०७

(अथ द्वितीयाष्टके तृतीयप्रपाठके सप्तमोऽनुवाकः।
दे॒वा॒सु॒राः संयत्ता॑ आस॒न्तान्दे॒वानसु॑रा अजय॒न्ते
दे॒वाः पराजिग्या॒ना असुराणां॒ वैश्य॒मुपा॑ऽऽय॒
न्तेभ्य॑ इन्द्रि॒यं वीर्य॑मपा॑क्राम॒त्तदिन्द्रोऽचाय॒-
त्तदन्वपा॑क्राम॒त्तद॑व॒रुधं॒ नाश॑क्नो॒त्तद॑स्मादभ्य॒-
र्धो॑ऽचर॒त्स प्रजाप॑ति॒मुपा॑धाव॒त्तमे॒तया॒ सर्व॑पृष्ठ
याऽयाजय॒त्तयै॒वास्मि॑न्निन्द्रि॒न्यं वी॒र्य॑मदधा॒द्य इ॑-
न्द्रि॒यका॑मः (१) वी॒र्य॑कामः॒ स्यात्त॒मेतया॒
सर्व॑पृष्ठया याजयेदे॒ता ए॒व दे॒वताः॒ स्वेन॑ भाग॒
धेये॒नोप॑ धावति॒ ता ए॒वास्मि॑न्निन्द्रि॒यं वी॒र्यं

[[1188]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(इन्द्रियसामर्थ्यशरीरसामर्थ्यकामस्येष्टिविधिः)
दधति॒ यदिन्द्रा॑य॒ राथं॑तराय नि॒र्वप॑ति यदे॒वा
ग्नेस्तेज॒स्तदे॒वाव॑ रुन्धे॒ यदिन्द्रा॑य॒ बार्ह॑ताय॒ य
दे॒वेन्द्र॑स्य तेज॒स्तदे॒वाव॑ रुन्धे॒ यदिन्द्रा॑य वैरू॒पाय॒
यदे॒व स॑वि॒तुस्तेज॒स्तत् (२) ए॒वाव॑ रुन्धे॒
यदिन्द्रा॑य वैराजाय॒ यदे॒व धा॒तुस्तेज॒स्तदे॒वाव॑
रुन्धे॒ यदिन्द्रा॑ शाव्क॒राय॒ यदे॒व म॒रुतां॒ तेज॒
स्तदे॒वाव॑ रुन्धे॒ यदिन्द्राय रै॒वताय॒ यदे॒व बृह॒-
स्पते॒स्तेज॒स्तदे॒वाव॑ रुन्ध ए॒ताव॑न्ति॒ वै तेजाँ॑ सि॒
तान्ये॒वाव॑ रुन्ध उत्ता॒नेषु॑ क॒पाले॒ष्वधि श्रय॒त्य
या॑तयामत्वाय॒ द्वाद॑शकपालः पुरो॒डाशः॑ (३)
भ॒व॒ति॒ वै॒श्व॒दे॒वताय॑ सम॒न्तं प॒र्यव॑द्यति सम॒न्त
मे॒वेन्द्रि॒यं वी॒र्यं यज॑माने दधाति व्य॒त्यास॒मन्वा॒
हानि॑र्दाहा॒याश्व॑ ऋष॒भो वृ॒ष्णिर्ब॒स्तः सा दक्षि॑णा
वृष॒त्वायै॒तयै॒व य॑जेताभिश॒स्यमा॑न ए॒ताश्चेद्वा अ॑स्य
दे॒वता॒ अन्न॑म॒दन्त्य॒दन्त्यु॑वेवास्य॑ मनु॒ष्याः॑ (४)।।
(इ॒न्द्रि॒यका॑मः सवि॒तुस्तेज॒स्तत्पु॑रो॒डाशो॒ऽष्टात्रिँ॑ शच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
तृतीयप्रपाठके सप्तमोऽनुवाकः ।। ७ ।।
(अथ द्वितीयकाण्डे तृतीयप्रपाठके सप्तमोऽनुवाकः)।
षष्ठेऽन्नादनकामस्य त्रिधातुर्यांग ईरितः।।
अथेन्द्रियसामर्थ्यं शरीरसामथ्यं च कामयमानस्येष्टिं विधातुं प्रस्तौति—

