०२

(अथ द्वितीयाष्टके द्वितीयप्रपाठके द्वितीयोऽनुवाकः)।
दे॒वा वै मृ॒त्योर॑बिभयु॒स्ते प्र॒जाप॑ति॒मुपा॑धा
व॒न्तेभ्य॑ ए॒तां प्रा॑जाप॒त्याँ शतकृ॑ष्णलां॒ निर॑व
पत्तयैवैष्वमृत॑मदधाद्यो मृत्योर्बि॑भीयात्तस्मा॑
ए॒तां प्रा॑जाप॒त्याँ श॒तकृ॑ष्णलां॒ निव॑पेत्प्र॒जाप॑-
तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒
न्नायु॑र्दधाति॒ सर्व॒मायु॑रेति श॒तकृ॑ष्णला भवति
श॒तायुः॒ पुरु॑षः श॒तेम्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये
(१) प्रति॑ तिष्ठति घृ॒ते भव॒त्यायु॒र्वै घृ॒तम॒-
मृ॒तँ हिर॑ण्य॒मायु॑श्चै॒वास्मा॑ अ॒मृतं॑ च स॒-
मीची॑ दधाति च॒त्वारि॑चत्वा॑रि कृ॒ष्णला॒न्यव॑
द्यति चतुर॒वत्तस्याऽऽप्त्या॑ एक॒धा ब्र॒ह्मण॒
उप॑हरत्येक॒धैव यज॑मान॒ आयु॑र्दधात्य॒सा
वा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चि-
त्तिमैच्छ॒न्तस्मा॑ ए॒तँ सौ॒र्यं च॒रुं नि॑रवपन्ते-
नैवास्मि॑न् (२) रुच॑मदधुर्यो॑ ब्र॑ह्मवर्च॒-
सका॑मः॒ स्यात्तस्मा॑ ए॒तँ सौ॒र्यं च॒रुं निर्व॑-
पेद॒मुमे॒वाऽऽदि॒त्यँ स्वेन॑ भाग॒धेये॒नोप॑ धाव-
ति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति ब्रह्मव-
र्च॒स्ये॑व भ॑वत्युभ॒यतो॑ रु॒क्मौ भ॑वत उभ॒यत॑
ए॒वास्मि॒न्‍रुचं॑ दधाति प्रया॒जेप्र॑याजे कृ॒ष्णलं॑
जुहोति दि॒ग्भ्य ए॒वास्मै॑ ब्रह्मवर्च॒समव॑ रुन्ध

[[1173]]

प्रपा. ३ अनु. २) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(मृत्युभीतादीनां शतकृष्णलादीष्टिविधिः)
आग्ने॒यम॒ष्टाक॑पालं॒ निर्वपेत्सावि॒त्रं द्वाद॑शक
पालं॒ भूम्यै॑ (३) च॒रुंत्य का॒मये॑त॒ हिरण्यं
विन्दे॒य हिर॑ण्यं॒ मोप॑ नमे॒दिति॒ यदा॑ग्ने॒यो भव॑-
त्याग्ने॒यं वै हि॑रण्यं॒ यस्यैव हिर॑ण्यं॒ तेनै॒वैन॑-
द्विन्दते॒ भूम्यै॑ च॒रुभ॑वित्य॒स्यामे॒वैन॑द्विन्दत॒ उ-
पै॑नँ॒ हिर॑ण्यं नमति॒ वि वा एष॒ इ॑न्द्रि॒येण॑
वी॒र्येणर्ध्य॒ते यो हिर॑ण्यं वि॒न्दत॑ ए॒ताम् (४)
ए॒व निर्व॑पे॒द्धिर॑ण्यं वि॒त्त्वा नेन्द्रि॒येण॑ वी॒र्ये॑ण॒
व्यृ॑ध्यत ए॒तामेव॒ निर्वपे॒द्यस्य॒ हिर॑ण्यं न॒श्येद्य-
दा॑ग्ने॒यो भव॑त्याग्ने॒यं वै हिरण्यं॒ यस्यै॒व हि-
र॑ण्यं ते॒नैवैन॑द्विन्दति सावि॒त्रो भ॑वति
सवि॒तृप्र॑सूत ए॒वैन॑द्विन्दति॒ भूम्यै॑
च॒रुभ॑वत्य॒स्यां वा ए॒तन्न॑श्यति॒ यन्नश्य॑त्य॒-
स्यामे॒वैन॑द्विन्द॒तीन्द्रः॑ (५) त्वष्टुः॒ सोम॑म-
भी॒षहा॑ऽपिब॒त्स विष्व॒ङ्व्या॑र्छ॒त्स इ॑न्द्रि॒येण॑
सोमपी॒थेन॒ व्या॑र्ध्यत॒ स यदू॒र्ध्वमु॒द॑वमी॒त्ते
श्या॒माका॑ अभव॒न्त्स प्र॒जाप॑ति॒मुपा॑धावत्त-
स्मा॑ ए॒तँ सो॑मे॒न्द्रँ श्या॑मा॒कं च॒रुं निर॑व-
पत्तै॒नैवा॒स्मि॑न्निन्द्रि॒यँ सो॑मपी॒थम॑दधा॒द्वि वा
ए॒ष इ॑न्द्रि॒येण॑ सोमपी॒थेन॑र्घ्यते॒ यः सोमं॒ व-
मि॑ति॒ यः सो॑मवा॒मी स्यात्तस्मै॑ (६) ए॒तँ

