०२

(अथ द्वितीयाष्टके प्रथमपाठके द्वितीयोऽनुवाकः)।
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑स्मात्सृ॒ष्टाः
परा॑चीराय॒न्ता वरु॑णमगच्छ॒न्ता अन्वै॒त्ताः
पुन॑रायाचत ता अ॑स्मै॒ न पुन॑रदा॒त्सो॑ऽब्रवी॒द्वरं॑
वृणी॒ष्वाथ॑ मे॒ पुन॑र्दे॒हीति॒ तासां॒ वर॒माऽल॑भत॒
स कृ॒ष्ण एक॑शितिपादभव॒द्यो वरु॑णगृहीतः॒
स्यात्स ए॒तं वा॑रु॒णं कृ॒ष्णमेक॑शितिपाद॒मा
ल॑भेत॒ वरु॑णम् (१) ए॒व स्वे॑न भाग॒धेये॒नोप॑
धावति॒ स ए॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति कृ॒ष्ण
एक॑शितिपाद्भवति वारु॒णो ह्ये॑ष दे॒वत॑या॒
समृ॑द्ध॒यै सुव॑र्भानुरासु॒रः सूर्यं॒ तम॑साऽविध्य॒-
त्तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्य॒ यत्प्र॑थ॒मं
तमो॒ऽपाघ्न॒म्त्सा कृ॒ष्णाऽवि॑रभव॒द्यद्द्वि॒तीयँ॒

[[1063]]

१०६३
प्रपा. १ अनु. २] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(बरुणगृहीतापशुविधानम्)
सा फल्गु॑नी॒ यत्तृ॒तीयँ॒ सा व॑ल॒क्षी यद॑ध्य॒-
स्थाद॒पाकृ॑न्त॒न्त्साऽविर्वशा (२) सम॑भवत्ते
दे॒वा अ॑ब्रुवन्देवप॒शुर्वा अ॒यँ सम॑भूत्कस्मा॑
इ॒ममा ल॑प्स्यामह॒ इत्यथ॒ वै तर्ह्यल्पा॑ पृथि॒-
व्यासी॒दजा॑ता॒ ओष॑धय॒स्तामविं॑ व॒शामा॑दि॒-
त्येभ्यः॒ कामा॒याऽल॑भन्त ततो॒ वा अप्र॑थत
पृथि॒व्यजाय॒न्तौष॑धयो॒ यः का॒मये॑त॒ प्रथे॑य
प॒शुभिः॒ प्र प्र॒जया॑ जाये॒येति॒ स ए॒तामविं॑ व॒-
शामादि॒त्येभ्यः कामा॑य [३] आ ल॑भेता-
ऽऽदि॒त्याने॒व कामँ॒ स्वेन॑ भाग॒धये॒नोप॑ धा
वति॒ त ए॒वैनं॑ प्रथय॑न्ति प॒शुभिः॒ प्र प्र॒जया॑
जनयन्त्य॒सावा॑दि॒त्यो न व्य॑रोच॒त तस्मै॑ दे॒वाः
प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒ता म॒ल्हा आऽल॑-
भन्ताऽऽग्ने॒यीं कृ॑ष्णग्री॒वीँ सँ हि॒तामै॒-
न्द्रीँ श्वे॒तां बा॑र्हस्प॒त्यां ताभि॑रे॒वास्मि॒न्रुच॑-
मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑मः स्यात्तस्मा॑ ए॒ता
म॒ल्हा आ ल॑भेत [४] आ॒ग्ने॒यीं कृ॑ष्णग्री॒-
वीँ सँ॑ हि॒तामै॒न्द्रीँ श्वे॒तां बा॑र्हस्प॒त्यामे॒ता
ए॒व दे॒वताः॒ स्वेन॑ भाग॒धेये॒नो॑प धावति॒ ता
ए॒वास्मि॑न्ब्रह्मव॒र्चसं द॑धति ब्रह्मवर्च॒स्येव भ॑-
वति व॒सन्ता॑ प्रा॒तरा॑ग्ने॒यीं कृ॑ष्णग्री॒वीमा ल॑
भेत ग्री॒ष्मे मध्यंदि॑ने सँहि॒तामै॒न्द्रीँ श॒रद्य॑-

[[1064]]

