(अथ द्वितीयाष्टके तृतीयप्रपाठके दशमोऽनुवाकः)।
यन्नव॒मैत्तन्नव॑नीतमभव॒द्यदस॑र्प॒त्तत्स॒र्पि॑रभव
द्यदघ्रि॑यत॒ तद्घृ॒तमभ॑वद॒श्विनोः॑ प्रा॒णो॑ऽसि॒
तस्य॑ ते दत्तां॒ ययोः॑ प्रा॒णोऽसि॒ स्वाहेन्द्र॑स्य
प्रा॒णो॑ऽसि॒ तस्य॑ ते ददातु॒ यस्य॑ प्रा॒णो॑ऽसि॒
स्वाहा॑ मि॒त्रावरु॑णयोः प्रा॒णो॑ऽसि॒ तस्य॑ ते
दत्ता॒ ययोः॑ प्रा॒णोऽसि॒ स्वाहा॒ विश्वे॑षां दे
वानां प्रा॒णो॑ऽसि (१) तस्य॑ ते ददतु॒ येषां
प्रा॒णोऽसि॒ स्वाहा॑ घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ प—
न्था॒मिन्द्रे॑ण द॒त्तां प्रय॑तां मरु॒द्भिः॑। तत्त्वा॒ वि
ष्णु॒विष्णुः॒ प॑र्यपश्य॒त्तत्त्वेडा॒ गव्यै॑रयत्। पा॒व॒
मा॒नेन॑ त्वा॒ स्तोमे॑न गायत्रस्य॑ वर्त॒न्योपाँ॒
शोर्वीयेणं देवस्त्वा॑ सवि॒तोत्सृ॑जतु जी॒वात॑वे
जीवनस्यायै॑ बृहद्रथंत॒रयो॑स्त्वा॒ स्तोमे॑न त्रि॒—
ष्टुभो॑ वर्त॒न्या शृ॒क्रस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ स॒
वि॒तोत् (२) सृ॒ज॒तु जी॒वात॑वे जीव॒नस्याया॑
अग्नेस्त्वा॒ मात्र॑या॒ जग॑त्यै वर्त॒न्याऽऽग्र॑य॒णस्य॑
वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु जी॒वात॑वे
जीवन॒स्याया॑ इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि
प्रि॒यँ रेतो॑ वरुण सोमराजन्। मा॒तेवा॑स्मा
अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा जरदष्टिर्य॒—
थाऽसत। अग्निरायुष्मान्त्सवनस्पातभिराय
[[1198]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(२ द्वितीयकाण्डे
(आयुष्कामेष्टिमन्त्राः)
ष्मा॒न्तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोति॒ सोम॒
आयु॑ष्मा॒न्त्स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्त्स
दक्षि॑णाभि॒र्ब्रह्माऽऽयु॑ष्म॒त्तद्ब्रा॑ह्म॒णैरायु॑ष्मद्दे॒वा
आयु॑ष्मन्त॒स्ते॑ऽमृते॑न पि॒तर॒ आयु॑ष्मन्त॒स्ते
स्व॒धयाऽऽयु॑ष्मन्त॒स्ते॒न त्वाऽऽयुषाऽऽयु॑ष्मन्तं
करोमि।।३।।
(विश्वे॑षां दे॒वानां॑ प्रा॒णो॑ऽसि त्रि॑ष्टुभो॑ व॒र्तन्या शु॒क्रस्य॑ वी॒र्ये॑ण
दे॒वस्त्वा सवि॒तोत्सो॒म आयु॑ष्मा॒न्पञ्च॑विँशतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
तृतीयप्रपाठके दशमोऽनुवाकः।। १० ।।
(अथ द्वितीयकाण्डे तृतीयप्रपाठके दशमोऽनुवाकः)।
इष्टिः सांग्रहणी प्रोक्ता नवमे ग्रानकामिनः (णः) ।।
अथ व्यवहितेनैकादशानुवकेनाऽऽयुष्कामेष्टिं विधित्सुर्दशभे तन्मन्त्रान्पठति।
