(अथ द्वितीयाष्टके तृतीयप्रपाठके चतुर्थोऽनुवाकः)।
अ॒र्य॒म्णे च॒रुं निर्व॑पेत्सुव॒र्गका॑मो॒ऽसौ वा आ॑
दि॒त्यो॑ऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ स ए॒वैनँ सुव॒र्गं लोकं॒ ग॑मयत्यर्यम्णे
च॒रुं निर्व॑पे॒द्यः का॒मये॑त॒ दान॑कामा मे प्र॒जाः
स्यु॒रित्य॒सौ वा आ॑दि॒त्यो॑ऽर्य॒मा यः खलु॒ वै
ददा॑ति॒ सो॑ऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भा॒गधे॒ये-
नोप॑ धावति॒ स ए॒व (१) अ॒स्मै॒ दान॑का-
माः प्र॒जाः क॑रोति॒ दान॑कामा अस्मै प्र॒जा
[[1180]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(स्वर्गकामादीष्टिविधिः)
भ॑वन्त्यर्य॒म्णे च॒रुं निर्व॑पेद्यः का॒मये॑त स्व॒स्ति
ज॒नता॑मिया॒मित्य॒सौ वा आ॑दि॒त्यो॑ऽर्य॒माऽर्य॒-
मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒
तद्ग॑मयति॒ यत्र॒ जिग॑मिष॒तीन्द्रो॒ वै दे॒वाना॑
मानजाव॒र आ॑सी॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्त
स्मा॑ ए॒तमैन्द्र॒मा॑नुषूक॒मेका॑दशकपालं॒ निः
(२) अ॒व॒प॒त्तेनै॒वैन॒मग्रं॑ दे॒वता॑नां॒ पर्य॑णयदबु-
ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ अकरोद्-
बु॒ध्नादे॒वैन॒मग्रं॒ पर्य॑णय॒द्यो रा॑ज॒न्य॑ आनु-
जाव॒रः स्यात्तस्मा॑ ए॒तमै॒न्द्रमा॑नुषू॒कमेका॑दश-
कपालं॒ निर्व॑पेदि॒न्द्र॑मे॒व स्वेन॑भाग॒धेये॒नोप॑ धा-
वति॒ स ए॒वैन॒मग्रँ॑ समा॒नानां॒ परि॑ णयति
बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒-
ध्नादे॒वैन॒मग्र॑म् (३) परि॑ णयत्यानुषू॒को
भ॑वत्ये॒षा ह्ये॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒रः स
मृ॑द्ध्यै॒ यो ब्रा॑ह्म॒ण आ॑नुजाव॒रः स्यात्तस्मा॑
ए॒तं बा॑र्हस्प॒त्यमा॑नु॒षूकं च॒रुं निर्व॑पे॒द्बृह॒स्प
ति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒-
मग्रँ॑ समा॒नानां॒ परि॑ णयति बु॒ध्नव॑ती अग्र॑-
वती याज्यानुवा॒क्ये॑ भवतो बु॒ध्नादे॒वैन॒मग्रं॒ परि॑-
णयत्यानुषू॒को भ॑वत्ये॒षा ह्ये॑तस्य॑ दे॒वता॒ य
आ॑नुजाव॒रः समृ॑द्ध्यै (४)।
(ए॒व निरग्र॑मेतस्य॒ चत्वा॒रि॑ च)।।
[[1181]]
प्रपा. ३ अनु. ४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(स्वर्गकामादीष्टिविधिः)
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
तृतीयप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।
(अथ द्वितीयकाण्डे तृतीयप्रपाठके चतुर्थोऽनुवाकः)।
तृतीये यज्ञविभ्रष्टो यः कामं प्राप्तुमिच्छति।
ब्रह्मवर्चसकामो यः क्लीबत्वाद्यो बिभेति च ।। १ ।।
ग्रामकामो ब्राह्मणो यो विशः स्थापनमिच्छति।
एतेषामिष्टयः प्रोक्तास्तत्तत्फलसमाप्तये ।। २ ।।
अथ चतुर्थे स्वर्गकामादीनामिष्टयो विधातव्याः।
तत्र स्वर्गार्थिन इष्टिं विधत्ते—
अर्यम्णे चरुमिति। प्रतिग्रहार्थिनस्तामेवेष्टिं विधत्ते—
अर्यम्णे चरुमिति। लोके यः कोऽपि द्रव्यं ददाति सोऽयं ददाति सोऽयं सूर्यवत्कीर्त्या भासमानत्वादर्यमेत्युपचर्यते। तं प्रेरयितुं मुख्यायार्यम्णे चरुर्युक्तः। सभां जिगमिषोरिष्टिं विधत्ते—
अर्यम्णे चरुमिति। स्वस्ति निर्विघ्नेन, जनतां जनसमूहम्।
य समानांना मध्ये श्रैष्ठ्यमलभमानस्तदीयानुजाववरो निकृष्टो वर्तते तस्य श्रैष्ठप्राप्त्यर्थमिष्टिं विधातुं प्रस्तौति—
इन्द्रो वै देवानामिति। अनु पश्चाज्जातो भ्राताऽनुजस्तस्मादप्यवरोऽनुजावरस्तद्वद्वर्तमान आनुजावरः। अत्यन्तनिकृष्ट इत्यर्थः। ब्रीहिस्तम्बेषु लूनेष्ववशिष्टमूलेभ्योऽनुसूयन्ते पश्चादुत्पद्यन्त इति द्वितीयाफलरूपा ब्रीहयोऽनुषूकाः, तेभ्यो निष्पन्नमानुषूकम्। तेन हविषा प्रजापतिर्दवतानां मध्य इदं श्रैष्ठ्यं प्रापितवान्। बुध्नशब्दोऽस्ति ययोऋचोस्ते बुध्नवत्यौ। अग्रशब्दोऽस्ति ययोऋचोस्ते अग्रवत्यौ। बुध्नादग्रं बुध्नादग्रेणेत्येते अन्त्यानुवाके समाम्नास्यमाने। बुध्नान्मूलादारभ्याग्रमवसानं प्रापयत्। कर्मानुष्ठानकालमारभ्य यावज्जीवं श्रैष्ठयं प्रापितवानित्यर्थः। अथ विधत्ते—
यो राजन्य इति। य आनुषूक आनुजावर एतस्येयमानुषूकधान्यभागिन्येव
[[1182]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(राजयक्ष्मगृहतिस्योष्टिविधिः)
देवता युक्ता। सदृशत्वात्। तस्मादानुषूकपुरोडाशः समृद्ध्यै संपद्यते। आनुजावरब्राह्मणस्येष्टिं विधत्ते—
यो ब्राह्मण इति। अत्र प्र यो जज्ञे महान्मही, इति द्वे याज्यानुवाक्ये स बुध्नादाष्ट अनुषाऽभ्यग्रमिति बुध्नाग्रशब्दयोस्तत्र विद्यमानत्वात्।।
इति श्रीमत्सायणाचार्यविरचिते माघवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके
चतुर्थोऽनुवाकः ।। ४ ।।