॑ च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
चतुर्थप्रपाठके प्रथमोऽनुवाकः।।१।।
(अथ द्वितीयकाण्डे चतुर्थः प्रपाठकः)।
(तत्र प्रथमोऽनुवाकः)।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्।।
प्रपाठके द्वितीये च तृतीये चेष्टयः क्रमात्।
प्रोक्तास्तत्रावशिष्टास्तु वक्ष्यन्तेऽस्मिंश्चतुर्थके।
चतुर्थस्य प्रथमानुवाके भ्रातृव्यवतः स्पर्धमानस्य त्रिहष्विकां कांचिदिष्टिं विधातुं प्रस्तौति।
देवा मनुष्या इति। देवानामसुरादीनां च सैन्यद्वयं युध्दाय संनद्धमासीत्। असुराणां रक्षसां चास्त्येवान्तरजातिभेदः। तदीये युध्दे स्वल्पप्रहारेण देवानां
[[1223]]