०६

(अथ द्वितीयाष्टके प्रथमप्रपाठके षष्ठोऽनुवाकः)।
बा॒र्ह॒स्प॒त्यँ शि॑तिपृ॒ष्ठमा ल॑भेत॒ ग्राम॑कामो॒
यः का॒मये॑त पृ॒ष्ठँ समा॒नानाँ॑ स्या॒मिति॒
बृह॒स्पतिमे॒व स्वेन॑ भाग॒धेये॒नोप धावति॒ स
ए॒वैनं॑ पृ॒ष्टँ स॑मा॒नानां॑ करोति ग्रा॒म्ये॑व भ॑-
वति शितिपृष्ठो॒ भ॑वति बार्हस्प॒त्यो ह्ये॑ष दे॒व-
त॑या॒ समृ॑द्ध्यै पौ॒ष्णँ श्या॒ममा ल॑भे॒तान्न॑का॒-
मोऽन्नं॒ वै पू॒षा पू॒षण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ स ए॒वास्मै॑ (१) अ॒न्नं प्र य॑च्छ-

[[1086]]

१०८६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—[२ द्वितीयकाण्डे—
(ग्रामकामादीनां पशुविधिः)
त्यन्ना॒द ए॒व भ॑वति श्या॒मो भ॑वत्ये॒तद्वा अन्न॑-
स्य रू॒पँ समृ॑द्ध्यै मारु॒तं पृश्नि॒मा ल॑भे॒ता
न्न॑का॒मोऽन्नं॒ वै म॒रुतो॑ म॒रुत॑ ए॒व स्वेन॑ भा-
ग॒धेये॒नोप धावति॒ त ए॒वास्मा॒ अन्नं॒ प्र य॑
च्छन्त्यन्ना॒द ए॒व भ॑वति॒ पृश्नि॑र्भवत्ये॒तद्वा अ-
न्न॑स्य रू॒पँ समृद्ध्या ऐ॒न्द्रम॑रु॒णमा ल॑भेते
न्द्रि॒यका॑म॒ इन्द्र॑मे॒व (२) स्वेन॑ भाग॒धेये॒
नोप॑ धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यं द॑धाती-
न्द्रिया॒व्ये॑व भ॑वत्यरु॒णो भ्‍रूमा॑न्भवत्ये॒तद्वा
इन्द्र॑स्य रू॒पँ समृ॑द्ध्यै सावि॒त्रमु॑पध्व॒स्तमा
ल॑भेत स॒निका॑मः सवि॒ता वै प्र॑स॒वाना॑मीशे
सवि॒तार॑मे॒व स्वेन॑ भाग॒धेय॒नोप॑ धावति॒ स
ए॒वास्मै॑ स॒निं प्र सु॑वति॒ दान॑कामा अस्मै
प्र॒जा भ॑वन्त्युपध्व॒स्तो भ॑वति सावि॒त्रो ह्ये॑षः
(३) दे॒वत॑या॒ समृ॑द्ध्यै वैश्वदे॒वं बहुरू॒पमा
ल॑भे॒तान्‍न॑कामो वैश्वदे॒वं वा अन्नं॒ विश्वा॑ने॒व
दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒
अन्नं॒ प्र य॑च्छन्त्यन्ना॒द ए॒व भ॑वति बहुरू॒पो
भ॑वति बहुरू॒पँ ह्यन्‍नँ॒ समृ॑द्ध्यै वैश्वदे॒वं
ब॑हुरू॒पमा ल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै स॑-
जा॒ता विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ त ए॒वास्मै॑ (४) स॒जा॒तान्प्र य॑च्छ

[[1087]]

१०८७
प्रपा. १ अनु. ६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वरुणगृहीतादिपशुविधानम्)
न्ति ग्रा॒म्ये॑व भ॑वति बहुरू॒पो भ॑वति बहुदे-
व॒त्यो१॒॑ ह्ये॑ष समृ॑द्ध्यै प्राजाप॒त्यं तू॑प॒रमा ल॑-
भेत॒ यस्याना॑ज्ञातमिव॒ ज्योगा॒मये॑त्प्राजप॒त्यो
वै पुरु॑षः प्र॒जापतिः॒ खलु॒ वै तस्य॑ वे॒द य-
स्याना॑ज्ञातमिव॒ ज्योगा॒मय॑ति प्र॒जाप॑तिमे॒व
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ तस्मा॒-
त्स्रामा॑न्मुञ्चति तूप॒रो भ॑वति प्राजाप॒त्यो
ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै (५)।
(अ॒स्मा॒ इन्द्रे॒मैवष स॑जा॒ता विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ त ए॒वास्मै प्राजाप॒त्यो हि त्रीणि॑ च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टकेऽ
प्रथमप्रपाठकं षष्ठोऽनुवाकः ।। ६ ।।

