(अथ द्वितीयाष्टके प्रथममपाठके नवमोऽनुवाकः)
वरु॑णँ सुषुवा॒णम॒न्नाद्यं॒ नोपा॑नम॒त्स ए॒तां
वा॑रु॒णीं कृ॒ष्णां व॒शाम॑पश्यात्ताँ॒ स्वांयै॑ दे॒व
ता॑या॒ आऽल॑भ॒त ततो॒ वै तम॒न्नाद्य॒मुपा॑नम॒द्य
मल॑म॒न्नाद्या॑य॒ सन्त॑म॒न्नाद्यं॒ नोप॒नमे॒त्स ए॒तां
वा॑रु॒णीं कृ॒ष्णां॑ व॒शामा ल॑भेत॒ वरु॑णमे॒व
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ अन्नं॒
प्र य॑च्छत्यन्ना॒दः (१) ए॒व भ॑वति कृ॒ष्णा
भ॑वति वारु॒णी ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै मै॒त्रँ
श्वे॒तमा ल॑भेत वारु॒णं कृ॒ष्णम॒पां चौष॑धीनां
च सं॒धावन्न॑कामो मै॒त्रीर्वा ओष॑धयो वारु॒
णीरापो॒ऽपां च॒ खलु वा ओष॑धीनां च॒ रस॒
मुष॑ जीवामो मि॒त्रावरु॑णावे॒व स्वेनं॑ भाग॒धे
ये॒नोप॑ धावति॒ तावे॒वस्मा॒ अन्नं॒ प्र य॑च्छ
तोऽन्ना॒द ए॒व भव॑ति (२) अ॒पां चौष॑धीनां
च सं॒धावा ल॑भत उ॒भय॒स्याव॑रुद्ध्यै॒ विशा॑खो॒
[[1098]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता [२ द्वितीयकाण्डे
(अन्नाद्यकामादिनां पशुंविधिः)
यूपों॑ भवति॒ दे ह्यें॑ते दे॒वते॒ समृ॑द्ध्यै मै॒त्रँ
श्वे॒तमा ल॑भेत वारुणं कृ॒ष्णं ज्योगा॑मयावी॒
यन्मै॒त्रो भव॑ति मि॒त्रेणै॒वास्मै॒ वरु॑णँ शमय
ति॒ यद्वा॑रु॒णः सा॒क्षादेवै॒नं॑ वरुणपा॒शान्मु॑ञ्च
त्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व दे॒वा वै पुष्टीं॒
नावि॑न्दन् (३) तां मि॑थु॒नैं॑ऽपश्य॒न्तस्यां॒ न
सम॑राधय॒न्ताव॒श्विनावब्रूतामा॒वयो॒र्वा ए॒षा
मैतस्यां॑ वदध्व॒मिति॒ साऽश्विनोरे॒वाभ॑व॒द्यः
पुष्टि॑कामः॒ स्यात्स ए॒तामा॑श्वि॒नीं य॒मीं व॒शा
मा ल॑भेता॒श्विना॑वे॒व स्वान॑ भाग॒धेये॒नो॑प धा
वति॒ तावे॒वास्मि॒न्पुष्टिं॑ धत्तः॒ पुष्य॑ति प्र॒जया॑
प॒शुभिः॑(४)।।
(अ॒न्ना॒दो॑ऽन्ना॒द ए॒व भ॑वत्यविन्द॒न्पञ्च॑चत्वारिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
प्रथमप्रपाठके नवमोऽनुवाकः।।९।।
——————
(अथ द्वितीयकाण्डे प्रथमप्रपाठके नवमोऽनुवाकः)।
ब्रह्मतेजोऽभिचारं च यज्ञप्राप्तिं तथा पशून्।
समयं च तथा वृष्टी वाञ्छतां पशवः श्रुताः।।
तान्पशूनष्टमेऽनुवाके विधायार्थे नवमेऽन्नद्यकामादीनां पशून्विधित्सुरादौ कं—
चित्पशुं विधातुं प्रस्तौति
वरुणमिति। सुषुवाणं। सोमभिषवं कृतवन्तम्। विधत्ते—
यमलमिति। धनिकः पुमानत्तुं योग्याय शाल्यन्नपायसादिभोज्याय समर्थो ऽपि संविधातृमनुष्याभावादिना तन्न प्राप्नुयात्तस्यायं पशुः। वरुणः पर्जन्य
[[1099]]
प्रपा. १ अनु. १०) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(नैमितिकपशुविधिः)
मुखेन प्रकाशमावृत्य कार्ष्ण्य संपादयति। ततोऽस्य पशुवर्णस्य वरुणदेवत्यत्वम्।
द्विपशुकं कर्म विधत्ते
मैत्र ँ श्वेतमिति—संधिशब्द कालपरत्वेन देशपरत्वेन च द्वेधा सूत्रकारो व्याख्यातवान्—“अपां चौषधीनां च संधाविति प्रावृषि शरत्प्रतिपत्तौ वाऽपि वाऽपा चौषधीनां च संधौ ” इति। ऋत्वोर्मध्ये नदीक्षेत्रयोर्मध्य इति तस्यार्थः। ओषधीनामुपकारकत्वेन मित्रसंबन्धित्वम्। संधौ प्रयोग उभयरसोपजीवनेन प्रशस्तः। एतदेवाभिप्रेत्य संधिं प्रशंसति—
अपां चौषधीनामिति। यूपस्य शाखाद्वयं विधत्ते—
विशाख इति। विविधे शाखे यस्यायौ विशाखः। तदिदं सूत्रकारो दर्शयति“विशाखोयूप इति यदूर्ध्वं रशनायास्तद्विशाखं यद्वोपर्युमे शाखे अष्टाश्री सचषाले स्याताम् ” इति। दीर्घरोगिणो द्विपशुकं कर्म विधत्ते
मैत्र ँ श्वेतमिति। मित्रो हि कूरं वरुणं शान्तं करोति। स च वरुणपाशान्मोचयति। तयोः पृथगुपक्रमः। पुष्टिकामस्य पशुं विधातुं प्रस्तौति
देवा वा इति। प्रजापशुसमृद्धिः पुष्टिः। सा च मनुष्यमिथुने पशुमिथुने च संभवतीत्येवं देवा उपायमपश्यन्। दृष्ट्वा च तस्यां पुष्टौ सभ्यग्राधयितुं शक्ता नाभूवन्। तदानीमश्विनावूचतुः—आवयोरेवेषा पुष्टीः संबन्धिनी। तस्मादेतस्यां पुष्टावावाभ्यां विना मा वदध्यं संभाषणमेव मा कुरुतेति। तस्मात्सा पुष्टीरश्विनोरधीनाऽभवत्। विधत्ते—
यः पुष्टिकाम इति। एकस्मिन्गर्भे सह जातौ यसौ। तयोर्मध्ये या स्त्री सा यंसी।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय—
तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके
नवमोऽनुवाकः ।।९।।
————