(अथ द्वितीयाष्टके प्रथमप्रपाठके तृतीयोऽनुवाकः)।
दे॒वा॒सु॒रा ए॒षु लो॒केष्व॑स्पर्धन्त॒ स ए॒तं वि-
ष्णु॑र्वाम॒नम॑पश्य॒त्तँ स्वायै॑ दे॒वता॑या॒ आऽल॑
भत॒ ततो॒ वै स इ॒माँ ल्लो॒कान॒भ्य॑जयद्वैष्ण॒वं
वा॑मनमा ल॑भेत॒ स्पर्ध॑मानो॒ विष्णु॑रे॒व भू॒त्वे
[[1070]]
१०७०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [द्वितीयाकाण्डे—
[जयादिहेतुपशुविधिः]
माल्लोँ॒कान॒भि ज॑यति॒ विष॑म॒ आ ल॑भेत॒ वि-
ष॑मा ए॒व हीमे लो॒काः समृ॑द्ध्या॒ इन्द्रा॑य
मन्यु॒मते॒ मन॑स्वते ल॒लामं॑ प्रशृ॒ङ्गमा ल॑भेत
संग्रा॒मे [] संय॑त्त इन्द्रि॒येण॒ वै म॒न्युना॒
मन॑मा संग्रा॒मं ज॑य॒तीन्द्र॑मेव॒ म॑न्यु॒मन्तं॒ मन॑-
स्वन्तँ॒ स्वेन॑ भा॒ग॒धेये॒नोप॑ धावति॒ स ए॒वा
स्मि॑न्निन्द्रि॒यं म॒न्युं मनो॑ दधाति॒ जय॑ति॒ तँ
संग्रा॒मामिन्द्रा॑य म॒रुत्व॑ते पृश्निस॒क्थमा ल॑भेत॒
ग्राम॑काम॒ इन्द्र॑मे॒व म॒रुत्व॑न्तँ॒ स्वेन॑ भाग॒धे-
ये॒नोप॑ धावति॒ स ए॒वास्मै॑ सजा॒तान्प्र य॑च्छति
ग्रा॒म्ये॑व भ॑वति॒ यदृ॑ष॒भस्तेन॑ (२) ऐ॒न्द्रो य-
त्पृश्नि॒स्तेन॑ मा॒रुतः समृ॑द्ध्यै प॒श्वात्पृ॑श्निस॒-
क्थो भ॑वति पश्चादन्ववसा॒यिनी॑मे॒वास्मै॒ विशं॑
करोति सौ॒म्यं ब॒भ्रुमा ल॑भे॒तान्न॑कामः सौ॒म्यं
वा अन्नँ॒ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धाव
ति॒ स ए॒वास्मा॒ अन्नं॒ प्र य॑च्छत्यन्ना॒प॒ ए॒व
भ॑वति ब॒भ्रुर्म॑वत्ये॒तद्वा अन्न॑स्य रू॒पँ समृ॑-
द्ध्यै सौ॒म्यं ब॒भ्रुमा ल॑भेत॒ यमल॑म् (३)
रा॒ज्याय॒ सन्तँ॑ रा॒ज्यं नोप॒नमे॑त्सौ॒म्यं वै रा॒-
ज्यँ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मै॑ रा॒ज्यं प्र य॑च्छ॒त्युपै॑नँ रा॒ज्यं न॑-
मति ब॒भ्रुर्भ॑वत्ये॒तद्वै सोम॑स्य रू॒पँ समृ॑-
द्ध्या॒ इन्द्रा॑य वृत्रतु॒रे॑ ल॒लामं॑ प्राशृ॒ङ्गमा ल॑
[[1071]]
१०७१
प्रपा. १ अनु. ०३] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
[जयादिहेतुपशुविधिः]
भेत ग॒तश्रीः॑ प्रति॒ष्ठाका॑मः पा॒प्मान॑मे॒व वृ॒त्रं
ती॒र्त्वा प्र॑ति॒ष्ठां ग॑च्छ॒तीन्द्रा॑याभिमाति॒घ्ने ल॒-
लामं॑ प्राशृ॒ङ्ग॑मा (४) ल॒भे॒त॒ यः पा॒प्मना॑
गृही॒त स्यात्प॒प्मावा अ॒भिमा॑ति॒रिन्द्र॑मे॒वा
भि॑माति॒हनँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स
ए॒वास्मा॑त्पा॒प्मान॑म॒मिमा॑तिं॒ प्र णु॑दत॒ इन्द्रा॑य
व॒ज्रिणे॑ ल॒लामं॑ प्राशृ॒ङ्गमा ल॑भेत॒ यमलँ॑
रा॒ज्याय॒ सन्तँ॑ रा॒ज्यं नोप॒नमे॒दिन्द्र॑मे॒व व॒
ज्रिणँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वा
स्भै॒ वज्रं॒ प्र य॑च्छति॒ म ए॑नं॒ वज्रो॒ भूत्या॑
इन्ध॒ उपै॑नँ॒ रा॒ज्यं न॑मति ल॒लाम॑ प्राशृ॒ङ्गो
भ॑वत्ये॒तद्वे वज्र॑स्य रूपँ समृ॑द्धयै (५)।।
(सं॒ग्रा॒मे तेनाल॑मभिमाति॒घ्ने ल॒लामं॑ प्राशृ॒ङ्गमै॒नं पञ्च॑दश च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
