०५

(अथ द्वितीयकाण्डे द्वितीयप्रपाठके पञ्चमोऽनुवाकः)।
वै॒श्वा॒न॒रं द्वाद॑शकपालं॒ निर्व॑पेद्वारु॒णं च॒रुं
द॑धि॒क्राव्णे च॒रुम॑भिश॒म्यमा॑नो॒ यद्वै॑श्वान॒रो
द्वाद॑शकपालो॒ भव॑ति संवत्स॒रो वा अ॒ग्नि
र्वै॑श्वान॒रः सं॑वत्स॒रेणै॒वैनँ॑ स्वद॒यत्यप॑ पा॒पं
वर्णँ॑ हते वारु॒णेनै॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति

[[1127]]

प्रपा. २ अनु. ५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अभिशस्तादिकर्तव्येष्टिविधिः)
दधि॒क्राव्णा पुनाति॒ हिर॑ण्यं॒ दक्षि॑णा प॒वित्रं॒
वै हिर॑ण्यं पु॒नात्ये॒वैनमा॒द्य॑म॒स्यान्नं॑ भवत्ये॒
तामे॒व निर्व॑पेत्प्र॒जाका॑मः संवत्स॒रः ( १)
वा ए॒तस्याशा॑न्तो॒ योनिं॑ प्र॒जायै॑ पशू॒नां नि—
र्दहति॒ योऽलं प्र॒जायै॒ सन्प्र॒जां न वि॒न्दते॒ य—
द्वैश्वान॒रो द्वाद॑शकपालो॒ भव॑ति संवत्स॒रो
वा अ॒ग्निर्वै॑श्वानरः॒ सं॑वत्स॒रमे॒व भा॑ग॒धेये॑न
शमयति॒ सोऽस्मै शा॒न्तः स्वाद्योनेः॑ प्र॒जां
प्र ज॑नयति वारु॒णेनै॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति
दधि॒क्राव्णा पुनाति॒ हिर॑ण्यं दक्षि॑णा प॒वित्रं॒
वै हिर॑ण्यं पुनात्ये॒वैन॑म् ( २ ) वि॒न्दते प्र॒जां
वै॑श्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेत्पु॒त्रे जा॒ते य
द॒ष्टाक॑पालो॒ भव॑ति गायत्रि॒यैवैनं॑ ब्रह्मव॒र्च
सेन॑ पुनाति॒ यन्नव॑कपालस्त्रि॒वृतै॒वास्मि॒न्तेजो॑
दधाति॒ यद्दश॑कपालो वि॒राजै॒वास्मि॑न्न॒न्नाद्यं॑
दधाति॒ यदेका॑दशकपालस्त्रि॒ष्टुभै॒वास्मि॑न्नि
न्द्रि॒यं द॑धाति॒ यद्द्वाद॑शकपालो॒ जग॑त्यै॒
वास्मि॑न्प॒शून्द॑धाति॒ यस्मिञ्जा॒त ए॒तामिष्टिं॑
नि॒र्वप॑ति पू॒तः (३) ए॒व ते॑ज॒स्व्य॑न्ना॒द इ॑
न्द्रिया॒वी प॑शु॒मान्भ॑व॒त्यव॒ वा ए॒ष सु॑व॒र्गा
ल्लो॒काच्छि॑द्यते॒ यो॑ द॑र्शपूर्णमासया॒जी सन्न
मावा॒स्यां॑ वा पौर्णमा॒सीं वा॑ऽतिपा॒दय॑ति

[[1128]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—— (२ द्वितीयकाण्डे
(अभिशस्तादिकर्तव्येष्टिविधिः)
सुव॒र्गाय॒ हि लो॒काय॑ दर्शपूर्णमा॒सावि॒ज्यते॑
षैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेदमावा॒स्यां॑
वा पौर्णमा॒मीं वा॑ऽति॒पाद्य॑ संवत्स॒रो वा अ॒
ग्निर्वै॑श्वान॒रः सं॑वत्स॒रमे॒व प्री॑णा॒त्यथो॑ सं
वत्स॒रमे॒वास्मा॒ उप॑दधाति सुव॒र्गस्य॑ लो॒कस्य॒
सम॑ष्ट्यै (४) अथो दे॒वता॑ ए॒वान्वारभ्य॑ सु
व॒र्गं लो॒कमे॑ति वीर॒हा वा ए॒ष दे॒वानां॒ योऽ
ग्निमु॑द्वा॒मय॑ते न वा ए॒तस्य ब्राह्म॒णा ऋ॑
ता॒यवः॑ पु॒राऽन्न॑मक्षन्नाग्ने॒यम॒ष्टाक॑पालं निर्व॑
पेद्वैश्वान॒रं द्वाद॑शकपालम॒ग्निमु॑द्वासयि॒
ष्यन्यद॒ष्टाक॑पालो॒ मव॑त्य॒ष्टाक्ष॑रा गाय॒त्री
गा॒यत्रो॑ऽग्निर्यावा॑ने॒वाग्निस्तस्मा॑ आति॒थ्यं
करो॒त्यथो॒ यथा॒ जनं॑ य॒ते॑ऽव॒सं क॒रीति॑ ता॒
दृक् () एव तद्द्वाद॑शकपालो वैश्वान॒
रो भ॑वति॒ द्वाद॑श॒ मासाः॑ संवत्स॒रः सं॑वत्स॒रः
खलु॒ वा अ॒ग्नेर्योनिः॒ स्वामे॒वैनं॒ योनिं॑ गमय
त्या॒द्य॑म॒स्यान्नं॑ भवति वैश्वान॒रं द्वाद॑शक
पालं॒ निर्व॑पेन्मारु॒तँ स॒प्तक॑पालं॒ ग्राम॑काम
आह॒वनीये॑ वैश्वान॒रमघि॑ श्रयति॒ गार्हं॑पत्ये
मारु॒तं पाप॑वस्य॒सस्य॒ विधृ॑त्यै॒ द्वाद॑शक
पालो वैश्वान॒रो भ॑वति द्वाद॑श॒ मासा॑
संवत्स॒रः सं॑वत्स॒रेणै॒वास्मै॑ सजाताँ॒श्च्या॑व

[[1129]]

प्रपा. १ अनु. ६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(आदित्यचर्वादीष्टिविधिः)
यति मारु॒तो भ॑वति (६) म॒रुतो॒ वै दे॒वा
नां॒ विशो॑ देववि॒शेनै॒वास्मै॑ मनुष्यवि॒शमव॑
रुन्धे स॒प्तक॑पालो भवति स॒प्तग॑णा॒ वै म॒
रुतो॑ गण॒श ए॒वास्मै॑ सजा॒तानव॑ रुन्धेऽनू॒च्य
मा॑न॒ आ सा॑दयति॒ विश॒मेवास्मा॒ अनु॑वर्त्मानं
करोति (७)।।
(प्र॒जाका॑मः संवत्स॒र पु॒नात्ये॒वैनं॑ पू॒तः सम॑ष्ट्यै ता॒दृङमा॑रु॒तो
भ॒वत्येका॒न्नत्रिँ॒ शच्च)।
इति श्रीकृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
द्वितीयप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।