०६

(अथ द्वितीयाष्टके तृतीयप्रपाठके षष्ठोऽनुवाकः)।
प्र॒जाप॑तिर्दे॒वेभ्यो॒ऽन्नाद्यं॒ व्यादि॑श॒त्सो॑ऽब्रवी॒द्य-
दि॒माल्ँ लो॒कान॒भ्य॑ति॒रिच्या॑तै॒ तन्ममा॑स॒दिति॒
तदि॒माल्लोँकान॒भ्यत्य॑रिच्य॒तेन्द्रँ॒ राजा॑न॒मिन्द्र॑
मधिरा॒जामिन्द्रँ॑ स्व॒राजानं॒ ततो॒ वै

[[1185]]

प्रपा. ३ अनु. ६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अन्नादनशक्तिकामस्येष्टिविधिः)
इ॒माल्लाँ॒कोँ स्त्रे॒धाऽदु॑हत्तत्त्रि॒धातो॑स्त्रिधातु॒त्वं
यं का॒मये॑तान्ना॒दः स्या॒दिति॒ तस्मा॑ ए॒तं
त्रि॒धातुं॒ निर्व॑पे॒दिन्द्राय॒ राज्ञे॑ पुरो॒डाश॑म् (१)
एका॑दशकपाल॒मिन्द्रा॑याधिरा॒जायेन्द्रा॑य स्व॒-
राज्ञेऽयं॒ वा इन्द्रो॒ राजा॒ऽयामिन्द्रो॑ऽधिरा॒जो॑ऽ-
साविन्द्रः॑ स्व॒राडि॒माने॒व लो॒कन्त्स्वेन॑ भा-
ग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒ प्र
य॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ यथा॑ व॒त्सेन॒
प्रत्तां॒ गां दुह॒ ए॒वमे॒वे माल्ँ लोकान्प्रत्ता॒न्का-
म॑म॒न्नाद्यं॑ दुह उत्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒-
त्यया॑तयामत्वाय॒ त्रयः॑ पुरो॒डाशा॑ भवन्ति॒
त्रय॑ इ॒मे लो॒का ए॒षां लो॒काना॒माप्त्या॒ उ-
त्त॑रउत्तरो॒ ज्याया॑न् भवत्ये॒वामि॑व॒ हीमे
लो॒काः समृ॑द्ध्यै॒ सर्वेषामभिग॒मय॒न्नव॑ द्य
त्यच्छ॑म्बट्कारं व्यत्यास॒मन्वा॒हानि॑र्दाहाय
(२)।।
(पुरोडाशं त्रयः षड्विँ॑शतिश्च)
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
तृतीयप्रपाठके पष्ठोऽनुवाकः ।। ६ ।।

(अथ द्वितीयकाण्डे तृतीयप्रपाठके षष्ठोऽनुवाकः)।
इष्टिर्यक्ष्मगृहीतस्य पञ्चमे समुदीरिता।
षष्ठे त्वन्नादनशक्तिकामस्येष्टिं विधातुं प्रस्तौति—