[[1189]]

प्रपा. ३ अनु. ७) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(इन्द्रियसामर्थ्यशरीरसामर्थ्यकामस्येष्टिविधिः)
देवासुरा इति। पराजिग्यानाः पराजयं प्राप्नुवन्तो देवा असुराणां संबन्धि वैश्यं प्राप्ताः विशो भावो वैश्यम्, असुरसेवकप्रजारूपत्वमित्यर्थः। तदानीं तेषां यदिन्द्रियसामर्थ्यं यच्छरीरसामर्थ्यं तदुभयं तेभ्यो देवेभ्योऽपाक्रामत्। इन्द्रस्तद्विदित्वा तत्सामर्थ्यद्वयमनु स्वयमप्यवरोद्धुमकामत्। गत्वा च तदवरोद्धुं नाशक्नोत्। तदानीमिन्द्रोऽस्मात्सामर्थ्यद्वयादभिप्राप्तार्धः सन्नचरत्। तत इतरार्धप्राप्त्यर्थं प्रजापतिमुपसेव्य सर्वपृष्ठयेष्ट्या संपूर्णं प्राप्तवान्। रथंतरबृहद्वैरूपवैराजशाक्वररैवतसाध्यानि सर्वाणि पृष्ठस्तोत्राणि तैर्युक्त इन्द्रोऽत्र देवता। तस्मादियमिष्टिः सर्वपृष्ठा। नात्र स्तोत्रपाठः प्रयोक्तव्यः, किं तु स्तोत्राभिज्ञत्वं देवताया विशेषणम्।।
इदानीं विधत्ते—
य इन्द्रियकाम इति। राथंतरादिगुणाविशिष्टाः षडिन्द्रविशेषा एता एव देवता इत्युच्यन्ते।।
तान्देवताविशेषान्विधत्ते—
यदिन्द्रायेति। पृष्ठस्तोत्रनिष्पादकं रथंतरं साम वेत्तीति राथंतरः। एवं बार्हतादिषु योज्यम्।
अग्नीन्द्रादीना रथंतरादिसामाभिमानित्वाद्राथंतरत्वादिविशेषणैस्तदीयतेजः प्राप्तिर्भवति। पूर्वोक्तत्रिधाताविव विशेषं विधत्ते—
उत्तानेष्विति। अत्र निर्वापविधिभेदात्पुरोडाशषट्कप्राप्तेस्तदपवादायैकत्वं विधत्ते—
द्वादशकपाल इति। अन्यत्र वैश्वदेवं द्वादशकपालं ग्रामकाम इत्यादि—
विधानात्कपालगतद्वादशसंख्या विश्वेषां देवानां प्रिया। अतोऽत्रापि यथोक्तगुणविशिष्टानां विश्वेषामिन्द्रादिदेवानां प्राप्तिर्भवति।
यदुक्तं सूत्रकारेण—सर्वपृष्ठां निर्वपति यदिन्द्राय राथंतरायेति यथासामाभ्नातं द्वादशसूत्तानेषु कपालेष्वधिश्रयति प्रचरणकाले पूर्वार्धात्प्रथमां देवतां यजत्येवमितराः प्रदक्षिणमुत्तरापवर्गं समन्तं पर्यवद्यति इत्युक्तम् ति)। अभि त्वा शूर नोनुम इति षड्ऋचो व्यत्यासमन्वाहेति (ह) कदा चन स्तरीरसीति चतुर्थं दधाति इति च। तत्र पूर्वार्धादित्यादिनोक्तं सर्वतोऽवदानं विधत्ते—

