(अथ द्वितीयाष्टके प्रथमप्रपाठकेऽष्टमोनुवाकः)।
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः
प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒ताँ सौ॒रीँ श्वे॒तां
वशामाऽल॑भन्त तयैवास्मिन्रुच॑मदधुर्यो ब्रह्म-
वर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒ताँ सौ॒रीँ श्वे॒तां
व॒शामा ल॑भेता॒मुमे॒वाऽऽदि॒त्यँ स्वेन॑ भाग॒
धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सं
द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति बै॒ल्वो यूपो॑ भव-
त्य॒सौ (१) वा आ॑दि॒त्यो यतोऽजा॑यत॒
ततो॑ बि॒ल्व॑ उद॑ति॒ष्ठत्सयो॑न्ये॒व ब्र॑ह्मवर्च॒समव॑
रुन्धे ब्राह्मणस्प॒त्यां ब॑भ्रुक॒र्णीमा ल॑भेताभि॒
चर॑न्वारु॒णं दश॑कपालं पु॒रस्ता॒न्निर्व॑प॒द्वेरुणे-
नै॒व भ्रातृ॑व्यं ग्राहयि॒त्वा ब्रह्म॑णा स्तृणुते ब-
म्रुक॒र्णी भ॑वत्ये॒तद्वै ब्रह्म॑णो रू॒पँ समृ॑द्ध्यै॒
स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒-
वास्मै॒ प्र ह॑रति शर॒मयं॑ ब॒र्हिः शृ॒णाति॑ (२)
[[1094]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [२ द्वितीयकाण्डे—
[ब्रह्मवर्चसकामादीनां पशुविधिः]
ए॒वैनं॒ वैभी॑दक इ॒ध्मो भि॒नत्त्ये॒वैनं॑ वैष्ण॒वं
वा॑म॒नमा ल॑भे॒त यं य॒ज्ञो नोप॒नमेद्विष्णु॒र्वै य॒-
ज्ञो विष्णु॑मे॒व स्वेन॑ भाग॒धेयेनोप॑ धावति॒ स
ए॒वास्मै॑ य॒ज्ञं प्र य॑च्छ॒त्युपै॑नं य॒ज्ञो न॑मति
वाम॒नो भ॑वति वैष्ण॒वो ह्ये॑ष दे॒वत॑या॒ समृ॑
द्ध्यै त्वा॒ष्ट्रं व॑ड॒वमा ल॑भेत प॒शुका॑म॒स्त्वष्टा॒
वै प॑शू॒नां मि॑थु॒नाना॑म् (३) प्र॒ज॒न॒यि॒ता
त्वष्टा॑रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒-
वास्मै॑ प॒शून्मि॑थ॒नान्प्र ज॑नयति प्र॒जा हि वा
ए॒तस्मि॑न्प॒शवः॒ प्रवि॑ष्टा॒ अथै॒ष पुमा॒न्त्सन्व॑ड॒वः
सा॒क्षादे॒व प्र॒जां प॒शूनव॑ रुन्धे मै॒त्रँ श्वे॒तमा
ल॑भेत सङ्ग्रा॒मे संय॑त्ते सम॒यका॑मो मि॒त्रमे॒व
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ मि॒त्रेण॒
सं न॑यति (४) वि॒शा॒लो भ॑वति॒ व्यव॑सा-
ययत्ये॒वैनं॑ प्राजाप॒त्यं कृ॒ष्णमा ल॑भेत॒ वृष्टि॑-
कामः प्र॒जाप॑ति॒र्वै वृष्ट्या ईशे प्र॒जाप॑तिमे॒व
स्वे॒न॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒र्ज-
न्यं॑ वर्षयति कृ॒ष्णो भ॑वत्ये॒तद्वै वृष्ट्यै॑ रू॒पँ
रू॒पेणै॒व वृष्टि॒मव॑ रुन्धे श॒बलो॑ भवति वि॒द्यु
त॑मे॒वास्मै॑ जनयि॒त्वा व॑र्षयत्यवाशृ॒ङ्गो भ॑वति॒
वृष्टि॑मे॒वास्मै॒ नि य॑च्छति [५] ।।
(अ॒सौ शृ॒णाति॑ मि॒थुनानां॑ नयति यच्छति)।
[[1095]]
प्रपा. १ अनु ०८] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
[ब्रह्मवर्चसकामादीनां पशुविधिः]
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
प्रथमप्रपाठकेऽष्टमोऽनुवाक।।८।।
(द्वितीयकाण्डे प्रथमप्रपाठकेऽष्टमोऽनुवाकः)
ब्रह्मतेजः प्रजांवृष्टिमन्नं ग्रामं तथा पुनः।
ब्रह्मतेजोऽभिचारं च वाञ्छतां पशवः श्रुताः।।
तानेतान्पशून्सप्तमेऽनुवाके विधायष्टमे पुनर्ब्रह्मवर्चसकामादीनां पश्वन्तराणि विधास्यन्नादौ कस्यचित्पशोर्विधानाय प्रस्तौति
असावादित्य इति। आदित्यविषये बहवः प्रायश्चित्तयः कल्पयुगादिभेदेन व्यवस्थापनीयाः। विधत्ते
यो ब्रह्मवर्चसकाम इति। खादिरं बाधितुं विधत्ते
बैल्षो यूपो भवतीति। श्रीसूक्तेन बिल्वोत्पत्तिराम्नायते“आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्तव वृक्षोऽथ बिल्वः” इति।