१०६४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [२ द्वितीयकाण्डे—
[वरुणगृहीतादिपशुविधानम्]
परा॒ह्णे श्वे॒तां बा॑र्हस्प॒त्यां त्रीणि॒ वा आ॑दि॒-
त्यस्य॒ तेजाँसि व॒सन्ता॑ प्रा॒तर्ग्री॒ष्मे म॒ध्यंदि॑-
ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजाँ॑ सि॒ तान्ये॒-
व [५] अव रुन्धे संवत्स॒रं प॒र्याल॑भ्यन्ते
संवत्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता संवत्स॒र
ए॒वास्मै॑ ब्र॑ह्मवर्च॒सं प्र य॑च्छति ब्रह्मवर्च॒स्येव
भ॑वति ग॒र्भिण॑यो भवन्तीन्द्रि॒यं वै गर्भ॑ इन्द्रि॒-
यमे॒वास्मि॑न्दधति सारस्व॒तीं मे॒षीमा ल॑भेत॒
य ई॑श्व॒रो वा॒चो वदि॑तोः॒ सन्वाचं॒ न वदे॒-
द्वाग्वै सर॑स्वती॒ सर॑स्वतीमे॒व स्वेनः॑ भाग॒धेये॒-
नोप॑ धावति॒ सैवास्मि॑न् [६] वा॑चं॑ दधाति
प्रवदि॒ता वा॒चो भ॑व॒त्यप॑न्नदती भवति॒ तस्मा॑-
न्मनु॒ष्याः॑ सर्वां॒ वाचं॑ वदन्त्याग्ने॒यं कृ॒ष्णग्री॑-
व॒मा ल॑भेत सौ॒म्यं ब॒भ्रुं ज्योगा॑मयाव्य॒ग्निं वा
ए॒तस्य॒ शरी॑रं गच्छति॒ सोमँ॒ रसो॒ यस्य॒
ज्योगा॒मय॑त्य॒ग्नेरे॒वास्य॒ शरी॑रं निष्क्री॒णाति॒
सोमा॒द्रस॑मु॒त यदीतासु॒र्भव॑ति॒ जीव॑त्ये॒व सौ॒म्यं
ब॒भ्रुमा ल॑भेताऽऽग्ने॒यं कृ॒ष्णग्रीवं प्र॒जाका॑मः
सोमः॑ [७] वै रे॑तो॒धा अ॒ग्निः प्र॒जानां॑ प्रज
नयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑त्य॒ग्निः प्र॒जां
प्र ज॑नयति वि॒न्दते॑ प्र॒जामा॑ग्ने॒यं कृ॒ष्णग्री॑व॒मा
ल॑भेत सौ॒म्यं ब॒भ्रुं यो ब्रा॑ह्म॒णो वि॒द्याम॒नूच्य॒

[[1065]]

१०६५
प्रपा. १ अनु. २) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
[वरुणगृहीतादिपशुविधानम्]
न वि॒रोचे॑त॒ यदा॑ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒-
न्तेन॑ दधाति यत्सौ॒म्यो ब्र॑ह्मवर्च॒सं तेन॑ कृ॒-
ष्णग्री॑व आग्ने॒यो भ॑वति॒ तम॑ ए॒वास्मा॒दप॑
हन्ति श्वे॒तो भ॑वति [८] रुच॑मे॒वास्मि॑न्दधा-
ति ब॒भ्रुः सौ॒म्यो भ॑वति ब्रह्मवर्च॒समे॒वास्मि॒-
न्त्विषिं॑ दधात्याग्ने॒यं कृ॒ष्णग्रीवमा ल॑भेत
सौ॒म्यं ब॒भ्रुमा॑ग्ने॒यं कृ॒ष्णग्री॑वमा पुरो॒धायाँ॒
स्पर्ध॑मान आग्ने॒यो वै ब्रा॑ह्म॒णः सौ॒म्यो रा॑ज॒-
न्यो॑ऽमितः॑ सौ॒म्यमा॑ग्ने॒यौ भ॑वत॒स्तेज॑सै॒व ब्रह्म॑-
णोभ॒यतो॑ रा॒ष्ट्रं परि॑ गृह्णात्येक॒धा स॒मावृ॑ङ्क्त
पु॒र ए॑नं दधते [९] ।।
ल॒भे॒त॒ वरु॑णं व॒शैतामविं॑ व॒शामा॑दि॒त्येभ्यः॒ कामा॑य म॒ल्हा आ ल॑भेत॒
तान्ये॒व सैवास्मि॒न्त्सोमः॑ श्वे॒तो भ॑वति॒ त्रिच॑त्वारिँशच्च।
इति कृष्णयजुर्वेदीयतैत्तिरीसंहितायां द्वितीयाष्टके
प्रथमपाठके द्वितीयोऽनुवाकः ।। २ ।।

