०७

(अथ द्वितीयाष्टके प्रथमप्रपाठके सप्तमोऽनुवाकः)।
व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो॑ऽच्छिन॒त्तस्यै॒
रसः॒ परा॑ऽपत॒त्तं बृह॒स्पति॒रूपा॑गृह्णा॒त्सा शि॑
तिपृ॒ष्ठा व॒शाऽभ॑व॒द्यो द्वि॒तीयः॑ प॒राप॑त॒त्तं भि॒
त्रावरु॑णा॒वुपा॑गृह्णीताँ॒ सा द्वि॑रू॒पा व॒शाऽ-
भ॑व॒द्यस्तृ॒तीयः॑ प॒राप॑त॒त्तं विश्वे॑ दे॒वा उपा॑गृ-
ह्ण॒न्त्सा बहु॑रू॒पा व॒शाऽभ॑व॒द्यश्च॑तुर्थः प॒राप॑-
त॒त्स पृ॑थि॒वीं प्रावि॑श॒त्तं बृह॒स्पति॑र॒भि (१)
अ॒गृ॒ह्णादस्त्वेवा॒यं भोगा॒येति॒ स उ॑क्षव॒शः
सम॑भव॒द्यल्लोहि॑तं प॒राप॑त॒त्तद्रु॒द्र उपा॑गृह्णा॒-
त्सा रौ॒द्री रोहि॑णी व॒शाऽभ॑वद्धार्हस्प॒त्याँ
शि॑तिपृ॒ष्ठामा ल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒
स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒-
वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑
वति॒ छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा रस॑ एव॒
खलु॑ (२) वै ब्र॑ह्मवर्च॒सं छन्द॑सामे॒व रसे॑न॒
रसं॑ ब्रह्मवर्च॒समव॑ रुन्धे मैत्रावरु॒णीं द्वि॑रू॒
पामा ल॑भेत॒ वृष्टि॑कामो मै॒त्रं वा अह॑र्वारु॒णी
रात्रि॑रहोरा॒त्राम्यां॒ खलु॒ वै प॒र्जन्यो॑ वर्षति
मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
तावे॒वास्मा॑ अहोरा॒त्राभ्यां प॒र्जन्यं वर्षयत॒श्छ-
न्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒

[[1090]]

१०९०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [२ द्वितीयकाण्डे—
(ब्रह्मवर्चसकामादीनां पशुविधिः)
वै वृष्टि॒श्छन्द॑सामे॒व रसे॑न [३] रसं॒ वृष्टि॒-
मव॑ रुन्धे मैत्रावरु॒णीं द्वि॑रू॒पामा ल॑भेत प्र॒
जाका॑मो मै॒त्रं वा अह॑र्वारु॒णी रात्रि॑रहोरा॒-
त्राभ्यां॒ खलु॒ वै प्र॒जाः प्र जा॑यन्ते मि॒त्रावरु॑
णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वा
स्मा॑ अहोरा॒त्राभ्यां॑ प्र॒जां प्र ज॑नयत॒श्छन्दसां॒
वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै प्रजा॒
छन्द॑सामेव॒ रसे॑न र॒सं॑ प्र॒जामव॑ (४) रु॒न्धे॒
वै॒श्व॒दे॒वीं बहुरू॒पामा ल॑भे॒तान्न॑कामो वैश्व
दे॒वं वा अन्नं॒ विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धे
ये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒ प्र य॑च्छ
न्त्यन्‍ना॒द ए॒व भ॑वति॒ छन्द॑सां॒ वा ए॒ष रसो॒
य॒द्वशा रस॑ इव॒ खलु॒ वा अन्‍नं॒ छन्द॑सामे॒व
रसे॑न॒ र॒समन्न॒मव॑ रुन्धे वैश्वदे॒वीं ब॑हुरू॒पा॒मा
ल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै (५) स॒जा॒-
ता विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑ धा-
वति॒ त ए॒वास्मै॑ सजा॒तान्प्र य॑च्छन्ति ग्रा॒म्ये॑-
व भ॑वति॒ छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा
रस॑ इव॒ खलु॒ वै स॑जा॒ताश्छन्द॑सामे॒व रसे॑न॒
रसँ॑ सजा॒तानव॑ रुन्धे बार्हस्प॒त्यमुक्षव॒शमा
ल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृ॒हस्पति॑मे॒व स्वेन॑
भाग॒धेये॒नोप॑ धाव॒ति स ए॒वास्मि॑न्ब्रह्मवर्च॒स-

[[1091]]

१०९१
प्रपा. १ अनु. ७) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
[ब्रह्मवर्चसकामादीनां पशुविधिः]
[६] द॒धा॒ति॒ ब्र॒ह्म॒व॒र्च॒स्ये॑व भ॑वति॒ वशं॒ वा
ए॒ष च॑रति॒ यदु॒क्षा वश॑ एव॒ खलु॒ वै ब्र॑ह्मव
र्च॒सं वशे॑नै॒व वशं॑ ब्रह्मवर्च॒समव॑ रुन्धे रौ॒-
द्रीँ रोहि॑णी॒मा ल॑भेताभि॒चर॑न्‍रुद्रमे॒व स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ तस्मा॑ ए॒वैन॒मा वृ॑श्च-
ति ता॒जगातिं॒मार्छ॑ति॒ रोहि॑णी भवति रौ॒द्री
ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒
वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति शर॒-
मयं॑ ब॒र्हिः शृ॒णात्ये॒वैनं॒ वैभी॑दक॑ इ॒घ्मो भि॒
नत्त्ये॒वैन॑म् ।। ७ ।।

