०५

(अथ द्वितीयाष्टके तृतीयप्रपाठके पञ्चमोऽनुवाकः)।
प्र॒जाप॑ते॒स्त्रय॑स्त्रिँशद्‍दुहि॒तर॑ आस॒न्ता सो-
मा॑य॒ राज्ञे॑ऽददा॒त्तासाँ रोहि॒णीमुपै॒त्ता ईर्ष्य॑न्तीः॒
पुन॑रगच्छ॒न्ता अन्वै॒त्ताः पुनर॑याचत॒ ता
अ॑स्मै॒ न पुन॑रददा॒त्सो॑ऽब्रवीदृ॒तम॑मीष्व॒ यथा॑
समाव॒च्छ उ॑पै॒ष्याम्यथ॑ ते॒ पुन॑र्दास्या॒मीति॒
स ऋ॒तमा॑मी॒ता अ॑स्मै॒ पुन॑रददा॒त्तासाँ॑
रोहि॒णीमे॒वोप॑ (१) ऐ॒त्तं यक्ष्म॑ आर्छ॒द्रा-
जा॑नं॒ यक्ष्म॑ आर॒दिति॒ तद्रा॑जय॒क्ष्मस्य॒ जन्म॒
यत्पापी॑या॒नभ॒वत्तत्पा॑पय॒क्ष्मस्य॒ यज्जा॒या-
भ्योऽविन्द॒त्तज्जा॒येन्य॑स्य॒ य ए॒वमे॒तेषां॒ य-
क्ष्मा॑णां॒ जन्म॒ वेद॒ नैन॑मे॒ते यक्ष्मा॑ विन्दन्ति॒
स ए॒ता ए॒व न॑म॒स्यन्नुपा॑धावत्ता॒ अ॑ब्रुव॒न्वरं॑
वृणामहै समाव॒च्छ ए॒व न॒ उपा॑य इति॒ त
स्मा॑ ए॒तम् (२) आ॒दि॒त्यं च॒रुं निर॑वप॒न्ते
नै॒वैनं॑ पा॒पात्स्रामा॑दमञ्च॒न्य पा॑पय॒क्ष्मगृ॑हीतः॒

[[1183]]

प्रपा. ३ अनु. ५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजयक्ष्मगृहीतस्येष्टिविधिः)
स्यात्तस्या॑ ए॒तमा॑दि॒त्यं च॒रुं नि॑र्वपेदादि॒त्या
ने॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त एवैनं॑ पा॒-
पात्स्रामा॑न्मुञ्चन्त्यमावा॒स्या॑यां॒ निर्व॑पेद॒मुमे॒वै-
न॑मा॒प्याय॑मान॒मन्वा प्या॑ययति॒ नवो॑नवो भवति॒
जाय॑मान॒ इति॑ पुरोनुवा॒क्या॑ भव॒त्यायु॑रे॒वा
स्मि॒न्तया॑ दधाति॒ यमा॑दि॒त्या अँ॒ शुमा॑
प्याय॒यन्तीति॑ याज्यैवैन॒मेतया॑ प्याययति(३) ।।
(एवोपैतम॑स्मिन्त्रयो॑दश च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
तृतीयप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।
(अथ द्वितीयकाण्डे तृतीयपाठके पञ्चमोनुऽवाकः।)
स्वर्मकामो दानकामः सभां गन्तुं य इच्छति।
राजन्यो ब्राह्मणश्च द्वौ यौ स्यातामानुजावरौ।।
तुर्येनुवाक एतेषामाम्नाता इष्टयः क्रमात् ।। १ ।।
पञ्चमे राजयक्ष्मगृहीतस्येष्टिं विधातुं प्रस्तौति—
प्रजापतेरिति। अम्बा दुला नितत्निरभ्रयन्ती मेघयन्ती वर्षयन्ती चुषुणीका इत्येवमाम्नाताः सप्त कृत्तिकाः। अवशिष्टा अश्विन्यादयः षड्विंशतिता (स्ता) रकाः। ता एतास्त्रयस्त्रिंशत्। तत्र रोहिणीव्यक्तिरिका ईर्ष्यन्तीस्तदीयं सुखमसहमानाः पुनः प्रजापतिमगच्छन्। सोमस्ता अनुगम्य प्रजापतिं याचितवान्। स प्रजापतिरेवमब्रवीच्छपथं प्रतिपद्यस्व तद्यथा समावच्छः साम्येन ता उपैष्यामिति ततस्ताः पुनर्दास्यामीति। स च सोमः शपथं कृत्वा ताः स्वीकृत्य शपथमुल्लङ्घ्य पूर्ववद्रोहिणीमेवोपैत। ततः स यक्ष्मव्याधिगृहीतोऽभूत्। ततो

[[1184]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(अन्नादनशक्तिकामस्येष्टिविधिः)
राजानं यक्ष्मः प्राप्तवानीति व्युत्पत्ता राजयक्ष्मनाम्नो व्याधेर्जन्म संपन्नम्। य स्माज्जायाभ्यो विमित्तभूताभ्यो व्याधिमलभत तस्माज्जायेन्यनामकस्य व्याधेर्जन्म संपन्नम्। त एते त्रयो यक्ष्मव्याधेरवान्तरविशेषाः, सज्जन्मवेदिनो व्याधेरलाभः फलम्। तत सोमेन नमस्कृताः सेविताश्चैताः सर्वाः साम्येनोपगमनं वरं वृत्वा व्याधिपरिहाराय चरुं निरुप्य सोमं तस्मात्पापात्स्रामात्प्रबलाद्रोगादमोचयत्। इदानीं विधत्ते—
यः पापयक्ष्मेति। आदित्यानित्यर्थवादे श्रवणादस्य चरोरदितिदेवता न भवति। पौर्णमासीं वारयितुं विधत्ते—
अमावास्यायामिति। अमावास्यायामतीतायां शुक्लप्रतिपदमारभ्य सोमस्य कलावृद्ध्याऽऽप्यायनं भवति।
चतुर्थप्रपाठकस्यान्त्यानुवाके समाम्नास्यमाने ऋचौ विधत्ते—
नवोनव इति। ते एते ऋचो तत्रैव व्याख्यास्येये। प्रथमायामृच्यन्ते दीर्घमायुस्तिरतीत्युक्तत्वात्तत्पाठेनाऽऽयुष्प्राप्तिः। अमावास्यायामादित्ये प्रविष्टानां चन्द्रकलानां पुनरादित्यादेव चन्द्रेण लब्धत्वाच्चन्द्रोत्कर्ष आदित्यस्यैवोत्कर्ष इति कृत्वा तस्या ऋच आदित्यचराववैयधिकरण्यम्। द्वितीयस्यामृच्याप्याययतीति श्रवणात्तयर्चा यजमानस्याऽऽप्यायनं युक्तम्।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णय-
जुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके
पञ्चमोऽनुवाकः ।। ५ ।।