(अथ द्वितीयाष्टके तृतीयप्रपाठके तृतीयोऽनुवाकः।
दे॒वा वै स॒त्रमा॑स॒तर्द्धिपरिमितं॒ यश॑स्का
मा॒स्तेषाँ॒ सोमँ॒ राजा॑नं॒ यश॑ आर्छ॒त्स गि॒-
रिमुदै॒त्तम॒ग्नि॑रनूदै॒त्ताव॒ग्नीषोमौ॒ सम॑भयतां॒
ताविन्द्रो॑ य॒ज्ञवि॑भ्र॒ष्टोऽनु॒ परै॒त्ताव॑ब्रवीद्या॒जम॑तं॒
मेति॒ तस्मा॑ एतामिष्टिं॒ निर॑वपतामाग्ने॒यम-
ष्टाक॑पालमै॒न्द्रमेका॑दशकपालँ सौ॒म्यं च॒रुं
तयै॒वास्मि॒न्तेजः॑ (९) इ॒न्द्रि॒यं ब्र॑ह्मवर्च॒-
सम॑धत्तां॒ यो य॒ज्ञवि॑भ्रष्टः॒ स्यात्तस्मा॑ ए॒तामि
ष्टिं॒ निर्व॑पेदाग्ने॒यम॒ष्टाक॑पालमै॒न्द्रमेका॑दश
कपालँ सौ॒म्यं च॒रुं यदा॑ग्ने॒यो भव॑ति॒
तेज॑ ए॒वास्मि॒न्तेन॑ दधाति॒ यदै॒न्द्रो भव॑ती
न्द्रि॒यमे॒वास्मि॒न्तेन॑ दधाति॒ यत्सौ॒म्यो ब्र॑ह्म
वर्च॒सं ते॑नाऽऽग्ने॒यस्य॑ च सौ॒म्यस्य॑ चै॒न्द्र
स॒माश्ले॑षये॒त्तेजश्चै॒वास्मि॑न्ब्रह्मवर्च॒सं च॑ स॒
मीची॑ (२) द॒धा॒त्य॒ग्नी॒षो॒मीय॒मेका॑
दशकपालं॒ निर्व॑पेद्यं का॒मो॒ नोप॒नमे॑दा-
[[1176]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(यज्ञविभ्रष्टादीनामिष्टिविधिः)
ग्ने॒यो वै ब्रा॑ह्म॒णः स सोमं॑ पिबति॒ स्वामे॒व
दे॒वताँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवेनं॒
कामे॑न॒ सम॑र्धय॒त्युपै॑नं॒ कामो॑ नमत्यग्नीषो॒मी-
य॑म॒ष्टाक॑पालं॒ निर्व॑पेदब्रह्मव॒र्चसका॑मो॒ऽग्नी
षोमा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे
वास्मि॑न्ब्रह्मवर्च॒सं ध॑त्तो ब्रह्मवर्च॒स्ये॑व (३)
भ॒व॒ति॒ यद॒ष्टाक॑पाल॒स्तेना॑ऽऽग्ने॒यो यच्छ्या॑
मा॒कस्तेन॑ सौ॒म्यः समृ॑द्ध्यै॒ सोमा॑य वा॒-
जिने॑ श्यामा॒कं च॒रुं निर्व॑पे॒द्यः क्लैव्या॑
द्बिभीयाद्रेतो॒ हि वा ए॒तस्मा॒द्वाजि॑नप॒क्रा-
म॒त्यथै॒ष क्लैव्या॑द्बिभाय॒ सोम॑मे॒व वा॒जि॑नँ॒
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न्रेतो॒
वाजि॑नं दधाति॒ न क्ली॒वो भ॑वति ब्राह्मणस्प॒
त्यमेका॑दशकपालं॒ निर्व॒पेद्ग्राम॑कामः (४)
ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मै॑ सजा॒तान्प्रय॑च्छति ग्रा॒म्ये॑व भ॑व-
ति ग॒णव॑ती याज्यानुवा॒क्ये भवतः सजा॒तै
रे॒वैनं॑ ग॒णव॑न्तं करोत्ये॒तामे॒व निर्व॑पेद्यः
का॒मये॑त॒ ब्रह्मन्विशं॒ वि ना॑शयेया॒मिति॑ मारु॒ती
या॑ज्यानु॒वाक्ये॑ कुर्या॒द्ब्रह्म॑न्ने॒व वि॒शं वि
ना॑शयति (५)।