(अ॒भि खलु॒ वृष्टि॒श्छन्द॑सामे॒व रसे॑न॒ रसं॑ प्र॒जामव॑ वैश्वदे॒वा वै
ब्र॑ह्मवर्च॒सं यू॒प एका॒न्नविँ॑श॒तिश्व॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
प्रथमप्रपाठके सप्तमोऽनुवाकः।। ७।।

(अथ द्वितीयकाण्डे प्रथमप्रपाठके सप्तमोऽनुवाकः)।
पृष्टकामोन्नकामो द्वाविन्द्रियार्थी सनिं तथा।
अन्नं ग्रामं च वाञ्छन्तोऽज्ञातरोगाश्च ये स्थिताः।।
षष्ठेऽनुवाकं पशवः क्रमेणैषामुदीरिताः।।
अथ सप्तमे ब्रह्मवर्चसकामादीनां यथायोगं पश्वन्तराणि विधातुं प्रस्तौति—
वषट्कार इति। वौषडित्यस्य मन्त्रस्याभिमानिदेवो वषट्कारः। तस्य गायत्र्या सह विरोधो ब्राह्मणान्तरे प्रसिध्दः इति वैशब्देन सूच्यते। छिन्नान्द्रा-
यत्रीशिरसो जलं रक्तं च निर्गतं ताभ्यामुभाभ्यामनेकविधा वशा उत्पन्नाः। ताश्च बृहस्पत्यादीनां परिग्रहेण प्रियाः संपन्नाः।। द्वाभ्यां वर्णाभ्यामुपेता द्विरूपा। बहु -

[[1092]]

१०९२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [२ द्वितीयकाण्डे—
[पशुकामादीनां पशुविधिः]
भिर्वर्णैरुपेता बहुरूपा। चतुर्थपर्याये भूमौ पतितं रसं वृथा विनष्टो मा भूदिति बृहस्पतिरभ्यगृहणात्। तस्यायमभिप्रायः- अथं रसो मम भोगाय भवत्वेव। उक्षवशो व्यर्थवीर्यो वृषभः।
तत्राऽद्यं पशुं विधत्ते—
बार्हस्पत्यमिति। ब्रह्मवर्चस्यैहिकामुष्मिकपूजाहेतुत्वेन सारत्वाद्रससादृ-श्यमित्यभिप्रेत्य तत्साधनभूतां वशां प्रशंसति।
छन्दसामिति। वशाया गायत्रीछन्दोरसत्वं व्याख्यातम्। गायत्री च सोमा-हरणेन च्छन्दोन्तरात्प्रशस्ता। तस्माद्वशा सर्वेषां छन्दसां सारः। तेन च्छन्दो-
रसेन वशारूपेणैहिकामुष्मिकपूजाहेतुतया रसरूपं ब्रह्मवर्चसमवरुन्धे—
द्वितीयं पशुं विधत्ते—
मैत्रावरुणीमिति। मित्रस्य सूर्यत्वादह्रस्तदयित्वम्। अन्धकारेणाऽऽवरण हेतुत्वाद्रात्रेर्वारुणत्वम् वृष्टेर्द्रवत्वादोषन्याध्युत्पादकत्वेन सारत्वाच्च रसोपमानम्।
तमेव द्वितीयं पशुं फलान्तराय विधत्ते—मैत्रावरुणीमिति।
अहोरात्रपरित्यागेन यथा वृष्टिर्न संभवति तथा प्रजोत्पत्तिरपि न संभवति। ततस्तयोर्वृष्टिसाधनत्ववत्पजोत्पत्तिसाधनत्वमपि द्रष्टव्यम्।
तृतीयं पशुं विधत्ते—
वैश्वदेवीमिति। अन्नस्य सर्वदेवभोज्यत्वाद्वैश्वदेवत्वं, जीवनहेतुत्वेन सार स्वाद्रससाम्यम्।
तमेव पशुं फलान्तराय विधसे—
वैश्वदेवीमिति। सजातानां भ्रात्रादीनां भृत्यादीनां च बहुत्वेन देवतासाम्येव वैश्वदेवत्वं स्धाम्युपकारित्वेन च रससादृश्यम्।
चतुर्थं पशुं विधत्ते—
बार्हस्पत्यमिति। वशत्वविशेषणं प्रशंसति—
बशं वा इति। उक्षेति यदेष वशं चरति धेनुभिः सहैवारण्ये गत्वा पुनस्तासामेव पृष्ठतो गृहेष्बागच्छतीति तस्य गोवशवाचित्वम्। ब्रह्मवर्चसमपीन्द्रियनियमनोपेतत्वाद्वश इव स्वाधीनपदार्थं इव भवति।
पञ्चमं पशुं विधत्ते—

[[1093]]

प्रपा. १ अनु. ३] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
[ब्रह्मवर्चसकामादीनां पशुविधिः]
रौद्रीमिति। रुद्राध्याये नीलग्रीवो विलोहित इति रुद्रस्य विशेषेण लोहितत्वं भूयते रोहिणी रुद्रदेवताका।
पूर्ववच्चोदकप्राप्तमपवदितुं विधत्ते स्फ्यो यूप इति।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-
र्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके
द्वितीयोऽनुवाकः ।। २ ।।