(अथ द्वितीयकाण्डे तृतीयप्रपाठके नवमोनुऽवाकः।)
ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयासं॒ धी-
र॒श्चेत्ता॑ वसु॒विद्ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहँ स॑-
जा॒तेषु॑ भूयासमु॒ग्रश्चेत्ता॑ वसु॒विद्ध्रु॒वो॑ऽसि
ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयासमभि॒भूश्चेत्ता॑ व-
सु॒विदाम॑नम॒स्याम॑नस्य देवा॒ ये स॑जा॒ताः
कु॑मा॒रा सम॑नस॒स्तान॒हं का॑मये हृ॒दा ते मां
का॑मयन्तँ हृ॒दा तान्म॒ आम॑नसः कृधि॒
स्वाहाऽऽम॑नमसि (१) आमन॑स्य देवा॒
याः स्त्रियः॒ सम॑नस॒स्ता अ॒हं का॑मये हृ॒दा
ता मां का॑मयन्ताँ हृ॒दा ता म॒ आम॑नसः
[[1194]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(सांग्रहणीष्टिविधि)
कृधि॒ स्वाहा॑ वैश्वदे॒वीँ सां॑ग्रह॒णीं निर्वपे॒
द्ग्राम॑कामो वैश्व॒देवा वै स॑जा॒ता विश्वा॑-
मे॒व दे॒वान्त्स्वेन भाग॒धेये॒नोप॑ धावति॒ त ए॒
वास्मै॑ सजा॒तान्प्र य॒च्छन्ति ग्रा॒म्ये॑व भ॑वति
सांग्रह॒णी भ॑वति मनो॒ग्र॑हण वै सं॒ग्रह॑णं॒ मन॑
ए॒व स॑जा॒ताना॑म् (२) गृ॒ह्णा॒ति॒ ध्रु॒वो॑ऽसि
ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयास॒मिति॑ परि॒धीन्प
रि॑ दधात्या॒शिष॑मे॒वैतामा शा॒स्तेऽथो॑ ए॒तदे॒व
सर्वँ॑ सजा॒तेष्वधि॑ भवति॒ यम्य॒ वै वि॒दुष॑ ए॒ते
प॑रि॒धयः॑ परिधी॒यन्त॒ आम॑नम॒स्याम॑नस्य
देवा॒ इति॑ ति॒स्र आ॑हुतीर्जुहोत्ये॒ताव॑न्तो॒ वै
स॑जा॒ता ये म॒हान्तो॒ ये क्षु॑ल्ल॒का याः स्त्रिय॒-
स्ताने॒वाव॑रुन्धे॒ त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते
(३)।।
(स्वाहाऽऽम॑नमति सजा॒तानाँ॑ रुन्धे॒ पञ्च॑ च)।
इति श्रीकृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
तृतीयप्रपाठके नवमोऽनुवाकः ।। ९ ।।
(अथ द्वितीयकाण्डे तृतीयप्रपाठके नवमोऽनुवाकः)।
अष्टमे दृष्टिकामस्य त्रिहविष्केष्टिरीरिता।
अथ नवमे सांग्रहणीष्टिं विधास्यन्नादौ चोदकप्राप्तान्गन्धर्वोऽसि विश्वावसुरित्यादिकान्परिधिमन्त्रानपवदितुं मन्त्रान्तराणि दर्शयति—
[[1195]]
प्रपा. ३ अनु ०९] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
[सांग्रहणीष्टिविधिः]
ध्रुवोऽसीति। हे मध्यमपरिधे त्वं स्थिरोऽसि त्वदीयस्थापनेनाहमपि ज्ञातिषुमध्ये स्थिरो भूयासम्। किंच, धैर्यवानभिज्ञो धनवांश्च भूयासम्। एवं दक्षिणोत्तरपरिधिमन्वयोर्व्याख्या। ज्ञातीनां प्रतिवादित्वराहित्यायाऽऽज्ञाधारित्वमुग्रत्वम्।
आज्ञामुल्लङ्घ्य प्रतिवादिनस्तिरस्कृत्वमभिभत्वम्। परिधिमन्त्रानाम्नायोपहोममन्त्रान्पठति-
आमनमस्येति। अत्र सजाताः कुमारा इति पदभेदमवलम्ब्यावशिष्टानुषङ्गेण मन्त्रद्वयं द्रष्टव्यम्। सजातानाकामयितुं मनुत इत्यामनम्। हे हूयमाना ज्य त्वं तादृशमसि। अत आमनस्य सजातानाकामयितुं मन्वानस्य यजमानस्य ये सजाता ज्ञातिप्रभृतयः समनसः समनस्का अनुकूलाः सन्ति हे देवास्तान्सजातानहं हृदा चित्तेन कामये। ते च मां हृदा कामयन्ताम्। तान्सजातान्मे मदर्थमामनोस मामाकामयितुं मन्वानान्कुरु। इदमाज्यं स्वाहुतम्। एवं कुमारमन्त्रस्त्रीमन्त्रौ व्याख्येयौ। इदानीमिष्टिं विधत्ते–
