११

(अथ द्वितीयाष्टके तृतीयप्रपाठकं एकादशोऽनुवाकः) ।
अ॒ग्निं वा ए॒तस्य॒ शरीरं॑ गच्छति॒ सोमँ॒
रसो॒ वरु॑ण एनं वरुणपा॒शेन॑ गृह्णाति॒ सर॑
स्वतीं॒ वाग॒ग्नाविष्णू॑ आ॒त्मा यस्य॒ ज्योगा॒–
मय॑ति॒ यो ज्योमा॑मयावी॒ स्याद्यो वा॑ का॑म
ये॑त॒ सर्व॒मायु॑रिया॒मिति॒ तस्मा॑ ए॒तामिष्टिं नि
व॑पेदाग्ने॒यमष्टा॒क॑पालँ सौ॒म्यं च॒रुं वा॑रु॒णं
दश॑कपालँ सारस्व॒तं च॒रुमा॑ग्ना॑वैष्ण॒वमे
का॑दशकपालम॒ग्नेरे॒वास्य॒ शरी॑रं निष्क्रि॒णा
ति सोमा॒द्रस॑म् (१) वा॒रु॒णेनै॒वैनं॑ वरुणपा॒शा-
न्मु॑ञ्चति सारस्वते॒न वाचं॑ दधात्य॒ग्निः सर्वा॑
दे॒वता॒ विर्ष्णु॑य॒ज्ञो दे॒वता॑भिश्चै॒वैनं॑ य॒ज्ञेन॑ च
भिषज्यत्यु॒त यदी॒तासुर्भव॑ति॒ जीव॑त्ये॒व यन्नव
मै॒त्तन्नव॑नीतमभव॒दित्याज्य॒मवे॑क्षते रू॒पमे॒वा
स्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टेऽश्विनो प्रा॒णो॑ऽसि
त्या॑हा॒श्विनौ॒ वै दे॒वाना॑म् ( २ ) भि॒पजौ॒
ताभ्या॑मे॒वास्यै॑ भेष॒जं करो॒तीन्द्र॑स्य प्रा॒णो॑
ऽसीत्या॑हेन्द्रि॒यमे॒वास्मि॑न्ने॒तेन॑ दधाति मि॒त्रा
वरु॑णयोः प्रा॒णो॑ऽसीत्या॑ह प्राणापा॒नावे॒वा
स्मि॑न्ने॒तेन॑ दधाति॒ विश्वे॑षां दे॒वानां॑ प्रा॒णो॑ऽ
सीत्या॑ह वी॒र्य॑मे॒वास्मि॑न्ने॒तेन॑ दधाति घृ॒तस्य॒
धारा॑म॒मृत॑स्य॒ पन्था॒मित्या॑ह यथाय॒जुरे॒वैत-

[[1202]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता (२ द्वितीयकाण्डे
(आयुष्कामेष्टिविधिः)
त्पा॑वमा॒नेन॑ त्वा॒ स्तोमे॒नेति॑ (३) आ॒ह॒ प्रा॒णमे॒
वास्मि॑न्ने॒तेन॑ दधाति बृहद्रथं॒तरयो॑स्त्वा॒ स्तो
मे॒नेत्या॒हौज॑ ए॒वास्मि॑न्ने॒तेन॑ दधात्य॒ग्नेस्त्वा॒
मात्र॒येत्या॑हा॒ऽऽत्मान॒मेवास्मि॑न्ने॒तेन॑ दधात्यृ
त्विजः॒ पर्या॑हु॒र्याव॑न्त ए॒वर्त्विज॒स्त एनं॑ भिष
र्ज्य॑न्ति ब्र॒ह्मणो॒ हस्त॑मन्वा॒रभ्य पर्या॑हुरेक॒धैव
यज॑मान॒ आयु॑र्दधति॒ यदे॒व तस्य॒ तद्धिर॑
ण्यात् (४) घृ॒तं निष्पि॑ब॒त्यायु॒र्वै घृ॒तम॒मृ
तँ॒ हि॑रण्यम॒मृता॑ दे॒वाऽऽयु॒र्निष्पि॑बति श॒त
मा॑नं भवति श॒तायुः॒ पु॑रुषः श॒तेन्द्रि॑य॒ आयु॑
ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठ॒त्यथो॒ खलु॒ याव॑तीः॒ समा॑
ए॒ष्यन्मन्ये॑त॒ ताव॑न्मानँ स्या॒त्समृ॑द्ध्या इ॒म-
म॑ग्न॒ आयु॑षे॒ वर्च॑से कृ॒धीत्या॒ऽऽहायु॑रे॒वास्मि॒
न्वर्चो दधाति॒ विश्वे॑ दे॒वा जर॑दष्टि॒र्यथाऽस॒
दित्या॑ह॒ जर॑दष्टिमे॒वैनं॑ करोत्य॒ग्निरायु॑ष्मा॒नि-
ति हस्तं गृह्णात्ये॒ते वै दे॒वा आयुष्मन्मन्त॒स्त
ए॒वास्मिन्नायु॑र्दध॒ति स॒र्वमायु॑रेति (५)।।
(रसं देवानाँ स्तोमेनेति हि॑रण्यादसदिति द्वाविँशतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
तृतीयप्रपाठके एकादशोऽनुवाकः।। ११।।

