(अथ द्वितीयाष्टके तृतीयप्रपाठके चतुर्दशोऽनुवाकः)।
स प्र॑त्न॒वन्नि काव्येन्द्रं॑ वो वि॒श्व॒तस्परीन्द्रं॒
नरः॑। त्वं नः॑ सोम वि॒श्वतो॒ रक्षो राजन्न—
घाय॒तः। न रि॑ष्ये॒त्त्वा॑वतः॒ सखा॑। या ते॒
धामा॑नि दि॒वि या पृ॑थि॒व्यां या पर्व॒तेष्वोप॑
धीष्व॒प्सु। तेभिर्नो॒ विश्वैः॑ सु॒मना॒ अहे॑ड॒न्रा—
ज॑न्त्सोम॒ प्रति॑ ह॒व्या गृ॑भाय। अग्नी॑षोमा॒
सर्वेदसा॒ सहू॑ती वनतं॒ गिरः॑। संदे॑व॒त्रा ब॑
भूवथुः। यु॒वम् (१) ए॒तानि॑ दि॒वि रो॑च॒
नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम्। यु॒वँ
सिन्धूँ॑ र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतं
गृभी॒तान्। अग्नी॑षोमावि॒मँ सु मे॑ शृणतुं
वृ॑षणा॒ हव॑म्। प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं
दा॒शुषे॒ मयः॑। आऽन्यं दि॒वो मा॑त॒रिश्वा॑
[[1213]]
प्रपा. ३ अनु. १३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्ययाज्यापुरोनवाक्याभिधानम्)
जभा॒रम॑थ्नाद॒न्यं परि॑ श्ये॒नो अद्रेः॑। अ
ग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्र
चक्रथुरु लो॒कम् अ॒ग्नी॑षोमा ह॒विषः॒ प्र
स्थि॑तस्य वी॒तम् (२) हर्य॑तं वृषणा जु॒षे
था॑म। सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒
यज॑मानाय॒ शं योः। आ प्या॑यस्व॒ सं ते॑
ग॒णानां॑ त्वा ग॒णप॑तिँ हवामहे क॒विं क॑
वी॒नामु॑प॒मश्र॑वस्तमम्। ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णा
ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ सा
द॑नम्। स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒
स पु॒त्रैर्वाजं॑ भरते॒ धना॒ नृभिः॑। देवानां॒ यः
पि॒तर॑मा॒विवा॑सति (३) श्र॒ध्दाम॑ना ह॒वि—
षा॒ ब्रह्म॑ण॒स्पति॑म्। स सु॒ष्टभा॒ स ऋक्व॑ता
ग॒णेन॑ व॒लँ॑ रु॑रोज फ॒लिगँ रवे॑ण। बृह॒
स्पति॑रु॒स्रिया॑ हव्य॒सूदः॒ कनि॑क्रद॒द्वाव॑शती॒
रुदा॑जत् मरु॑तो॒ यद्ध॑ वो दि॒वो या वः॒ श—
र्म अर्य॒माऽऽया॑ति वृष॒भस्तवि॑ष्मान्दा॒ता व
सू॑नां पुरुहू॒तो अह॑र्न्। सह॒स्रा॒क्षो गो॑त्र॒भि
द्वज्र॑बाहुरस्मासु॑ दे॒वो द्रवि॑णं दधातु। ये
ते॑ऽर्यमन्ब॒हवो॑ देव॒यानाः॒ पन्था॑नः (४) रा॒
ज॒न्दि॒व आ॒चर॑न्ति तेभि॑र्नो दे॒व महि॒ शर्म॑
यच्छ॒ शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे। बु॒
ध्नादग्र॒मङ्गि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृँ—
[[1214]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(२ द्वितीयकाण्डे
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
हि॒तान्यै॑रत् रु॒जद्रोधाँ॑ सि कृ॒त्रिमाण्ये॑षाँ॒
सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार। बु॒ध्नादग्रे॑ण॒