(तजः स॒मीची॑ ब्रह्मवर्च॒स्येव॑ ग्राम॑काम॒स्त्रिच॑त्वारिँशच्च)।
[[1177]]
प्रपा.३ अनु. ३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(यज्ञविभ्रष्टादीनामिष्टिविधिः)
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
तृतीयप्रपाठके तृतीयोऽनुवाकः ।। ३ ।।
(अथ द्वितीयकाण्डे तृतीयः प्रपाठकः)।
(तत्र प्रथमादितृतीयान्ता अनुवाकः)।
यस्य निःश्वासितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।। १ ।।
काम्येष्टयः श्रुताः काश्चिदद्वितीये तु प्रपाठके।
तृतीये तु विधास्यन्ते तत्तत्फलमभीप्सिनः ।। २ ।।
काम्येष्टित्वे समानेऽपि संप्रदायकृतां भिदा।
प्रपाठकद्वयस्मैवं चतुर्थस्यापि गम्यताम् ।। ३ ।।
चतुर्दशानुवाकाः स्युस्तृतीयेऽस्मिन्प्रपाठके।
तदर्थास्तु क्रमेणेह वक्ष्यन्तेऽवसरे सति ।। ४ ।।
भूतिकामो भुवद्वद्भ्य आदित्येभ्यश्चरुं चरेत्।
रूद्धोऽवरुध्यमानो वा धारयद्वद्भ्य आचरेत् ।। ५ ।।
शुक्लैर्ब्रीहिभिरादित्यं चरुं कृष्णैस्तु वारुणम्।
रुध्यमानः प्रकुवीत मयूखानां च कीर्तनम् ।। ६ ।।
तदबन्धनं तथादित्यं चरुमेव समाचरेत्।
आद्यानुवाके कथितमेतत्सर्वं विशेषतः ।। ७ ।।
इन्द्रं वो विश्व इत्यात्राक्षरार्थस्तूपवर्णितः।
मृत्योर्भीतो ह्यायुरर्थे निर्वपेच्छतकृष्णलाम् ।। ८ ।।
ब्रह्मवर्चसकामो यः स सौर्यं चरुमाचरेत।
हिरण्यकामः कुर्वीत ह्याग्नेयादिहविस्त्रयम् ।। ९ ।।
हिण्यलाभे तन्नाशेऽप्येतदेव समाचरेत्।
सोमवामी तु सोमेन्द्रं चरुं श्यामाकतश्चरेत् ।। १० ।।
[[1178]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(यज्ञविभ्रष्टादीनामिष्टिविधिः)
पश्वर्थं ह्यग्नये दात्र इत्यादित्रमाचरेत्।
अनुवाके द्वितीयेऽर्थां एतावन्त उदीरिताः।।
हिरण्यगर्भ इत्यत्राक्षरार्थ स्पष्टमीरितः ।। ११ ।।
अथ तृतीयेनुवाके यज्ञविभ्रष्टादीनामिष्टयो विधातव्याः। तत्राऽऽदौ यज्ञविभ्रष्टेष्टिविधानाय प्रस्तौति—
देवा वै सत्रमिति। ऋद्ध्या काम्यमानेन यशोलक्षणेन फलेन परिमितं सत्रमनुष्ठितवन्तः। सन्ति सहस्रं सत्राणि तेषु येन यशः सिध्यति तदन्वतिष्ठन्। तेषां देवानां मध्ये फलीभूतं यशः सोमं प्राप्नोत्। स च सोमोऽन्येषां यशो मा भूदिति मन्वानस्तेन यशसा सह गिरिं कंचिद्दुर्गं पर्वतमारोहत्। अग्निश्च सहसा तस्य पृष्ठत एवाऽऽरोहत्। तौ द्वावग्नीषोमौ परस्परमैकमत्यं गतौ। ततस्तावुभावनु फलरहित इन्द्रश्चिरकालेन गत्वा मां फलाय योजयतमिति अयोचत्। तौ च तस्मै त्रिहविष्कामिष्टिं निरवपताम्। तैस्त्रिभिर्हविर्भिस्तेजआदिकं त्रयं लब्धम्।
