०२

(अथ द्वितीयाष्टके द्वितीयप्रपाठके द्वितीयोऽनुवाकः)
अ॒ग्नये॑ पथि॒कृते॑ पुरो॒हाश॑म॒ष्टाक॑पालं॒ निर्व॑
पे॒द्यो द॑र्शपू॒र्णमासया॒जी सन्न॑मावा॒स्यां॑ वा
पौर्णमा॒सीं वा॑ऽतिपा॒दये॑त्प॒थो वा ए॒षोऽ ध्यप॑
थेनैति॒ यो द॑र्शपूर्णमासया॒जी सन्न॑मावा॒स्यां॑
वा पौर्णमा॒सी वा॑ऽतिपा॒दय॑त्य॒ग्निमे॒व प॑थि॒कृ
तँ॒ स्वेन॑ भाग॒धेये॒नोप धावति॒ स ए॒वैन॒मप॑
था॒त्पन्था॒मपि नयत्यन॒ड्वान्दक्षिणा व॒ही ह्येष
समृ॑द्ध्या अ॒ग्नये व्र॒तप॑तये (१) पु॒रो॒डाश॒
म॒ष्टाक॑पालं॒ निर्व॑पे॒द्य आहि॑ताग्निः॒ सन्न॑व्र॒त्य
भि॑व॒ चरे॑द॒ग्निमे॒व व्र॒तप॑तिँ॒ स्वेन॑ भाग॒धेये॒
नोप॑ धावति॒ स ए॒वैनं॑ स व्र॒तमा ल॑म्भयति॒ व्रत्यो॑

[[1121]]

प्रपा. २ अनु.३) कृष्णयजुर्वदीयतैत्तिरीयसंहिता।
(दर्शाद्यतिक्रमनिमित्तकपाथिकृतादीष्टिविधिः)
भवत्य॒ग्नये॑ रक्षो॒घ्ने पु॑रो॒डाश॑म॒ष्टाक॑पालं॒ निर्वं॑
पे॒द्यँ रक्षाँसि॒ सचे॑रन्न॒ग्निमे॒व र॑क्षो॒हणँ॒
स्वेन॑ भाग॒धेये॒नोप॑ धावति स ए॒वास्मा॒द्रक्षाँ॒
स्यप॑ हन्ति॒ निशि॑तायां॒ निर्वपेत् (२) निशि॑
तायाँ॒ हि रक्षाँसि प्रे॒रते॑ सं॒प्रेर्णा॑न्ये॒वैना॑नि
हन्ति॒ परि॑श्चिते याजये॒द्रक्ष॑सा॒मन॑न्ववचाराय
रक्षो॒घ्नी या॑ज्यानुवा॒क्ये॑ भवतो॒ रक्ष॑साँ॒ स्तृ
त्या॑ अ॒ग्नये रु॒द्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्वं॑
पेदभि॒चर॑न्ने॒षा वा अ॑स्य घो॒रा त॒नूर्यद्रु॒द्र
स्तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒मार्छ॑त्य॒
ग्नये॑ सुरभिमते॑ पुरोडाश॑मष्टाक॑पालं नि॑र्वंपेद्य
स्य गावो वा पुरु॑षाः [ ३ ] वा प्रमीये॑रन्यो
वा॑ बिभी॒यादे॒षा वा अ॑स्य भेष॒ज्या॑ त॒नूर्य
त्सुरभि॒मती॒ तयै॒वास्मै॑ भे॒षजं क॑रोति सुरभि॒
मते॑ भवति पूतीग॒न्धस्थाप॑हत्या अ॒ग्नये॒ क्षाम॑
वते पुरो॒डाश॑गम॒ष्टक॑पालं॒ निर्व॑पेत्सङ॒ग्रामे सं
यत्ते भाग॒धेये॑नै॒वैनँ शमयि॒त्वा परा॑न॒भि नि
र्दिश॑ति॒ यमव॑रेषां॒ विध्य॑न्ति॒ जीव॑ति॒ स यं
परे॑षां॒ प्र स मी॑यते॒ जय॑ति॒ तँ स॑ङग्रा॒मम्
(४) अ॒भि वा ए॒ष ए॒तानु॑च्यति॒ येषां॑ पूर्वा
प॒रा अ॒न्वञ्चः॑ प्र॒मीय॑न्ते पुरुषाहु॒तिर्ह्य॑स्य प्रि॒—
यत॑मा॒ऽग्नये॒ क्षाम॑वते पुरो॒डाश॑मष्टाक॑पालं॒

[[1122]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता— (२ द्वितीयकाण्डे
(कामुकादीष्टिविधिः)
निर्व॑पेद्भाग॒धेये॑नैवै॒नँ शमयति॒ नैषां॑ पुराऽऽ
यु॒षोऽप॒रः प्र मयि॑ते॒ऽभि वा ए॒ष ए॒तस्य॑ गृ॒
हानु॑च्यति॒ यस्य गृ॒हान्दह॑त्य॒ग्नये॒ क्षाम॑वते
पु॒रोडाश॑म॒ष्टाक॑पालं॒ निर्वं॑पेद्भाग॒धेये॑नै॒वैनँ
शमयति॒ नास्यापरं गृ॒हान्द॑हति॑ ( ५) ।।
(व्र॒तप॑तये॒ निशि॑तायां॒ निर्व॑पे॒त्पुरु॑षाः सङग्रा॒मं न च॒त्वारि॑ च)
इति कृष्णयजुर्वेदीयतैत्तिरीसंहितायां द्वितीयष्टके
द्वितीयप्रपाठके द्वितीयोऽनुवाकः ।। २ ।।
————