वि मि॑माय॒ मानै॒र्वज्रे॑ण॒ खान्य॑तृणन्न॒दीना॑म्।
वृथा॑ऽसृजत्प॒थिभि॑र्दीर्घया॒थैः सोम॑स्य॒ ता मद॒
इन्द्र॑श्चकार (५) प्र यो ज॒ज्ञे वि॒द्वाँ अ॒
स्य बन्धुं॒ विश्वा॑नि दे॒वो जनि॑मा विवक्ति।
ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मध्या॑न्नी॒चादु॒च्चा
स्व॒धया॒ऽभि प्र त॑स्यौ। म॒हान्म॒ही अ॑स्तभा
य॒द्वि जा॒तो द्याँ ,सद्म॒ पार्थि॑वं च॒ रजः॑।
स बु॒ध्नादा॑ष्ट ज॒नुषा॒ऽभ्यग्रं॑ बृह॒स्पति॑र्दे॒वता॒
यस्य॑ स॒म्राट। बु॒ध्यानो अग्र॑म॒म्यर्त्योज॑सा॒
बृह॒स्पति॒मा वि॑वासन्ति दे॒वाः। भि॒नद्व॒लं वि
पुरो॑ दर्दरीति॒ कनि॑क्रद॒त्सुव॑र॒पो जिगाय
(६)।।
(यु॒वं व॒तिमा॒विवा॑सति॒ पन्था॑नो दीर्घया॒थैः सोम॑स्य॒ ता म॒द इन्द्र॑श्चकार दे॒वा नव॑ च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
तृतीयप्रपाठके चतुर्दशोऽनुवाकः।। १४।।
आ॒दि॒त्येभ्यो॑ दे॒वा वै मृ॒त्योर्दे॒वा वै स॒त्रमा॑सतार्य॒म्णे प्र॒जाप॑ते॒स्त्रय॑स्त्रिँ
शत्प्र॒जापतिर्दे॒वेभ्यो॒ऽन्नार्द्य॑ देवासु॒रास्तान्रज॑नो ध्रु॒वो॑ऽसि॒ यन्न
व॒मैद॒ग्निं वै प्र॒जाप॑ति॒र्वरु॑णाय॒ या वा॑मिन्द्रावरुणा॒
स प्र॑त्न॒वच्चतु॑र्दश।।१४।।
[[1215]]
प्रपा. ३ अनु. ९) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
आ॒दि॒त्येभ्य॒स्त्वष्टु॑र॒स्मै दान॑कामा ए॒वा॑व रु॒न्धेऽग्निं॒ वै स
प्र॑त्न॒वत्षटप॑ञ्चा॒शत्।।५६।।
हरिः॑ ॐ
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
तृतीयः प्रपाठकः।।११।।
द्वितीयकाण्डे तृतीयप्रपाठके चतुर्दशोऽनुवाकः)।
विहीता पापिनस्त्विष्टिरनुवाके त्रयोदशे।
अथास्मिन्नन्तिमे चतुर्दशेऽनुवाके काम्ययाज्या (पुरोनुवाक्या) उच्यन्ते। तत्र त्रिहविष्का येयं यज्ञविभ्रष्टेष्टिस्तृतीयानुवाके समाम्नाता, प्रथमद्वितीययोर्हविषोः क्रमेण याज्यानुवाक्या (नां) प्रतीकं (कानि) दर्शयति—
स प्रत्नवन्निति। स प्रत्नवन्नवीयसेत्यनुवाक्या। नि काव्या वेधस इति याज्या। एतदुभयमाग्नेये हविषि द्रष्टव्यम्। तच्च हिरण्यगर्भ आपो हेत्यस्मिन्ननुवाके व्याख्यातम्। इन्द्रं वो विश्पस्परीत्यनुवाक्या। इन्द्रं नरो नामधितेति याज्या। एतदुभयमैन्द्रे हविषि द्रष्टव्यम्। तच्च प्रथमकाण्डस्य षष्ठप्रपाठके व्याख्यातम्। अथ सौम्यस्य हविषः पुरोनुवाक्यामाह—–
त्वं नः सोमेति। अघं पापमस्मदुपद्रवमिच्छन्नधायंस्तस्मात्पापसमघाद्वि श्वतः सर्वस्मान्नोऽस्मान्हे सोम राजंस्त्वं रक्ष। त्वावतत्स्वादृशस्य प्रभोः सखा कश्चित्सममर्थोऽपि त्वदनुग्रहान्न रिष्येदस्मान्न हिनस्ति। तत्रैव याज्यामाह—-