(अथ द्वितीयकाण्डे प्रथमप्रपाठके षष्ठोऽनुवाकः।
पशुकामः प्रजाकामो भूत्यर्थी छिन्नसोमकः।
अभिचारी च ये तेषां पञ्चमे पशवः श्रुताः।।
अथ षष्टे ग्रामकामादीनां पश्वन्तराणि वक्तव्यानि। तत्रैकं पशुं विधत्ते—
बार्हस्पत्यमिति। ग्रामो मे भूयादन्येषां ग्रामस्वामिनां मध्ये पृष्ठवदुपवर्ती त्यामिति यः कामयेत तस्यायं पशुः। पशुविशेषणं प्रशंसति—
शितिपृष्ठो भवतीति। राजसूये बार्हस्पत्यं चरु ँ शितिपृष्ठो दक्षिणेत्युक्तत्वात्तद्देवताकत्वम्। अन्नकामस्य पशुं विधत्ते
पौष्णमिति। अन्नस्य पोषकत्वात्पूषत्वम्। पशुविशेषणं प्रशंसति—
श्यामो भवतीति। पत्रशाकाद्यन्नस्य रूपं श्यामम्। अन्नकामस्य पश्वन्तरं विधत्ते—

[[1088]]

१०८८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता [२द्वितीयकाण्डे– [ग्रामकामदीनां पशुविधिः]
मारुतमिति। मरुतां वैश्यत्वेनान्नसंपादकत्वादन्नत्वम्। पशुविशेषणं प्रशंसति –
पृश्निर्भवतीति । पृश्निः श्वेतः। शाल्यन्नस्य रूपं श्वेतम्। इन्द्रियकामस्य पशुं विधत्ते–
ऐन्द्रमरुणमेति। अरुणस्य पशोर्गुणान्तरं विधत्ते–
अरुणो भ्रूमानिति। महती भ्रूरस्यास्तीति भ्रूमान। इन्द्रस्य सहस्त्राक्षत्वेन भ्रूबाहुल्यं स्वरूपम्। स्वप्रतिग्रहीतृकदानकामस्य पशुं विधत्ते-
सावित्रमिति। उपध्वस्तः संकीर्णवर्णः। सनिकामः परकर्तृकदानकामः। प्रसवानां प्रेरणनाम्। अस्मै यजमानार्थं परकर्तृकं दानं प्रसुवति प्रेरयति। संकीर्णवर्णं प्रशंसति
उपध्वस्त इति। राजसूये सावित्रं द्वादशकपासं क्षत्तुर्गृंह उपध्वस्तो दक्षिणेत्युक्तत्वात्सवितृदेवताकत्वम्। अन्नकामस्य पश्वन्तरं विधत्ते-
वैश्वदेवमिति। सांकर्यमन्तरेण विस्पष्टा बहवो वर्णा यस्यासौ बहुरूपः। पशुविशेषणं प्रशंसति-
बहुरूपो भवतीति। भक्ष्यभोज्यलेह्यचोष्यभेदेनान्नस्य बहुरूपत्वम्। ग्रामकामस्य पश्वन्तरं विधत्ते-
वैश्वदेवमिति। सजाता भ्रातरो भृत्यादयश्च। ते च बहुत्वसाम्येन विश्वेषां देवानां संबन्धिनः। पशुविशेषणं प्रशंसति-
बहुरूप इति। विश्वेषां देवानामेतत्स्वामित्वात्पशोर्बहुदेवत्यत्वम्। अज्ञात चिररोगग्रस्तस्य पशुं विधत्ते-
प्राजापत्यमिति। विस्पष्टानि रोगविशेषलक्षणानि न दृश्यन्ते, बलक्षयकार्श्यादिकं च दृश्यते, तदिदमज्ञातमिव भवति। प्रजापतिः पुरुषमसृजतेति श्रुतत्वात्पुरुषः प्राजापत्यः। चिकित्सकैरज्ञातो पि रोगविशेषः प्रजापतिना ज्ञायते। अतः प्रजापतिरेनं तस्मात्स्रामादज्ञातदीर्घरोगान्मोचयति।।
प्रजापतिवपाजन्यत्वेन पशुविशेषणं प्रशंसति तूपरो भवतीति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णजयुर्वेदीय- तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके
षष्ठोऽनुवाकः ।। ६ ।।

[[1089]]

१०८९
प्रपा. १ अनु. ७) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(ब्रह्मवर्चसकामादीनां पशुविधिः)