वैश्वदेवीमिति। मनसा परस्परमैकमत्येन सम्यक्स्वीकारः संग्रहणम्। तद्यस्यामिष्टावस्ति सा सांग्रहणी। तदेतदभिप्रेत्येष्टिविशेषणं प्रशंसति–
सांग्रहणीति। ज्ञातिमनसः स्वाधीनत्वेन ग्रहणं मनोग्रहणं, तदेव सम्यग्ग्रहणमित्युच्यते। ततः सांग्रहण्येष्ट्या सजातानां मनांसि स्वाधीन करोति। आदावाभ्नादान्मन्त्रान्विनियुङक्ते-
ध्रुवोसीति। त्रिष्वपि मन्त्रेषु भूयासमित्यभिधानादाशासनं गम्यते। किं चैवं विदुषस्तैर्मन्त्रैः परिधाने सति सजातेषु मध्ये मन्त्रैः प्रार्थितम सर्वमधिकं संपद्यते। मन्त्रान्तराणि विनियुङक्ते—
आमनमसीति। अत्र सजाता ईत्यन्ते मन्त्रभागे सप्रनस इत्याद्युक्तभागोऽनुषञ्जनीयः। कुमारा इत्यादिके मन्त्रभाग आमनमसीत्यादिमन्त्रपूर्वभागोऽनुषञ्जनीयः। तथा सति त्रिभिर्मन्त्रैराहुतित्रयं संपद्यते। स्वकुले स्वजातिषु मध्येमे च ये महान्तः पुरुषाः प्रौढा ये च क्षुल्लका बाला याश्च पत्नीभगिनीमात्रादयः
[[1196]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता। (२ द्वितीयकाण्डे–
(सांग्रहणीष्टिविधिः)
स्त्रिय एतावन्त एवापेक्षिताः सजातास्ताननयेष्ट्या स्वाधीनान्करोति। ते च जना स्वाधीना एव सन्त एनं सेवन्ते। अत्र विनियोगसंग्रहः–
‘सांग्रहण्यां तु परिधीन्परिधत्ते ध्रुवस्त्रयात्।
आमनेति त्रिभिस्तत्र उपहोमास्त्रयो मताः।।
मन्त्रभेदः सजातेति कुमारेति पदद्वयात्’ ।।
एत्र मीमांसा।
दशमाध्यायस्च श्चतुर्थपादे चिन्तितम्—
आमनाहुतिभिर्बाध्या अनुयाजा न वाऽग्रिमः।
वित्वलिङ्गादिशिष्टोक्तेर्भेदो मध्योक्तितोऽन्तिमः ’।। इति।
‘सांग्रहणीष्टौ श्रूयते— आमनस्यामनस्यदेवा इति तिस्र आहुतीर्जुहोति’ इति। एताभिस्तिसृभिराहुतिभिः प्राकृतास्रयोऽनूयाजा बाध्याः। कुतः। त्रित्वलिङ्गात। पूर्वाधिकरणे सप्तदशसंख्याविशिष्टप्राकृतपश्वभावेन मा भूद्बा ध्यत्वम्। इह तु त्रित्वविशिष्टत्वादनूजाया बाध्यन्ताम्। यदा– तदनुवादेन मन्त्रगुणविधानात्प्राकृतमन्त्रबाध इति पूर्वः पक्षः। किं त्रित्वमात्रमनूद्य मन्त्र सहिता आहूतयो विधियन्ते, आहोस्वित्रित्वविशिष्टा आहुतीरनूद्य मन्त्रविधिः आद्ये त्रित्वनग्न्यादिष्वपि सत्वेन नानूयाजलिङ्गम्। द्वितीये विशेषणविशेष्ययोरुद्देश्ययोरेर्भेदेन वाक्यं भिद्येत। तत्कर्मान्तरविधानान्न वाधः, किंतु समूच्चयः। तत्र मध्योक्तिर्लिङ्गम्। तथा चाऽऽम्नायते—“यत्प्रयाजानूयाजानां पुरस्ताद्वोपरिष्टाद्वा जुहूयाद्बहिरात्मन्सजातामादधीताथ यन्मध्यतो जुहोति मध्यत एव सजातानात्यन्धते” इति। तस्मादामनहोमानामनूयाजैः सह समुच्चयः।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके
नवमोऽनुवाकः ।। ९।।
[[1197]]
प्रपा. ३ अनु.) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(आयुष्कामेष्टिमन्त्राः)