(अथ द्वितीयकाण्डे द्वितीयप्रपाठकेऽष्टमोऽनुवाकः।
इन्द्रा॒यान्वृ॑जवे पुरो॒डाश॒मेका॑दशकपालं॒
निव॒पेद्ग्राम॑काम॒ इन्द्र॑मे॒वान्वृ॑जुँ स्वेन॑ भा
ग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ सजा॒ताननु॑
कान्करोति ग्रा॒म्ये॑व भ॑वतीन्द्रा॒ण्यै च॒रुं नि
र्वपे॒द्यस्य॒ सेनाऽसँ॑ शितेव॒ स्यादि॑न्द्राणी वै
सेना॑यै दे॒वते॑न्द्रा॒णीमे॒व स्वेन॑ भाग॒धेये॒नोप
धावति॒ सैवास्य॒ सेनाँ॒ सँ श्य॑ति॒ बल्ब॑जा॒
नपि॑ (१) इ॒ध्मे सं न॑ह्ये॒द्गौर्यत्राधि॑ष्कन्ना॒
न्यमे॑ह॒त्ततो॒ बल्ब॑जा॒ उद॒तिष्ठ॒न्गवा॑मे॒वैनं॑ न्या॒
यम॑पि॒नीय॒ गा वे॑द॒यतीन्द्रा॑य भन्यु॒मते॒ मन॑
स्वते पुरो॒डाश॒मेकादशकपालं॒ निव॑पेत्सङ्ग्रा॒मे
संय॑त्त इन्द्रि॒येण॒ वै म॒न्युना॒ मनसा सङ्ग्रा॒मं
[[1134]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे—
(ग्रामकामादीनामनृज्वादीष्टिविधिः)
ज॑य॒तीन्द्र॑मे॒व म॑न्यु॒मन्तं॒ मन॑स्वन्तँ॒ स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यं
म॒न्युं मनो॑ दधाति॒ जय॑ति॒ तम् (२) स॒
ङ्ग्रा॒म॒मेतामे॒व निर्व॑पे॒द्यो ह॒तम॑नाः स्व॒यंपा॑प
इव॒ स्यादे॒तानि॒ हि वा ए॒तस्मा॒दप॑क्रान्ता॒न्य
थै॒व ह॒तम॑नाः स्व॒यंपा॑प॒ इन्द्र॑मे॒व मन्यु॒मन्तं॒
मन॑स्वन्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स
ए॒वास्मि॑न्निन्द्रि॒यं म॒न्युं मनो॑ दधाति॒ न ह॒त
म॑नाः स्व॒यंपा॑पो भव॒तीन्द्रा॑य दा॒त्रे पु॑रो॒डाश॒
मेका॑दशकपालं॒ निर्व॑पे॒द्यः का॒मये॑त॒ दान॑का
मा मे प्र॒जाः स्युः॑ (३) इतीन्द्र॑मे॒व दा॒ता
रँ॒ स्वेन॑ भाग॒धेयेनोप॑ धावति॒ स ए॒वास्मै॒
दान॑कामाः प्र॒जाः क॑रोति॒ दान॑कामा अस्मै
प्र॒जा भ॒वन्तीन्द्रा॑य प्रदा॒त्रे पु॑रो॒डाश॒मेका॑दश
कपालं॒ निर्व॑पे॒द्यस्मै॒ प्रता॑मिव॒ सन्न प्र॑दी॒येते
न्द्र॑मे॒व प्र॑दा॒तारँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मै॒ प्र दा॑पय॒तीन्द्राय सु॒त्राम्णे॑ पुरो॒
डाश॒मेका॑दशकपालं॒ निर्व॑पे॒दपरु॑द्धो वा (४)
अ॒प॒रु॒ध्यमा॑नो॒ वेन्द्र॑मे॒व सु॒त्रामा॑णँ॒॑ स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ त्रायतेऽनपरु
ध्यो भ॑व॒न्तीन्द्रो॒ वै स॒दृङदे॒वता॑भिरासी॒त्स न
व्या॒वृतम॑गच्छ॒त्स प्र॒जाप्र॑ति॒मुपा॑धाव॒त्तस्मा॑
[[1135]]
प्रपा. २ अनु. ८) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अभिचारकर्त्रादीनामिष्टिविधिः)
ए॒तमै॒न्द्रमेका॑दशकपालं॒ नि॑रव॒पत्ते॒नैवास्मि॑
न्निन्द्रि॒यम॑दधा॒च्छक्च॑री याज्यानुवा॒क्ये॑ अक
रो॒द्वज्रो॒ वै शक्व॑री॒ स ए॑नं॒ वज्रो॒ भूत्या
ऐन्ध (५) सोऽभव॒त्सो॑ऽबिभेद्भू॒तः प्र मा
धक्ष्य॒तीति॒ म प्र॒जाप॑तिं॒ पुन॒रुपा॑धाव॒त्स प्र॒
जाप॑तिः॒ शक्व॑र्या अधि॑ रे॒वतीं॒ निर॑मिमीत॒
शान्त्या॒ अप्र॑दाहाय॒ योऽलँ॑ श्रि॒यै सन्त्स॒दृ
ङ्स॑मा॒नैः स्यात्तस्मा॑ ए॒तमै॒न्द्रमेका॑दशकपालं॒
निर्व॑पे॒दिन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मि॑न्निन्द्रि॒यं द॑धाति रे॒वती॑ पुरोनु
वा॒क्या॑ भवति॒ शान्त्या॒ अप्र॑दाहाय॒ शक्व॑री
या॒ज्या॑ वज्रो॒ वै शक्व॑री॒ स ए॑नं॒ वज्रो॒ भूत्या॑
इन्धे॒ भव॑त्ये॒व (६)।।
(अपि॒ तँ स्यु॑र्वैन्ध भवति॒ चतु॑र्दश च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
द्वितीयप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।