या ते धामानिति। हे सोम राजंस्ते तव दिवि पृथव्यादिषु च प्रदेशेषु यानि धामानि स्थानानि सन्ति। प्रतिप्रदेशं पृथगनुवादार्था यच्छब्दावृत्तिः। तेभिर्विश्वैस्तैः सर्वेः स्थानैर्युक्तः शोभनमनस्कः क्रोधरहितः सन्नोऽस्माकं हव्या हवींषि प्रतिगृभाय प्रतिगृहाण। यस्मिन्स्थाने त्वं स्थितस्तत आगत्य हविः स्वीकुर्वित्यर्थः। “अग्नीषोमीयमेकादशकपालं निर्वपेद्यं कामो नोपनमेत्। इत्यत्र पुरोनुवाक्यामाह—-
[[1216]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता (२ द्वितीयकाण्डे
(कामययाज्यापुरोनुवाक्याभिधानम्)
अग्नीषोमेति। हेऽग्नीषोमौ गिरोऽस्मदीयाः स्तुतीर्वनतं भजतम्। कीदृशौ। सवेदसा समानज्ञानयुक्तौ। सहूती समानाह्वानयुक्तौ देवत्रा देवषु मध्ये संबभूवथुर्युवां संभूयैव सन्तौ न कदाचिदप्यन्योन्यं वियुक्तावित्यर्थः। तत्रैव याज्यामाह—-
युवमेतानीति। हे सोम त्वमग्निश्चेत्येतौ युवां सक्रतू समानसंकल्पौ सन्तौ दिवि एतानि रोचनानि नक्षत्रादीनि अधत्तमस्थापयतम्। हेऽग्नीषोमौ युवां गृभीतान्सिन्धून्मध्योदकादिनिमित्तेनापूर्णत्वापवादेन पङ्कादिरूपेण दृष्टेन दोषेण च गृहीताः सर्वा नदीरभिशस्तेस्तस्मादपवादादवद्यात्पङ्कादिदृष्टदोषाच्चामुञ्चतं मोचि तवन्तौ। यद्यप्येतत्सर्वभीश्वरकृत्यं तथाऽपि तद्रूपत्वेनैतौ स्तूयेते। “अग्नीषोभी यमष्ट कपालं निर्वपेद्ब्रह्मवर्चसकामः” इत्यत्र पुरोनुवाक्यामाह—-
अग्नीषोमाविममिति। हेऽग्नीषोमौ वृषणा कामानां वर्षयितारौ युवां मे मदीयमिमे हवमाह्वानं सुष्ठु शृणुतं, सूक्तानि अस्मदीयानि प्रतिहर्यतं मनसा प्रतीगृह्णीत, दाशषे हविर्दत्तवते यजमानाय मयः सुखं भवतं संपादयतम्। तत्रैत्र याज्यामाह—
आऽन्यं दिव इति। मातरिश्वा वायुरन्यं युवयोरेक्रमग्निं दिवो द्युलाकस्या दादित्याद्यादाजभाराऽऽदृतवान्। तथा चान्यत्र मन्त्र आम्नायते “आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः इति। श्येनो गायत्र्याः पक्षिरूपावतारोऽन्यं युक्येरिकं सोममद्रेः परि पर्वतवदुन्नततमस्य द्युलोकस्योपरि अमथ्नात्सोमरक्षकाणां तत्रत्यानां मन्थनं विलोडनं पराजयरूपं क्षोभं कृत्या समानीतवानित्यर्थः । एतच्च ‘कद्रूश्च वै सुपर्णी च” इत्यस्मिन्ननुवाके समाम्नातम्। हेऽग्नीषोमौ युवां ब्रह्मणा वावृधाना मन्त्रेण वर्धमानो यज्ञार्थमुरुं लोकं विस्तीर्णं स्थानं चक्रथुरुरुकृतन्तावेव। यजमानस्य फलभूतं लोकं संपादितवन्तावित्यर्थः।
तत्रैव विकल्पितां याज्यामाह—–
अग्नीषोमेति। हेऽग्नीषोमौ वृषणा कामानां वर्षयितारौ युवां प्रस्थित तस्य समर्पितस्य हविषः सारं वतिं प्राप्नुतं हर्यंत प्रतिगृह्णीतं जुषेथां सेवथां,
[[1217]]
प्रपा. ३ अनु. १४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्ययाज्यापुरनुवाक्याभिधानम्)
सुशर्माणा शोभनसुखयुक्तै स्ववसा शोभनरक्षणोपेतौ भूतं भवतम्। हि यस्मादेवं तस्मादथानन्तरं यजमानाय यजमानार्थं शँ सुखं योः पुत्रादिमिश्रणं च धत्तं कुरुतम्। “सोमाय वाजिने श्यामाकं चरुं विर्वपेत्” इत्यत्र याज्यानुवाक्ययोः प्रतीके दर्शयति—