[[1186]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(अन्नादनशक्तिकामस्येष्टिविधिः)
प्रजापतिरिति।
प्रजापतिरत्तुं योग्यमन्नं देवेभ्यो विभज्य तवेदं तवेदमित्यादिशत्। तस्मादन्नं स्वीकर्तुं प्रवृत्तान्देवान्प्रत्येवमब्रवीद्यदन्नमिमाल्ँ लोकानभिव्याप्यातिरिक्तं भवति तन्ममास्त्विति। तद्वक्ष्यमाणमन्नमिमाल्ँ लोकानभिव्याप्यातिरिक्तमासीत्। क इमे लोका इत्युच्यन्ते-इन्द्रराजादिशब्दाभिधेया एवेमे लोका इन्द्रराजादीनां पृथिव्यादिलोकत्रयपालकत्वात्। एवमुक्त्वा स प्रजापतिरिन्द्रराजादील्लोँकांस्त्रेघाऽदुहत्। तेभ्यो लोकेभ्यस्त्रिविधं सारं गृहीतवानित्यर्थः। तदिदं सारं प्रजापतिः स्वप्रियत्वेन स्वीकृतवाल्लोँकातिरिक्तमन्नम्। यस्मात्वेधा दोहनमकरोत्तस्मात्त्रिधातुनाम्नो यागस्य विधातुत्वं संपन्नम्। लोकेभ्यो दुग्धास्त्रयो धातवो भागा यास्मिन्यागे स यागस्त्रिधातुः।।
अथ विधत्ते—
यं कामयेतेति।
यं यजमानमुद्दिश्याध्वर्युः कामयेतायं यजमानोऽन्नादः स्यदिति तस्मै यजमानायेयमिष्टिः। अथं भूलोकाधिपतिरिन्द्रो राजा। अयमन्तरिक्षाधिपतिरिन्दोऽधिराजः। असौ स्वर्गलोकाधिपतिरिन्द्रः स्वराट्। इमानेव लोकाल्लोँकाधिपतीनिन्द्रराजादीन्स्वेन भागधेयेन सेवते। यथा लोके वत्सेन वत्सचोषणेन प्रत्तां प्रस्नवनं प्रापितां गां जनो दोग्धि, एवमेवेमाल्ँ लोकान्प्रत्तान्देवैरभिवर्धितान्प्राप्यस्वाभीष्टमन्नाद्यं लभते।।
अत्र यदुक्तं सूत्रकारेण – “अथैनं त्रिधातुमेकादशसूत्तानेषु कपालेष्वधिश्रयति प्रथमं पुरोडाशमधिश्रित्य परिदपनान्तं कृत्वा तस्मिन्नुपरि द्वितीयं ज्यायांसमधिश्रित्य तावदन्तमेव कृत्वा तस्पिन्नुत्तरं ज्यायांसवधिश्रयति प्रचरणकाले दक्षिणार्धात्प्रथमां देवतां यजेन्मध्याद्द्वितीयामुत्तर्धांत्तृतीयां सर्वेषामभिगमयन्नवद्यति” इत्युक्तम् (ति)। “प्राच्यां दिशि त्वमिग्द्रेति तिस्र ऋचो व्यत्यासमन्वाह प्रथमामनूच्य मध्यमया यजेन्मध्यमामनूच्योत्तमया यजेदुत्तमामनूच्य प्रथमया यजेदेवं सर्वा याज्याः पुरोनुवाक्याश्च भवन्ति” इति (च)। तत्राधिश्रयणं विधत्ते—
उत्तानेष्विति। प्रकृतावधोमुखानां कपालानामुपरि पुरोडाशावधिश्रयति। अत्रापि तथात्वे यातयामत्वं गतसारत्वं तत्परिहारायोत्तानत्वम्। पुरोडाशसंख्यां प्रशंसति।

[[1187]]

प्रपा. ३ अनु. ७) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
त्रयः पुरोडाशा इति। ज्यायस्त्वं विधत्ते–
उत्तरउत्तर इति। भूलोकादन्तरिक्षं ज्यायस्तस्मादपि स्वर्गो ज्यायान्। ऊर्ध्वाधोभावेन स्थितानां सर्वेप्षां पुरोडाशानामंशमभिलक्ष्य यथा युगपदेव हस्तप्राप्तिर्भवति तथाऽवदानं विधत्ते—
सर्वेषामिति। छम्बट्कारो वैयर्थ्यम्। एकस्यापि पुरोडाशस्य यथा वैयर्थ्यं न भवति तथेत्यर्थः। याज्यानुवाक्यासु विपर्यासं विधत्ते—
व्यत्यासमिति। अविनाशायेत्यर्थः। व्यत्यासाभावे ह्यृचां त्रित्वाद्धवींषि विनश्येरन्नेकैकस्य हविषः पृथग्याज्यानुवाक्योः संपादयितुमशक्यत्वात्। सूत्रोक्तप्रकारेण तु व्यात्यासेन षडृचः संपद्यन्त इति नास्ति हविर्नाशः।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्ण-
यजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके
षष्ठोऽनुवाकः ।। ६ ।।