०१

(तत्र प्रथमोऽनुवाकः)।
ह॒रिः॒ ॐ।
आ॒दि॒त्यभ्यो भुव॑द्वद्भ्यश्च॒रुं निर्व॑पे॒द्भूति॑काम
आदि॒त्या वा ए॒तं भूत्यै॒ प्रति॑ नुदन्ते॒ योऽलं॒
भूत्यै॒ सन्भूतिं॒ न प्रा॒प्नोत्या॑दि॒त्याने॒व भुव॑द्वतः॒
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैनं॒ भूतिं॑
गमयन्ति॒ भव॑त्ये॒वाऽऽदि॒त्येभ्यों धा॒रय॑द्
वद्भ्यश्चं॒रुं निर्व॑पेद॒परु॑द्धो वाऽपरुध्यमा॑नो
वाऽऽदि॒त्या वा अ॑परो॒द्धार॑ आदि॒त्या अ॑व
गमयि॒तार॑ आदि॒त्याने॒वा धारय॑द्वतः (१)
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैनं॑ वि॒शि
दा॑घ्नत्यनपरु॒ध्यो भ॑व॒त्यदि॒तेऽनु॑ मन्य॒स्पेत्यप॑रु
ध्यमा॑नोऽस्य प॒दमा द॑दीते॒यं वा अदि॑तिरि॒य-
मेस्वामै॑ रा॒ज्यमनु॑ मन्यते स॒त्याऽऽशीरित्या॑ह
स॒त्यामे॒वाऽऽशिषं॑ कुरुत इ॒ह मन॒ इत्या॑ह
प्र॒जा ए॒वास्मै॑ सम॑नसः करो॒त्युप॒ प्रेत॑मरुतः
(२) सु॒दा॒न॒व॒ ए॒ना वि॒श्पाति॑ना॒ऽभ्य॑मुँ
राजा॑न॒मित्या॑ह मारु॒ती वै विड्ज्ये॒ष्ठो वि॒श्प
ति॑र्विशैवैनँ रा॒ष्ट्रेण॒ सम॑र्धयति यः पर-
स्ता॑द्ग्राम्यवादी स्यात्तस्य॑ गृ॒हाद्व्रीहीना
ह॑रेच्छु॒क्‍लाँ श्च॑ कृ॒ष्णाँश्च॒ वि चि॑नुया॒द्ये

[[1171]]

पा. ३ अनु. १) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(भूतिकामादीनामादित्यचर्वादीष्टिविधिः)
शु॒क्‍लाः स्युस्तमा॑दि॒त्यं च॒रुं निवपेदादि॒त्या
वै देवत॑या॒ विड्वि॒श॑मेवाव॑ गच्छति (३)
अव॑गताऽस्य॒ विडन॑वगतँ रा॒ष्ट्रमित्या॑हु॒र्ये
कृ॒ष्णाः स्युस्तं वा॑रु॒णं च॒रुं निर्व॑पेद्वारु॒णं
वै रा॒ष्ट्रमु॒भे ए॒व विशं॑ च रा॒ष्ट्रं चाव॑ गच्छ-
ति॒ यदि॒ नाव॒गच्छे॑दि॒ममहमा॑दि॒त्येभ्यो॑ भा॒गं
निर्व॑पा॒म्याऽमुष्मा॑द॒मुष्यै वि॒शोऽव॑गन्तो॒रिति॒
निर्व॑पदादि॒त्या ए॒वैनं॑ भाग॒धेयं॑ प्रे॒प्सन्तो॒ वि-
श॒मव॑ (४) ग॒म॒य॒न्ति यदि॒ नाव॒गच्छे॒दा
श्व॑त्थान्म॒यूखा॑न्त्स॒प्तम॑ध्यमे॒पायामुप॑ हन्यादि॒-
दम॒हमा॑दि॒त्यान्ब॑ध्ना॒नाम्याऽमुष्मादमुष्यै॑ वि॒शोऽ
व॑गन्तो॒रित्या॑दि॒त्या ए॒वैनं॑ ब॒द्धवी॑रा॒ विश॒मव॑
गमयन्ति॒ यदि॒ नाव॒गच्छे॑दे॒तमे॒वाऽऽदि॒त्यं
च॒रुं निर्व॑पेदिध्मेऽपि॑ म॒यूखा॒न्त्सं न॑ह्येदन
परु॒ध्य मे॒वाव॑ गच्छ॒त्याश्व॑त्था भवन्ति
म॒रुतां ए॒तदोजो॒ यद॑श्व॒त्थ ओज॑सै॒व वि
श॒मव गच्छति स॒प्त भ॑वन्ति स॒प्तग॑णा॒ वै
म॒रुतो॑ गण॒श ए॒व विश॒मव॑ गच्छति (५)।।
(धारय॑द्वतो मरुतो गच्छति॒ विश॒मवै॒तद॒ष्टाद॑श च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
तृतीयप्रपाठके प्रथमोऽनुवाकः ।। १ ।।

[[1172]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(मृत्युभीतादीनां शतकृष्णलादीष्टिविधिः)