कल्पः—“यन्नवमैतन्नवनीतमभवदित्याज्यमवेक्ष्य” इति।
अनेन प्राकृत आज्यमसीत्यवेक्षणमन्त्रो बाधितः। पाठस्तु—
यन्नवमैत्तमिति। यद्यस्मात्कारणाद्दघ्न उदध्रियमाणं सन्नवमैन्नवं नूतन रूपमभवत्तस्मान्नवं च तन्नीतं चेत्युद्धृतस्य सारपिण्डस्य नवतीतनाम संपन्नम्। यद्यस्मात्कारणादग्निसंपर्के सति पिण्डो विलीयमानोऽसर्पत्प्रसृतोऽभूत्तस्मात्सर्पिरिति नाम। यस्मात्प्रसृतस्य शीतलपात्रस्थापनेन तत्पुनरध्रियत तद्घनीभूतमभवत्तस्माद्घृतमिति नाम। घृक्षरणदीप्त्योरिति धातोर्नैतद्रूपं किंतु घृतमित्यत्र घकारस्य घकारादेशः। कल्पः—“उपहोमकालेऽश्विनोः प्राणोऽसीत्येतैः प्रतिमन्त्रं चतुर उपहोमाञ्जुहोति” इति। पाठस्तु—
अश्विनोरिति। हे यजमान त्वमश्विनोः प्राणोऽसि प्राणवत्प्रियोऽसि। त—
[[1199]]
प्रपा. ३ अनु. १०) कृष्णयजुरेवदीयतैत्तिरीयसंहिता।
(आयुष्कामेष्टिमन्त्राः)
स्वाद्ययोः प्राणोऽसि तावश्विनौ तस्य ते प्रियस्य तवाऽऽयुर्हेतुभूतं प्राणं दत्ताम्। प्राणिमित्येतत्सामर्थ्याल्लभ्यते। तयोरश्विनोरिदमाज्यं स्वाहुतमस्तु। एवमुत्तरेषु योज्यम्। कल्पः—“यत्खादिरं आज्यं तदग्रेणाऽऽहवनीयं पर्याहृत्य तेन दक्षिणस्यां वेदिश्रोण्यामासादयति तद्यजमानोऽवेक्षते घृतस्य धारममूतस्य पन्थामिति ” इति। पाठस्तु—–
घृतस्य धारमिति। घृतस्य धारमवेक्षेतेत्यध्याहारः। कीदृशीं धारम्। अमृतस्य पन्थां कर्मफलस्य साधनत्वेन मार्गभूताम्, इन्द्रेण वृष्टितृणोत्पत्यादिपरम्परया दत्तां संपादिताम, मरुद्भिर्वैश्याधिपैः प्रयतां *क्रयणभाण्डेषु प्रयत्नेन धृताम्। हे घृत तत्वा तथाविधं त्वां विष्णुसदृशो यजमानः पर्यपश्यत्परिपश्यति। इडा पश्वाभिमानीनी देवता तादृशं त्वां गव्यैरयत्प्रेरयति गोषु स्थापयति।
कल्पः—-“अथास्य ब्रह्मा दक्षिणं हस्तं गृह्णाति ब्रह्मण इतर ऋत्विजो हस्तमन्वारभ्य यजमानं पर्याहुः पानमानेन त्वा स्सोमेनेति” इति। पाठस्तु—-
पावमानेनेति। हे यजमान त्वां सविता देव उत्सृजतु दीर्घरोगान्मोचयतु। केन साधनेन। बहिष्पवमानादीना संबन्धिना त्रिवृदादिस्तोमसाध्येन स्तोत्रेण, गायत्रस्य वर्तन्या गायत्रवच्छन्दसो यो मार्गस्तेन सोमाहरणरूपेण यज्ञाङ्गसंपादनेन, उपांशोर्वीर्येणोपांशुग्रहहोमसामर्थ्येन। अत्र प्रतिसाधनं वाक्यभेदेनान्वेतुं त्वेतिशब्दस्य पुनरुक्तिः। किमर्थमुत्सृजत्विति तदुच्यते। जीवातव जीवनहेत्वौषधादिसंपादनाय। तदपि किमर्थमिति तदुच्यते। जीवनस्यायै चिरं जीवितुमिच्छा जीवनस्या तदर्थम्। एवं द्वितीयतृतीयमन्त्रौ योजनीयौ। अग्नेर्मात्रयामीयतेऽग्निर्यया गीत्या सा गीतिर्मात्रायज्ञायज्ञियस्य गानमित्यर्थः।