[[1190]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(इन्द्रियसामर्थ्यशरीरसामर्थ्यकामस्येष्टिविधिः)
समन्तमिति। चतुर्थप्रपाठकस्यान्त्यानुवाके समाम्नास्यमानाना त्वा शूर नोनुम इत्यादीनां पञ्चानामृचां चतुर्थीत्वेन प्रक्षेष्यमाणायाः चन स्तरीरसीत्यस्याश्च पूर्वोक्तत्रिधातुन्यायेनैकैकस्याःपुरोनुवाक्यात्वं याज्या विधत्ते—
व्यत्यासमिति। चोदकप्राप्तामन्वाहार्यदक्षिणां बाधितुं विधत्ते—
अश्व ऋषभ इति। अविजातौ पुमान्वृष्णिः अजजातौ पुमान्वस्तः वृषत्वाय पुस्त्वाधिक्याय। मिथ्यापवादपरिहारार्थं तामेवेष्टिं विधत्ते—
एतयैवेति। एता राथंतरेन्द्रादयो देवता अस्यान्नं पुरोडाशरूपं यद्यदन्ति तदानीं मनुष्याः सर्वथाऽप्यदन्त्येव वैदमनूच्याचार्योऽन्तेवासिनमनुशास्ति इत्यादौ शिष्यानुशासने शिष्यस्य मिथ्यापवादयुक्तेषु व्यवहारसंदेहे साति शिष्टाचारेण निर्णय आम्नातः-“यथा ते तेषु वर्तेरन्, तथा तेषु वर्तेथाः” इति। यदा मनुष्येष्वपि शिष्टानामाचारो नियामकस्तदा देवतानामाचारो नियामक इति किमु वक्तव्यमिभिप्रेत्यादन्त्येवेत्यवस्थापितम्।
अथ मीमांसा।
तृतीयाध्यायस्य पञ्चमपादे चिन्तितम्—
“रथंतरादिभिर्भिन्ना इन्द्रास्तेषां न भिद्यते।
पुरोडाशस्तत्र शेषकार्य किं भिद्यते न वा।
भिद्येत कर्मणां भेदाच्चोदकैः पृथगुक्तितः।
शेषस्य सर्वतुल्यत्वात्तत्कार्यं सकृदिष्यताम्।।”
(य) इन्द्रियकामो वीर्यकामः स्यात्तमेतया सर्वपृष्ठया याजयेदिति विहितायामिष्टौ षडिन्द्रा एवं श्रूयन्ते—“इन्द्राय राथंतरायेन्द्राय बार्हतायेन्द्राय वैराजायेन्द्राय शाव्करायेयन्द्राय रैवताय” इति। तत्र स्वरूपेणैकोऽपीन्द्रः पृष्ठस्तो त्रेषु षट्सु विहितानां षण्णां रथंतरादिसाम्नां संबन्धेन विशेष्यमाणः षोढा भिद्यते। तासां सर्वासामिन्द्रदैवतानामेक एव पुरोडाशो विधीयते—“द्वादशकपालः पुरोडाशो भवति वैश्वदेवत्वाय” इति। तस्मिन्पुरोडाश उक्तदेवताभ्यः पृथक्प्रदानाय बहुभ्यः प्रदेशेभ्योऽवदानं श्रूयते “समन्तं पर्यवद्यति” इति। तत्र देवता—

[[1191]]

प्रपा. ३ अनु. ८) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(चक्षुष्कामस्येष्टिविधिः)
प्रदेन प्रदानभेदेन च कर्मणां भेदे सति चोदकैः पृथगतिदेशात्स्विष्टकृदिडादि शेषकार्यं षट्कृत्वः पृथक्कर्तव्यमिति चेन्मैवम्। शेषस्यैकत्वेन तत्प्रतिपत्तेः पृथक्त्वासंभवात् तस्मात्सकृदेव कार्यम्।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके
सप्तमोऽनुवाकः ।। ७ ।।