आ प्यायस्वेति। आ प्यायस्व समेतु त इत्येषा पुरोनुवाक्या। सं ते पयाँ सीत्येषा याज्या। एते उभे चतुर्थकाण्डस्य द्वितीयप्रपाठके मा नो हिँ सीज्जनिता इत्यस्मिन्ननुवाके समाम्नास्येते अतस्तत्रैव व्याख्यास्येते।
“ब्राह्मणस्पत्यमेकादशकपालं निर्वपेद्ग्रामकामः” इत्यत्र पुरोनुवाक्यामाह—-
गणानां त्वेति। ब्रह्मणां ब्रह्मणस्पते हे कृत्स्नमन्त्रपते गणानां गणपतिं कृत्स्नदेवगणस्वामिनं त्वां हवामह आह्वयामः। कीदृशं त्वां कविं कवीनां विदुषां मध्ये प्रशस्तं विद्वांसम्, उपमश्रवस्तममुपमानत्वेन श्रवः कीर्तिर्यस्यासावुपमश्रवाः, सर्वगुणसंपन्नत्वेनायमेव सर्वेषां पदार्थामुपमानमित्येतादृशी कीर्तिः, अति शयेनोपमश्रवा उपश्रवस्तमस्तादृशं, राज्ञां मध्ये ज्येष्ठो ज्येष्ठराजस्तादृशम्। यथोक्तगुणोपेतस्त्वं नोऽस्माकमूतिभिः पालनैर्निमित्तभूतैर्बुक्त सन्सादनमस्मिन्कर्मण्युपवेशनमासीद प्राप्नुहि। तत्रेव याज्यामाह—
स इज्जनेनेति। स इत्स एव यजमानो अनेन किंकरादिना युक्तं वाजमर्न्न भरते दधाति। स एव विशा करप्रदया प्रजया सहितं वाजं भरते। स एव ब्राह्मणादिजन्मना सहितं वाजं भरते। स एव पुत्रैः सहितं वाजं भरते । स एव नृभिर्बन्धुभिः सहितानि धना द्रव्याणि भरते । यो यजमानः श्रध्दामनाः श्रध्दायुक्तमनस्को देवानां पितरं पालयितारं ब्रह्मणस्पतिं हविषा स्वकीयेनाऽऽविवासति आ समन्ताद्विशेषेण परिचरति, स इज्जनेनेति पूर्वत्रान्वयः।
अत्रैव विकल्पितां याज्यामाह। यद्वा तत्रैवोपहोममन्त्रमाह—
स सुष्ठुभेति। स देवः सुष्टुभा, शोभना स्तुभः सामावयवाः स्तोभा यस्य मन्त्रगणस्य सोऽयं सुष्ठुप्तेन सुष्ठुभा, ऋक्वता, ऋचो बहुविधा यस्मिन्मन्त्रगणे स ऋक्वांस्तेन ऋक्वता, रवेण ध्वनियुक्तेन गणेन मन्त्रसमूहेन तुष्टः सन्रुरोज बभञ्
[[1218]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
जेत्यन्वयः। कं बलं फलिगं फलमस्यास्तीति कली यजमानस्तं गच्छति प्राप्नोतीति फलिगस्तादृशं बलं प्रबलं प्रतिबन्धं रुरोज। हव्यसूदो हविर्भोक्ता कनिक्र ददहो स्वादुतमं हविरिति क्रन्दनं कुर्वाणो बृहस्पतीर्वावशतीः प्रस्रुवस्तनत्वेन वत्सान्प्रति हम्बारवं कुर्वतीरुस्त्रिया गा उत्कर्षेणैतदीयगृहं प्रति प्रेरयति। स इत्यभ्यास आदरार्थः। ‘एतामेव निर्वपेद्यः कामयेत ब्रह्मन्विशं विनाशयेयमिति मारुती याज्यानुवाक्ये कुर्यात्’ इति विहितयोः प्रतीके दर्शयति।
मरुतो यद्धेति। मरुतो यद्ध व इत्यनुवाक्या। या वः शर्मेति याज्या। एतच्चोभयं प्रथमकाण्डस्य पञ्चमप्रपाठके व्याख्यातम्। ‘अर्यम्णे चरुं निर्वपेत्सुमर्गकामः’। इति चतुर्थेऽनुवाके यद्विहितं तत्र पुरोनुवाक्यामाह—-