कल्पः— ‘अथ यजमानो हिरण्याद्वृतं निष्पिबतीममग्न आयुषे वर्चसे कृघीतिप्राश्रन्तमभिमन्त्रयते” इति। पाठस्तु-
*विक्रयाय भाण्डेषु संचितामिति ख, पुस्तकस्य पाठान्तरम्।
[[1200]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(२ द्वितीयकाण्डे
[आयुष्कामेष्टिमन्त्राः]
इममग्न इति। हेऽग्न इमं यजमानं दीर्घायुषे बलाय च समर्थं कुरु। हे वरुण हे सोम राजन्नस्य यजमानस्य प्रियं रेतः पुत्रोत्पादकं संपादय। हेऽदितेपृथिवि मातृवदस्मै सुखं प्रयच्छ। विश्वे देवा अयं यजमानो यथा जरदष्टिरसत्तथा कुर्वन्तु। जराया अष्टिर्व्याप्तिर्यस्यासौ जरदष्टिः। बाल्ये यौवने च मरणरहितो जरामायुःसंपूर्तिपर्यन्तां यथा व्यप्नोति तथा कुर्वन्त्वित्यर्थः।
कल्पः– ‘अग्निरायुष्मानित्यनुवाकशेषेणास्याध्वर्युर्दक्षिणं हस्तं गृह्णाति’ इति। पाठस्तु—
अग्निरायुष्मानिति। अग्निरायुष्मान्भवति। तत्कथमिति तदुच्यते। सोऽग्निर्वनस्पतिभिरायुष्मान्काष्ठेषु प्रक्षिप्यमाणेषु ज्वालापरम्परया वर्धते न तूपशाम्यति। तेनाग्नेरायुषाऽभिवर्धमानेन त्वमायुष्मन्तं करोमि। एवमुत्तरत्र योज्यम्। सोमः सोमरस ओषधीष्वभिषूयमाणासु वर्धते। यज्ञो दक्षिजाभिर्वशीकृतेष्वृत्विक्षु वर्धते। वेदश्च ब्राह्मणेष्वध्यापकेषु अविच्छेदेन वर्धते। देवाश्च हवीरूपेजामृतेन जीवन्ति। पितरश्च स्वधाकारपूर्वकेण पिण्डादिना जीवन्ति। प्रतिवाक्यमनुषङ्गद्योतनाय तेनत्वाऽऽयषेति पनः पठ्यते। अत्र विनियोगसंग्रहः—
‘ज्योगामयाविनस्त्विष्टौ यन्नवेत्याज्यमीक्षते।
अश्विनोरुपहोमा स्युर्घृत स्वाम्याज्यमक्षिते।।
स्पृष्ट्वार्त्विजो ब्रह्महस्तं पावेति स्वामिनं जगुः।
इमं घृतं पिबन्तं तु स्वामिनं मन्त्रयेत हि।।
अग्निः सोमश्च यज्ञश्च ब्रम्ह देवाः पितेति षट्।
यथोचितानुषङ्गैस्तैर्गृह्णीते स्वामिहस्तकम्।
दशमे त्वनुवाकेऽस्मिन्मन्त्राः षोडश वर्णिताः।।” इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे
दीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके
दशमोऽनुवाकः ।। १०।।
[[1201]]
प्रपा. ३ अनु. ११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(आयुष्कामेष्टिविधिः)