अस्यामर्थः हे आदित्यवर्णे लक्ष्मि प्रथममुत्पन्नस्याऽऽदित्यस्य तपसः संतापरूपात्मकाशादध्यूर्ध्वं तव प्रियो बिल्ववृक्षो जात इति। ततः सौर्या वशाया बैल्वे यूपे सति सूर्यबिल्वयोः सहोदरत्वात्सयोनित्वम्। तेन च ब्रह्यवर्चसमपि सयोन्येव संपद्यते। स्वपित्रादीना यरयां वेदशाखायामध्ययनानुष्ठानादिप्रवृत्तिस्तत्रैव स्वस्यापि प्रवृत्तिर्ब्रह्मवर्चसस्य सयोनित्वम्। अभिचरतः कवित्पशुं विधत्ते
ब्राह्मणस्पत्यामिति। पिड़्गलवर्णकर्णयुक्ता बभ्रुकर्णी। तस्य पशोः प्राच्याड़्गं पुरोडाशं विधत्ते
वारुणामिति। एतदनुष्ठानेन भ्रातृव्यस्य प्रथमं रोगमुत्पाद्य पश्चातब्रह्मणा ब्रह्मणस्पतिदेवताकेन कर्मणा हिनस्ति।
ब्रह्मणश्चतुर्मुखस्य हैमवर्णत्वाद्वभ्रुकर्ण्या ब्रह्मरूपत्वमित्यभिप्रेत्य पशुविशेषणं प्रशंसवि
बरुभ्कर्णीति। पूर्ववच्चोदकप्राप्तं बाधितुं विधत्ते
स्फ्यो यूप इति। अग्निष्टोमादिमहायज्ञप्राप्तिकामिनः पशुं विधत्ते
[[1096]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(२ द्वितीयकाण्डे
(ब्रह्मवर्चसकामादीनां पशुविधिः)
वैष्णवमिति। राजसूये वैष्णवं त्रिकपालं वामनो दक्षिणेत्युक्तत्वाद्वामनस्य विष्णुदेवत्यत्वम्। विधत्त—
त्वाष्ट्रं वडवमिति। यथा मनुष्येषु यत्र क्वापि पुंसः स्तनवृध्द्यां सत्यां श्मश्रुनिर्गमनात्पाग्योषित्वभ्रमो भवति तद्वदश्वेष्वपि केनाप्यवयवसंनिवेशविशेषेण यस्मिन्पुंस्येवाश्वे योषित्वबुद्धिरितरेषामश्वानां भवति। अत एव ते तेऽश्वास्तदा तदा तमश्वमारोहन्ति सोऽयमिदृशोऽश्वो वडवः। स च त्वष्टुः प्रियः। रेतसः सिक्तस्य त्वष्टा रूपाणि विकरोतीति श्रुतत्वान्मिथुनप्रजयनयितृत्वम्। पशुविशेषणं प्रशंसति
प्रजा हि वा इति। यदा स्त्रीलक्षणदर्शनेनास्मिन्पशौ स्त्रीत्वबुद्ध्या प्रजाः पशवश्च प्रविशन्ति, तत्र प्रजान प्रवेशो नामापत्योत्पत्तये प्रौढं समीचीनमश्वमानीय तत्राऽऽरोहयितृत्वाय प्रवृत्तिः, पशूनां प्रवेशो नाम योषित्वभ्रान्त्या तदारोहृणम्, अथ तदानीं प्रजापशुप्रवृत्तेरेष स्वतः पुमानमपि सन्स्त्रीनामधारी वडवो भवति। तदालम्भनेन साक्षादेव शीघ्रमेव प्रजापशून्प्राप्नोति।
परकीयसेनायामीदृशमेव शूरसमं हनिष्यामीति स्वामिनोऽग्रे यः प्रतिज्ञां कर्तृमिच्छति तस्य पशुं विधत्ते। यद्वा संधिकामिनः पशुं विधत्ते
मैत्रँ श्वेतमिति। एनं प्रतिज्ञावन्तं मित्रेण कार्यसाधकेन सहकारिणा संनयति योजयति। यजमानेन यूपः संमित इति प्रकृतौ यच्छ्रुतं तदपवदितुं परिमाणाधिक्यं विधत्त—
विशालो भवतीति। एनं प्रतिज्ञाकारिणं व्यवसाययत्येव धैर्यमुत्पाद्य स्वकार्यनिश्चयवन्तमेव करोति। अथवैनं संधिकामिनं संधिघटकत्वेन परो राजामित्रमेवेत्येतादृशं निश्चयवन्तं करोति। विधत्ते—
प्राजापत्यमिति। सर्वस्रष्टृत्वेन वृष्टेरपि स्रष्टृत्वात्तदीशितृत्वम्। धनच्छन्ने सवितरि तीव्रवृष्टिवेलायामन्धकाराभाससादृश्यमन्ति, तदभिप्रेत्य पशुविशेषणं प्रशंसति—
कृष्णो भवतीति। कृत्स्नशरीरे कार्ष्ण्यप्राप्तावुदराद्यधस्तनप्रदेशविशेषेषश्वैत्यमिश्रणं विधत्ते—
[[1097]]
प्रपा.१ अनु. ९) कृष्णयजुर्वेदीतैत्तिरीयसंहिता।
(अन्नाद्यकामादीनां पशुविधिः)
शबलो भवतीति। श्वैत्यस्य मालिन्यविन्यविरोधित्वाद्विद्युत्साम्यम्। कर्णसमीप एवावनतशृङ्गत्वं विधत्ते—
अवाशृङ्गो भवतीति। अधोमुखत्वेन वृष्टिधारासमत्वं द्रष्टव्यम्।।
इति श्रीमत्सायणचार्यविरचिते माधवीये वेदार्थप्रकाशेकृष्ण
यजुर्वेदीयैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठकेऽ
ष्टमोऽनुवाकः ।। ८।।