अर्थभाऽऽतीति। ‘असौ वा आदित्योऽर्यमा’ इतिश्रुतेरयमशब्ध आदित्यं ब्रूते। स चेन्द्राभेदोपचारेणेन्द्रधर्मैः स्तूयते। वृषभः कामानां वर्षयिता। तुविष्मान्महावलः। वसूनां धनानां दाता। पुरुषु बहुषु यज्ञेषु हूत आहूतः। अह न्स्वर्गं दातुं योग्यः। सहस्राक्षत्वादिकं स्पष्टम्। तत्रैव याज्यामाह—-
यो तेऽर्यमन्निति। हेऽर्यमन्राजंस्ते त्वदीया देवयाना देवैर्गन्तुमर्हा ये बहवः पन्थान आ दिवः स्वर्गपर्यन्तं चरन्ति गच्छन्ति हे देव तेभिस्तः पथिभिर्नोऽस्माकं महि शर्म महत्सुखं यच्छ, द्विपदे मनुष्याय नोस्माकं संबन्धिने शमेधि सुखकरो भव, चतुष्पदे गवादिरूपाय शमेधि। ‘अर्यम्णे चरुं निर्वपेद्यः कामयेत दानकामा मे प्रजाः स्युः’ ‘अर्यम्णे चः निर्वपेद्यः कामयेत स्वस्ति जनतामियाम्’ इत्यनयोरपि एते एव याज्यानुवाक्ये। ‘यो राजन्य आनुजावरः स्यात्तस्मा एतमैन्द्रमानुषूकमेकादशकपालं निर्वपेत्’ इत्यत्र पुरोनुवाक्यामाह—
बुध्नादग्रामिति। बुध्नादग्रं कर्मोपक्रमादारभ्य समाप्तिपर्यन्तमङ्गिरोभिर्गृणानोऽङ्गिकारोनाम्ना मुनिना सदृशैर्ऋत्विग्भिः स्तूयमान इन्द्रः पर्वतवत्सर्वा धीरस्य राज्ञो दृंहितानि समानैर यैः क्रियमाणान्द्रोहविशेषाव्यैराद्वंगतानकरोत्। किं कुर्वन्। एषां समानानं कृत्रिमाणि बलात्संपादितानि रोधांसि श्रैष्ठ्यप्रतिबन्धकाकाव्यवरोधिनानि र जज्जम्भयन्। कदैतत्सर्वमकरोदित्युच्यते। सोमस्य मदे सोम—
[[1219]]
प्रपा. ३ अनु. ४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
पानसंबन्धिनि भदे सतीन्द्रस्ता चकार तानु द्रोहनिवारणादीति कृतवान्। तत्रैव याज्यामाह—-
बुध्नादग्रेणेति। इन्द्रो नदीनां बुध्नादग्रेण मुलादग्रपर्यन्तं मानद (नैर्द) ण्डैर्विभिमाय विशेषेण निश्चितवान्। निश्चित्य च नदीनां खानि जलप्रवाहार्थानवकाशान्प्रति वज्रणातृणज्जलवाहनिरोधकपर्वतान्वज्रेण हिंसितवान्। दीर्घयाथैर्दीर्घाणां प्रवाहाणां गमनोपयुक्तैः पथिभिर्मार्गैर्युक्तान्नदीविशेषानसृजत्। न चात्रास्य भूयान्प्रयासः किंतु वृथा। यथा लोके नखैस्तृणच्छेदादिव्यर्थचेष्टामायासमन्तरेण जनाः कुर्वन्ति तद्वदित्यर्थः। सोमस्येत्यादि पूर्ववत्। नखालम्भनमात्रेण महतीर्नदीः सृजत इन्द्रस्य श्रैष्ठ्यप्रापणे कः प्रयास इत्यभिप्रायः।
‘यो ब्राह्मण आनुजावरः स्यात्तस्या एतं बार्हस्पत्यमानुषूकं चरुं निर्वपेत्’ इत्यत्र पुरोनुवाक्यामाह—-
