१३

(अथ द्वितीयकाण्डे तृतीयप्रपाठके त्रयोदशोऽनुवाकः।)
या वा॑मिंद्रावरुणा यत॒व्या॑ त॒नूस्तये॒मम-
ँह॑सो मुञ्चतं॒ या वामिंद्रावरुणा सह॒स्या॑
रक्ष॒स्या॑ तेज॒स्या॑ त॒नूस्तये॒ममँ॑ हसो मुञ्चतं॒
यो वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तं वा॑मे॒ते
नाव॑ यजे॒ यो वा॑मिन्द्रावरुणा द्वि॒पात्सु॑ प॒शु
षु॒ चतु॑ष्पात्सु गो॒ष्ठे गृ॒हेष्व॒प्स्वोष॑धीषु॒ वन॒स्प—
ति॑षु॒ स्राम॒स्तं वा॑मे॒तेनाव॑ यज॒ इन्द्रो॒ वा
ए॒तस्यं (१) इ॒न्द्रि॒येणाप॑ क्रामति॒ वरु॑ण

[[1209]]

प्रपा. ३ अनु. १३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पाप्मना गृहीतस्येष्टिविधिः)
एनं वरुणपा॒शेन॑ गृह्णाति यः पा॒प्मना॑
गृही॒तो भव॑ति॒ यः पा॒प्मना॑ गृही॒तः स्यात्त
स्मा॑ ए॒तामै॑न्द्राव॒रुणी प॑य॒स्यां निर्व॑पे॒दिन्द्र॑
ए॒वास्मि॑न्निन्द्रि॒यं द॑धाति॒ वरु॑ण एनं वरुण
पा॒शान्मु॑ञ्चति पय॒स्या॑ भवति॒ पयो॒ हि वा
ए॒तस्मा॑द॒पक्राम॒त्यथै॒ष पा॒प्मना॑ गृही॒तो यत्प॑
य॒स्या॑ भव॑ति॒ पय॑ ए॒वास्मि॒न्तया॑ दधाति प—
य॒स्या॑याम् (२) पु॒रो॒डाश॒मव॑ दधात्यात्म॒
न्वन्त॑मे॒वैनं॑ करो॒त्यथो॑ आ॒यत॑नवन्तमे॒व च॑—
त॒र्धा व्यू॑हति दि॒क्ष्वे॑व प्रति॑ तिष्ठति॒ पुनः॒ स—
मू॑हति दि॒ग्भ्य ए॒वास्मै॑ भेष॒जं क॑रोति स॒मू—
ह्याव॑ द्यति॒ यथाऽऽवि॑द्धं निष्कृ॒न्तति॑ ता॒दृगे॒व
तद्यो वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तं वा॑मे॒ते
नाव॑ यज॒ इत्या॑ह॒ दुरि॑ष्ट्यां ए॒वैनं॑ पाति॒ यो
वा॑मिन्द्रावरुणा द्वि॒पात्सु॑ प॒शुषु॒ स्राम॒स्तं वा॑—
मे॒तेनाव॑ यज॒ इत्या॑ है॒ताव॑ती॒र्वा आप॒ ओष॑-
धयो॒ वन॒स्पत॑यः प्र॒जाः प॒शव॑ उपजीव॒नी-
या॒स्ता ए॒वास्मै॑ वरुणपा॒शान्मु॑ञ्चति (३)।।
(ए॒तस्य पय॒स्यायां पाति॒ षड्विँ॑ शतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
तृतीयप्रपाठके त्रयोदशोऽनुवाकः ।। १३ ।।

[[1210]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता——(२ द्वितीयकाण्डे
(पाप्मना गृहीतस्येष्टिविधिः)
(अथ द्वितीयकाण्डे तृतीयप्रपाठके त्रयोदशोऽनुवाकः)।
चतुष्कपाला विहिता द्वादशे त्वश्वदानिनः।
अथ त्रयोदशे पाप्मना गृहीतस्येष्टिं विधित्सुरादौ मन्त्रान्पठति।
कल्पः—‘एन्द्रावरुणं पुरोडाशं निरुप्यैन्द्रावरुणीं पयस्यां निर्वपेदुद्वास्यालं कृत्य पयस्यायां पुरोडाशमवदधात्येतयैव प्रच्छाद्याऽऽसादयत्यथास्मात्प्रतिदिशं पयस्यां व्यूहति या वामिन्द्रावरुणा यतव्या तनुरित्येतैरेव पुनः समूहति मुञ्चतमित्यस्य स्थानेमुक्तमिति मन्त्रान्तान्संनमति सहैव पयस्यायाः पुरोडाशस्यावद्यति यो वामिन्द्रावरुणावग्नौ स्राम इत्युपहोमाः’ इति।
तत्र प्रथमस्य प्यूहनमन्त्रस्य पाठस्तु—–
या वामिति। हे इन्द्रावरुणौ वां युवयोर्या तनूर्यतव्या पापाम्मोचने प्रयत्नवती तया तन्वा यजमानं पापान्मोचयतम्। द्वितीयतृतीयचतुर्थमन्त्राणां पाठस्तुं।
या वामिति। सहस्येत्यत्र तनूरित्यस्यान्त्यभागस्यानुषङ्गः। तेजस्येत्यत्र या वामित्याद्यभागस्यानषङ्गःष। रक्षस्येत्यत्रोभयोर्भामनारनुषङ्गः। सहो बलं तदर्हतीति सहस्या। रक्षो रक्षणं तदर्हतीति रक्षस्या। तेजो रोचनशक्तिस्तदर्हतीति तेजस्या उपहामे प्रथममन्त्रस्य पाठस्तु—
यो वामिति। इन्द्रावरुणाग्नौ वां युवयोर्यः स्रामः पापविशेषो युवयोर्होमार्थे वह्नौ यजमानेन योऽपराधः कृतस्तमपराधं युवयोः संवन्धिनैतेन होमेनावयजे विनाशयामि। द्वितीयादीनां सप्तानां मन्त्राणां पाठस्तु——
यो वामिति। द्विपात्सु पशुष्वित्यत्र स्रामस्तं वामित्याद्युत्तरभागस्यामनुषङ्गः। वनस्पतिषु स्राम इत्यत्र यो वामित्यादेः प्रथमभागस्यानुषङ्गः। * चतुष्पात्स्वदिषु पञ्चसु पूर्वोत्तरभागयोरनुषङ्गः। हे इन्द्रावरुणौ युवयोः संबन्धी यो यजमानस्य द्विपात्सु पशुषु मनुष्यादिरूपेषु यः स्रामः पापविशेषस्तं पापविशेषं युवयोः संबन्धिनैतेन कर्मणा विनाशयामि। एवं सर्वत्र योज्यम्। अथेष्टिं विधत्ते—-