[[1174]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(मृत्युभीतादीनां शतकृष्णलादीष्टिविधिः)
सो॑मे॒न्द्रँ श्या॑मा॒कं च॒रुं निर्व॑पे॒त्सोमं॑ चैवेन्द्रं॑
च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑
न्निन्द्रि॒यँ सो॑मपी॒थं ध॑त्तो॒ नेन्द्रि॒येण॑ सोम
पी॒थे॑न॒ व्यृ॑ध्यते॒ यत्सौ॒म्यो भव॑ति सोमपी॒थ-
मेवा॒व॑ रुन्धे॒ यदै॒न्द्रो भव॑तीन्द्रि॒यं वै सो॑म
पी॒थ इ॑न्द्रि॒यमे॒व सो॑मपी॒थमेव॑ रुन्धे श्यामा॒को
भ॑वत्ये॒ष वाव स सोमः॑ (७) सा॒क्षादे॒व
सो॑मपी॒थमव॑ रु॒न्धेऽग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒-
ष्टाक॑पालं॒ निर्व॑पे॒दिन्द्रा॑य प्रदा॒त्रे पु॑रो॒डाश॑मे॒
का॑दशकपालं प॒शुका॑मो॒ऽग्निरे॒वास्मै॑ प॒शून्प्र
ज॒नय॑ति वृ॒ध्दानिन्द्रः॒ प्र य॑च्छति॒ दधि॒ मधु॑
घृ॒तमापो॑ धा॒ना भ॑वन्त्ये॒तद्वै पशू॒नाँ
रू॒पँ रू॒पेणै॒व प॒शूनव॑ रुन्धे पञ्चगृही॒तं भ॑
वति॒ पाङक्ता॒ हि प॒शवो॑ बहुरू॒पं भ॑वति
बहुरू॒पा हि प॒शवः॑ [ ८ ] समृ॑द्ध्यै प्राजा-
प॒त्यं भ॑वति प्राजाप॒त्या वै प॒शवः॑ प्र॒जाप॑ति-
रे॒वास्मै॑ प॒शून्प्र ज॑नयत्या॒त्मा वै पुरू॑षस्य॒
भधु॒ यन्मध्व॒ग्नौ जु॒होत्या॒त्मान॑मे॒व तद्यज॑मा-
नो॒ऽग्नौ प्र द॑धाति प॒ङक्त्यौ॑ याज्यानुवा॒-
क्ये॑ भवतः॒ पाङक्तः॒ पुरु॑षः॒ पाङक्ताः॑ प॒शव॑
आ॒त्मान॑मे॒व मृ॒त्योर्नि॒ष्क्रीय॑ प॒शूनव॑ रुन्धे
(९)।

[[1175]]

प्रपा. ३ अनु. ३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(यज्ञविभ्रष्टादीनामिष्टिविधिः)
इ॒न्द्रि॒ये॑ऽस्मि॒न्भूम्या॑ ए॒तामिन्द्रः॒ स्यात्तस्मै॒ सो॒मो॑ बहुरू॒पा हि प॒शव॒
एक॑चत्वारिँ शच्च।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
तृतीयप्रपाठके द्वितीयोऽनुवाकः ।। २ ।।