प्रथमपाठके तृतीयोऽनुवाकः।। ३ ।।
(अथ द्वितीयाकाण्डे प्रथमप्रपाठके तृतीयोऽनुवाकः)।
जलोदरगृहीतो यो ये वाञ्छन्ति पशुप्रथाम्।
ब्रह्मवर्चसकामो यो यो विद्वान्वक्तुमक्षमः।।
दीर्घरोगी प्रजाकामः सभारञ्जनवर्जितः।
पौरोहित्ये स्पर्धमानश्चैतेषां पशवः श्रुताः।।
तानेता न्पशून्द्वितीयानुवाके विधाय तृतीयानुवाके जयादिहेतून्पशून्विधित्स-न्नादौ लोकत्रयजयहेतुं पशुं विधातुं प्रस्तौति—
[[1072]]
१०७२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [२ द्वितीयकाण्डे—
[जयादिहेतुपशुविधिः]
देवासुरा इति। लोकेषु विषयभूतेषु वामनं ऱ्हस्वं पशुं स्वायै विष्णुरूपायै देवतायै। अथ विधत्ते—
वैष्णवमिति। स्पर्धमानो गृहक्षेत्रादिविषये विवादवान्। विष्णुप्रियहाविदा-नादस्योपचरितं विष्णुत्वम्। चोदकपरम्पराप्राप्तं समदेशमपवदितुं विधत्ते—
विषम इति। पृथिव्यादिलोकानामुत्तरोत्तरं विस्तृतत्वादभोगाधिक्याद्वा विष-मत्वम्। सोऽयं विषमदेशः समृद्ध्यै कल्पते। संग्रामार्थिनः पशुं विधत्ते—
इन्द्रायेति। मनस्वते धैर्यवते। ललामशब्दः श्वेपुण्ड्रवालाङ्कितललाटोपेत
ब्रूते। प्राशृङ्गो मुखं प्रत्यासन्नशृङ्गः पुंगवः। प्राशृङ्गो गौरिति भरद्वाजवचनात्। प्राशृङ्गोऽवाकशृङ्ग उक्षा वशा वेहद्धेनुर्वत्स ऋषभोऽनड्वान्पुनरुत्सृष्टो गोमृग इति गव्या इत्यापस्तम्बवचनात्। संयत्ते प्राप्ते सति। इन्द्रियं शारीरं बलम्। मन्युः शत्रुविषयः कोपः। मनो धैर्यम्। ग्रामार्थिनः पशुं विधत्ते—
इन्द्रायेति। मरुद्भिर्युक्तो मरुत्वान् पृश्निसक्यः श्वेतोरुः। सजातान्सहोत्प-न्नान्भ्रात्रादीन्सहवासिनो भूत्यादींश्च। पुंगवत्वं सक्थिश्वैत्यं च प्रशंसति—
यदृपभ इति। सेक्तृत्वसामान्येनेन्द्रसंबन्धित्वम् , वायव्यं श्वेतमित्युक्तत्वात्पृ-श्निवर्णस्य मारुतत्वं, तदुभयं समृद्ध्यै भवति। पुरोवर्तिनोरूर्वो पृश्निसक्थित्वं वारयितुं विधत्ते—
पश्चादिति। यजमानो ग्रामस्वामी प्रथमं यत्कार्य यथाऽध्यवस्यति तद्ग्राम-निवासिनी प्रजा पश्चाद्यजमानानुसारेणैव तत्कार्यमध्यवस्यति, न तु प्रातिकूल्यं चिन्तयतीति पश्चादन्ववसायिनी। अन्नार्थिनः पशुं विधत्ते—
सौम्यमिति। सोमो वा ओषधीना ँ राजेति श्रुतत्वादन्नस्य सौम्यत्वम्
अन्नादो व्याधिरहित्येन दीप्ताग्निः। पशुवर्ण प्रशंसति—
बभ्रुरिति। विदालितचणकाद्यन्नस्य प्रियंग्वादेर्वा रूपं पिङ्गलम्। राज्यप्रा-प्तिकामिनः पशुं विधत्ते—
सौम्यमिति। राज्ञो ज्येष्ठपुत्रत्वाच्छौर्यादिगुणसंपन्नत्वाद्राज्यायालं सन्तं सम्यग्योग्यं सन्तं यं पुरुषं प्रति राज्यं न प्राप्नुयात्तस्यायं पशुः सोमोऽस्माकं ब्रा-
ह्मणानाँ राजेति श्रुतत्वाद्राज्यं सौम्यम्। चन्द्रमण्डलस्य सुवर्णवर्णत्वाद्ब्रभ्रुत्वं सोमस्य रूपम् शत्रुबाधेन भ्रष्टश्रियः प्रतिष्ठार्थं पशुं विधत्ते—
[[1073]]