प्र यो जज्ञ इति। विद्वान्सर्वज्ञो यो बृहस्पतिरस्य ब्राह्मणस्य यजमानस्य बन्धुं समानानां मध्येऽनुकूलं प्रजज्ञे प्रकर्षेण जानाति। तदीयमभिज्ञत्वं कथं निश्चियत इति चेदुच्यते। यतोऽयं देवो विश्वानि जनिमा सर्वेषां प्राणिनां सर्वाणि जन्मानि विवक्ति पुनः पुनः कथयति तस्मादभिज्ञत्वं निश्चियते। अ (सोऽ) भिज्ञो बृहस्पतिर्बह्मणो वेदस्य मध्यान्नीचादुच्चा मध्यमभागात्प्रथमभागादुत्तप्रभागाच्च व्र परिवृढं कर्मोज्ज प्रारोद्धृतवान्। स्वधयाऽमृतेन श्रैष्ठ्यप्रापणलक्षणेनाभि प्रतस्थौ एनं यजमानसभिलक्ष्य प्रस्थानं कृतवान्। समानानां मध्ये श्रैष्ठ्यं दातुं यजमानसमीपे समागतवानित्यर्थः। तत्रैव याज्यामाह—–
महान्महीति। महान्सामर्थ्येनाधिको बृहस्पतिर्मही प्रौढे पृथिव्यन्तरिक्षे द्यां द्युलोकं सद्म मनुष्याणां गृह पार्थिव रजश्च जात उत्पत्तिमात्रेण व्यस्तभायद्विविधं स्तम्भितवान्। यद्यप्येतत्सर्वमीश्वरस्यैव कर्म तथाऽपि तदभेदेन बृहस्पतिः स्तूयते। यद्वा परमेश्वरानुग्रहादयमेव लोकत्रयादिकं स्वस्वव्यापारक्षममकोरोत्। यस्य यजमानस्य सम्राड्यथोक्तरीत्या साम्राज्यं प्राप्तो बृहस्पतिर्देवता स यजमानो जनुषा जन्ममात्रेणैव बुध्नादग्रमभि आयुषोऽनुष्ठियमानकर्मणो वा मृला—
[[1220]]
श्रीमत्सायणाचार्यविरचितभाष्येसमेता—-(२ द्वितीयकाण्डे
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
दारभ्य समाप्तिपर्यन्तमाष्ट व्याप्तवान्। ईदृशेन बृहस्पत्यनुग्रहेण युक्तो यजमानः सर्वथा श्रैष्ठ्यं प्राप्नोत्येवेत्यभिप्रायः।
तत्रैव विकल्पितां याज्यामाह—-
बुध्नाद्य इति। यो बृहस्पतिर्जगतो देहस्य कर्मणो वा बुध्नादारभ्याग्रमभ्यर्त्यवसानमोजसा स्वबलेन प्राप्नोति तं बृहस्पतिमितरे देवा आविवासन्ति आगत्य विशेषेण वासयन्ति परिचरन्तीत्यर्थः। बृहस्पतिर्बलं यजमानसंबन्धिनां मध्ये प्रबलं पुरुषं भिनद्भिनत्ति प्रातिकूल्यान्निवारयति, पुरः समानानां पुराणि विशेषेण दर्दरीति प्रातिकूल्यनिवारणाय पुनः पुनर्दारितवान्। कनिक्रददुत्साहेन शब्दं कुर्वन्, सुवः, तत्सदृशं श्रैष्ठ्यमपस्तत्साधनं सर्वं जलक्षेत्रादिकं जिगाय जितवान्य जमानार्थे संपादितवानित्यर्थः। अत्र विनियोगसंग्रहः—-
“यज्ञविभ्रष्टयागे तु याज्याः स प्र निकेति च ।
इन्द्रमिन्द्रं चैन्द्रयागे त्वं नः साम्यचरौ तथा।।
अग्नी कामप्रापकेऽग्नी ब्रह्मवर्चसिनस्त्रयम्।
आप्या सं ते चरौ सौम्ये गणां ग्रामप्रदे त्रयम्।।
मरु यागे नाशकेष्टावर्यमाऽऽर्यमणे चरौ
बुध्नादैन्द्रे प्र यस्तिस्रो बार्हरस्पत्यानुषूकके।
पञ्चविंशतित (र) त्रोक्ता अनुवाके चतुर्दशे।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके
चतुर्दशोऽनुवाकः।।१४।।
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः।।
इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य
श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
द्वितीयकाण्डे तृतीयः प्रपाठकः।।३।।
[[1221]]
प्रपा. ४ अनु. १) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(भ्रातृव्यवत इष्टिविधिः)