[[1203]]

प्रपा. ३ अनु. ११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(आयुष्कामेष्टिविधिः)
(अथ द्वितीयकाण्डे तृतीयप्रपाठक एकादशोऽनुवाकः)।
इष्टेर्विधास्यमाताया दशमे मन्त्र ईरितः।
अथाकादशे तामिष्टिं विधातुं प्रस्तौति—
अग्निं वा इति। यं दीर्घव्याधिः पीडयति एतस्य शरीरमग्निं प्रविशति, मांसभक्षणेन कृशत्वात्। सोमेन रसस्वीकाराद्वलक्षयः। वरुणपाशेन ग्रहणादुदरादिव्यथा। सरस्वतीमेतदीया वाग्भाषा गच्छति, तेनायं भाषितुं न शक्नोति। जीवात्मा त्वग्नाविष्णू प्राप्नोति, तेन मुमूर्षति। इदानीं विधत्ते—
यो ज्योगामयावीति । ज्योगामयाविनो रोगपरिहारार्थमरोगस्य चापमृत्युपरिहारार्थमियं पञ्चहविकेष्टिः मन्त्रं विनियुङ्क्ते—
यन्नवमैत्तदीति। मन्त्रोक्तैर्नवनीतसर्पिर्घृतनिर्वचनैरस्याऽऽज्यस्यैतद्विद्यमानरूपं महिमानं ख्यापनाय मन्त्रौ व्याचष्टे। यद्वा मन्त्रस्यैतत्स्वरूपमेव घृतस्य महिमानं व्याचष्टे। मन्त्राक्षरेरेव स्पष्टं प्रतीयते नाव पृथग्वक्तव्यमस्तीत्यर्थः।
उपहोममन्त्रान्व्याचष्टे—–
अश्विनोरिति। यजमानस्याऽऽज्यावेक्षणमन्त्रे स्पष्टार्थतां दर्शयति
घृतस्येति। ऋत्विग्भिः पठ्यमानानां मन्त्राणां तात्पर्य दर्शयति—
पावमानेनेति। पवमानस्य वायोः प्राणरूपत्वात्तेन प्राणस्थापनं, बृहद्रथंतरयोः पृष्ठस्तोत्रप्रकृतित्वेन सारत्वात्तेनौजोधारणम्। अग्नेरात्मा मीयतेऽनयेत्युक्तत्वात्तेनाऽऽत्मस्थापनम्। एतेषां पाठं विधत्ते—-
ऋत्विज इति। पाठकाले हस्तग्रहणं विधत्ते—
ब्रह्मणो हस्तमिति। एकधैव सर्वषामृत्विजामैकमत्येनैव यजमानस्य यदेषाऽऽयुः संपादनीयमस्ति तत्सर्वं तस्मिन्यजमाने स्थापयन्ति।
यदुक्तं सूत्रकारेण—-‘पात्रसंपादनकाले खादिरं पात्रं चतुस्रक्ति प्रयुङक्ते ,सौवर्णस्य प्रवर्तं शतमानस्य कृतम्, अथो खलु यावतीः समा एष्यन्मन्येत वावन्मानँ स्यात्’ इति। आज्यग्रहणकाले तूष्णीं खादिरे चतुर्गृहीतं गृहीत्वा सादनकाल उत्तरेण ध्रुवां खादिरं सादयित्वा तस्मिन्प्रवर्तमवदधाति” इति च। प्रवर्तः कर्णाभरणं कुण्डलम्। (तत्र घृते स्थापितात्प्रवर्तान्निष्पीडितस्य घृतस्य पानं विधत्ते—–

[[1204]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता— (२ द्वितीयकाण्डे
(अश्वदानवत इष्टिविधिः)
हिरण्यादिति। तस्य परिमाणं द्वेधा विधत्ते—
शतमानमिति। शतमानं पञ्चपणपरिमितमित्यसकृदुक्तम्। अथवा रुग्णो यजमानो योवतो भाविनः संवत्सरान्प्राप्नोत्वित्यध्वर्युर्युर्मन्यते तावद्भिर्मानैः परिमितं कर्तव्यम्। मानशब्दो गुञ्जाबीजं ब्रूते। रुग्णस्यातीतमायुः परित्यज्या ऽऽगामिन आयुषो यावन्तः संवत्सरा एतस्य मनसि निश्चितास्तावद्भिर्गुञ्जाबीजैः परिमितमित्यर्थः। प्राश्नतो यजमानस्याभिमन्त्रणमन्त्रे प्रथमचरमभागयोरभिप्रायं दर्श यति—-
इदमग्न इति। आयुषञ्चरमभागस्थाया जराया अष्टिर्व्याप्तिर्यस्य। अथवा जीर्यत्यष्टिरशनं यस्यासौ जरदष्टिः नीरोग इत्यर्थः। अध्वर्यार्यजमानदक्षिण हस्तग्रहणं विधत्ते—-अग्निरायुष्मानिति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायभाष्ये द्वितीयकाण्डे तृतीयप्रपाठक
एकादशोऽनुवाकः।। ११।।