अथ विधत्ते—
यो यज्ञविभ्रष्ट इति। इष्टिपशुसोमानां स्वस्वकालेष्वननुष्ठांन भ्रेषस्तं भ्रेषं प्राप्तस्येयमिष्टिः। अत्रैव कंचिद्विशेषं विधत्ते—
आग्नेयस्येति। तेन समाश्लेषणेनास्मिन्यजमान आज्ञाशक्तिः श्रुताध्ययनसंपत्तिश्चेत्येते संपूर्णे स्थापयति। कमितार्थसिद्ध्यर्थमिष्ट्यन्तरं विधत्ते—
अग्निषोमीयमिति। अग्निना सह मुखे जातत्वात्सोमपातृत्वाच्च तदुभयं ब्राह्मणस्य देवता। ब्रह्मवर्चसार्थं श्यामाकपुरोडाशं विधत्ते—
अग्नीषोमीयमिति। कपालगतयाऽष्टसंख्यया गायत्रीस्मरणात्तदद्वारेण हविष आग्नेयत्वम्। “अष्टाक्षरा गायत्री गायत्रोऽग्निः” इति श्रुत्यन्तरात्। तथा “सोमो वा अकृष्टपच्चस्य राजा” इत्यादिश्रुतेः श्यामाकधान्येन हविषः सोम्यत्वम्। अनेनैवार्थवादेन विधिवाक्ये पुरोडाशस्य श्यामाकमयत्वमुन्नेयम्।
क्लीबत्वपरिहारायेष्टिं विधत्ते—
सोमायेति। प्रजननत्तमर्थोऽन्नरसो वाजस्तद्वते वाजिने। यदा वाजिनं प्रजननसमर्थान्नरसरूपं रेतोऽस्मात्पुरुषादपक्रामति रोगेणादृष्टविशेषेण वा तत्सामर्थ्यं प्रतिबध्यते तदानीमस्य क्लीबत्वं संपद्यते तस्मात्क्लीबत्वाद्विभाव बिभेति।
[[1179]]
प्रपा. ३ अनु. ४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(स्वर्गकामादीष्टिविधिः)
इष्ट्यन्तरं विधत्ते—
ब्राह्मणस्पत्यमिति। अत्र गणानां त्वा, स इज्जनेनेत्येते ऋचावन्त्यानुवाके समाम्ना स्थमाने विधत्ते—
गणवतीति। गणशब्दो ययोऋचोरस्ति ते गणवत्यौ।
यदा वैश्यजातिर्धनिकत्वगर्वेण ब्राह्मणमतिक्रामति तदा तस्मिब्राह्मणे तां जातिं वश्यां कर्तुं तामेवेष्टिं विधत्ते—
एतामेवेति। ब्रह्मन्ब्राह्मणे विनाशयेयं गर्वविनाशनेनाऽऽत्मसात्कुर्याम्। मरुतो यद्ध वो दिवो या वः शर्मेत्येते ऋचो वैश्वानरो न ऊत्येस्मिन्ननुवाके समाम्राते अत्रापि प्रतीकेन ग्रहीष्येते। तदुभयमत्र विधत्ते—
मारुतीति मरुतां संबन्धिन्यौ मारुत्यौ। मरुतो वै देवानां विश इति श्रुतेस्तदनुग्रहेण मानुषीं विशमधीनां करोति।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-
र्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके
प्रथमादितृतीयान्ता अनुवाकाः ।। ३ ।।