*चतुष्पास्त्विति मन्त्रे तु चतुष्पात्स्वित्यनन्तरं पशुष्वितिपदस्यानुषङ्गो ज्ञेयः।

[[1211]]

प्रपा. २ अनु. १२) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पाप्मना गृहीतस्येष्टिविधिः)
इन्द्रो वा इति। य पापगृहीत एसदीयेनेन्द्रियेण सहेन्द्रोऽपगच्छति, वरुणो रोगेणैनं बाधते, अतः पाप्मना गृहीतस्य तदुभयविषयेष्टिः। पयसि प्रभवाऽऽमिक्षा पयस्या। तां प्रशंसति—
पयस्येति। पयः शब्देन क्षीरादिसात्विकाहारजनितश्रध्दया कृतं पुण्यमुपलक्ष्यते। तत्पुण्यानुष्ठानमेवैतस्माद्यजमानाद्यद्यपक्रामति तदानीमेव पाप्मना गृहीता भवति। यद्यत्र हविः पयस्या भवेत्तर्ह्यस्मिन्यजमाने तया पयस्ययाऽहारोपलक्षितं पुण्यमाहितं भवति। यथाप्राप्तं कंचिदंशविशेषं विधत्ते—-
पयस्यायामिति। शरीरसदृशस्य कठिनस्य पुरोडाशस्य प्रक्षेपेणैनं यजमानमात्मन्वन्तं दृढशरीरोपेतं करोति। सति हि पापे तज्जन्यरोगेण शरीरस्यादर्ढ्यम्। किंच * पयस्याधारत्वेन यजमानमप्यायतनवन्तं गृहग्रामादिरूपाधारवन्तं (करोति)। या वामिन्द्रावरुणेत्यादिमन्त्रर्हविषो विभागं विधत्ते—-
चतुर्धेति। विभक्तस्यैकीभावं विधत्ते—
पुनरिति। मिश्रितयोः पुरोडाशामिक्षयोः सहाबदानं विधत्ते—
समृह्यावेति। यथा लोके वैरिणा मुक्तमाविध्दं स्वशरीरं बाणादिकं संदशादिना निष्कृष्य छिनत्ति तादृगेव तत्समूह्यावदानं संपद्यते। उपहोमे प्रथममन्त्रं व्याचष्टे—
यो वामिति। होमाधारेऽग्नौ कृतेन स्रामेणापराघेन दुरिष्टिर्भवति तमपराधमवजय इत्युक्त्या तस्या दुरिष्टेः सकाशादेनं यजमानं रक्षति ।
अवशिष्टानां मन्त्राणां तात्पर्यं दर्शयति–
यो वामिन्द्रेति। पशुषु स्रामस्तं वामित्येवमनुषङ्गो योजयित्वा प्रदर्शितः। प्राण्युपजीवनयोग्या अबादयः पञ्च पदार्थाः। तत्र पशुशब्देन द्विपादचतुष्पादश्च गृह्यते। गृहा () अत्रोपल्लक्ष्यन्ते। या एतावत्य उपजीवनीयास्ताः सर्वा अपि यजमानार्थं वरुणपाशादुपद्रवान्मोचयति अत्र विनियोसंग्रहः—–

  • पुरोडाशस्येति शेषः । () अपिना गोष्ठोपलक्षणमभिप्रेतम्।

[[1212]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(२ द्वितीयकाण्डे
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
“यावामिति चतुर्मन्त्रैश्चतुर्धा व्यूहते हविः।
यो वामित्यष्टभिर्मन्त्रैरुपहोमा उदीरिताः।।
द्विपात्स्वित्यादिना मन्त्रभेदः सप्तविधो भवेत्।
त्रयोदशेऽनुवाकेऽस्मिन्मन्त्रा द्वादश कीर्तिताः।। ” इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय
तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके
त्रयोदशोऽनुवाकः।। १३।।