०८

(अथ द्वितीयाष्टके तृतीयप्रपाठकेऽष्टमोऽनुवाकः)।
रज॑नो॒ वै कौ॑णे॒यः ऋ॑तु॒जितं॒ चक्षु-
र्वन्य॑मया॒त्तस्मा॑ ए॒तामि॑ष्टिं॒ निर॑वपद॒ग्नये भ्राज॑
स्वते पुरो॒डाश॑म॒ष्टाक॑पालँ सौ॒र्यं च॒रुम॒ग्नये॒
भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालं॒ तयै॒वास्मि॒ञ्चक्षु॑
रदधा॒द्यश्चक्षु॑ष्कामः॒ स्यात्तस्मा॑ ए॒तामिष्टिं॒ निर्व॑
पे॒दग्नये॒ भ्राज॑स्वते पुरा॒डाश॑म॒ष्टक॑पालँ सौ॒र्यं
च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑मा॒ष्टाक॑ पालम॒ग्रेर्वै
चक्षु॑षा मनु॒ष्या॑ वि (१) प॒श्य॒न्ति॒ सूर्य॑स्य
दे॒वा अ॒ग्निं चै॒व सूर्यं॑ च॒ स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ ताबे॒वास्मि॒ञ्‍चक्षु॑र्ध॒त्तश्चक्षु॑ष्मा॒नेव भ॑वति॒
यदा॑ग्ने॒यौ भव॑त॒श्चक्षु॑षी ए॒वास्मि॒न्तत्प्रति॑ दधाति॒
यत्सौ॒र्यो नासि॑कां॒ तेना॒भितः॑ सौ॒र्यमा॑ग्ने॒यौ
भ॑व॒तस्तस्मा॑द॒भितो॒ नासि॑कां चक्षु॑षी॒ तस्मा॒न्ना-
सि॑कया॒ चक्षु॑षी विध॑ते समानी या॑ज्यानुवाक्ये॑

[[1192]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(चक्षुष्कामस्येष्टिविधिः)
भवतः समा॒नँ हि चक्षुः॒ समृ॑द्ध्या॒ उदु॒ त्यं
जा॒तवे॑दसँ स॒प्त त्वा॑ ह॒रितो॒ रथें चि॒त्रं दे॒वाना॒
मुद॑गा॒दनी॑क॒मिति॒ पिण्डा॒न्प्र य॑च्छति॒ चक्षु॑रे॒-
वास्मै॒ प्र य॑च्छति यदेव तस्य तत् (२)।।
(वि ह्य॑ष्टाविँ॑ शतिश्च।)
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
तृतीयप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।
(अथ द्वितीयकाण्डे तृतीयप्रपाठकेऽष्टमोऽनुवाकः)।
सप्तमे सर्वपृष्ठोक्ता वीर्यकामाभिशस्तयोः।
अथाष्टमे चक्षुष्कामस्य त्रिहविष्कामिष्टिं विधातुं प्रस्तौति—
रजनो वा इति। रजननामकः कश्चित्पुरुषः ऋतुजिन्नामकं पुरुषमयात्प्राप्नोत्। रजनः कुणेरपत्यं, ऋतुजिच्चनकस्यापत्यं, स तु चक्षुर्वन्यश्चक्षुषो दृष्टिर्वननं संभजनं तदर्हतीति चक्षुर्वन्यः, रोगोपहतां दृष्टिं समाधातुं शक्त इत्यर्थः। अतो दृष्टिपाटवाय ऋतुजितं प्राप्य त्रिहविष्कयेष्ट्यात्पाटवं प्राप्तवान्।।
विधत्ते—
यश्चक्षुष्काम इति। भ्राजस्वते दीप्त्याधिक्ययुक्ताय। उन्मेषनिमेषसद्भावान्मनुष्यदृष्टिरनित्या। अग्निश्च कदाचिज्जवति कदाचिदुपशाम्यति। तस्मादनित्यत्वसाम्यलक्षणेन मनुष्यदृष्टेरग्नेश्च संबन्धः। देवानां त्वनिमिषत्वात्सूर्यप्रकाशवन्नित्या तदीया दृष्टिरित्यस्ति तस्याः सौर्यसंबन्धः।।
आग्नेयद्वयमध्यवर्तिनासिकासाम्येन प्रशंसति
यदाग्नेयाविति। तेनाऽऽग्नेयद्वयेनास्मिन्यजमाने चक्षुषोः प्रतिष्ठा। तेन सौर्येण नासिकायाः प्रतिष्ठा। नासिकया चक्षुषी विधृते परस्परामिश्रणाभावाय विविधत्वेन स्थापिते। अत्राऽऽग्नेयस्य प्रथमस्योदग्ने शुचस्तव शुक्रा इति पुरोनुवाक्या, ज्योतिषा बृहता भात्यग्निरिति याज्या।।

[[1193]]

प्रपा. ३ अनु. ९) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सांग्रणीष्टिविधिः)
चरमस्य मन्त्रान्तरशङ्कां वारयितुं विधत्ते—
समानी इति। समानी एकविधे। यदुक्तं सूत्रकारेण—चतुर्धाकरणकाले सौर्यात्त्रीन्पिण्डानुद्धृत्योदु त्यं जातवेदसँ सप्त त्वा हरितो रथे चित्रं देवानामुदगादनीकमिति पिण्डान्यजमानाय प्रयच्छति तान्यजमानः प्राश्नाति इति। तत्र त्रिभिर्मन्त्रैः पिण्डदानं विधत्ते—
उदु त्यमिति। उदु त्यं चित्रं देवानामित्येतदुभयं प्रथमकाण्डस्य चतुर्थप्रपाठके व्याख्यातम्। सप्त त्वा हरित इत्येषा तूपरितनस्य प्रपाठकस्यान्त्यानुवाके समाम्नास्यमानत्वात्तत्रैव व्याख्यास्यते। तस्य यजमानस्य रोगोत्पत्तेः पुरा यदेव चक्षः पाटवोपेतमासीत्तत्पिण्डदानेन दत्तमेव भवति।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु
र्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठकेऽ-
ष्टमोऽनुवाकः ।। ८ ।।