अथ द्वितीयकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः।
भूतिकामो ग्रामकामः प्रजार्थी दीर्घरोगवान्।
प्रजापश्वर्थिनौ चैषां श्वेताद्याः पशवः श्रुताः।।
तानेतान्पशून्प्रथमानुवाके विधाय द्वितीये वरुणगृहीतादीनां पशव उच्यन्ते।
तत्र वरुणगृहीतस्य पशुं विधातुं प्रस्तौति—
प्रजापतिरिति। प्रजापतिना सृष्टाः प्रजाः पराचीः पराङमुख्योऽपरक्ता

[[1066]]

१०६६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— (२द्वितीयकाण्डे—
(वरुणगृहहीतादिपशुविधानम्)
सत्योऽस्मात्प्रजापतेरायन्नगच्छन्। गत्वा च वरुणं प्राप्तः। स च प्रजापतिस्ताः
प्रजा अनुगम्य मदीयाः प्रजाः पुनरपि मह्यमेव देहीति वरुणप्रयाचत। वरुणस्तु
न ददौ। ततः स प्रजाचतिर्वरुणमिदमब्रवोत्—एतासां प्रजानां मध्ये वरं श्रेष्ठं गृहीत्वाऽवशिष्टास्ता मह्यं देहीति। स च वरुणस्तासां प्रजानां मध्ये वरं श्रेष्ठं कं-
चित्पशुं मदीयोऽयमिति हस्तेनास्पृशत्। स च परीक्ष्यमाणः कृष्णवर्णः सन्नेकेन
श्वेतेन पादेन युक्तोऽभूत। विधत्ते—
य इति। वरुणगृहीतो जलजन्येन महोदरव्याधिना गृहीतः। पशुविशेषणं प्रशंसति—
कृष्ण इति। ईदृशं पशुं वरुणः प्रत्याहृतवानिति तस्य वरुणदेवताकत्वम्।
स च यजमानस्याऽऽरोग्यसमृद्ध्यै संपद्यते।
पशुप्रतिपादिकामाख्यायिका वशां विधातुं प्रस्तौति—
सुवर्भानुरिति। सुवभानुरित्यासुरस्य कस्याचिन्नामधेयम्। स्वर्गलोकगतां
प्रभां नुदतीति सुवर्भानुः । स च पृथिव्या रूपं धृत्वा कृष्णवर्णः। तमःपूञ्जरू
पत्वं “यत्वा सूर्य स्वर्भानुस्तमसाऽविध्यदासुरः” इत्येतस्यामृचि स्पष्टमाम्नातम्। पृथिव्याश्च कृष्णरूपत्वं लोके बहुलं दृश्यते। छन्दोगाश्च यत्कृष्णं तदन्नस्येत्यन्न- कारणभूतायाः पृथिव्याः कृष्णरूपत्वामामनन्ति। अतस्तभःपूञ्जरूपः स आसूरः स्वकीयेन तमसा सूर्यमाच्छाद्य जगदान्ध्यं कृतवान्। तस्मै तस्य सूर्यप्रभाच्छाद-कस्यतमराः प्रायश्चितिं परिहारं विचायै नानाविधेः प्रकाशरूपैर्मण्यादिद्रव्यैस्त- मोऽपाघ्नश्चतुर्भिः पर्यायैरपसारितवन्तः। प्रथमपर्यायेऽपसृतं तमः कृष्णवर्णा का-चिदविरभूत्। द्वितीयपर्याये फल्गुनी लोहितवर्णा काचिदविरभूत्। तृतीयपर्याय
वलसी श्वेता काचिदविरभूत्। अस्थ्नोऽध्यूपरि वर्तमान प्रकाशोऽध्यस्थः। कस्यचिन्मृतदेहस्य दीप्यमानमस्थि समादाय तदीयात्प्रकाशाच्चतुर्थपर्याये तमोऽ-पाकृन्तन्नपनीतवन्तः। तच्च तमो वशा बन्घ्या काचिरविरभूत्। ततो देवा वि-
चार्य परस्परमिदमब्रुवन् दैव्यादस्थ्नो जातत्वादयमुत्तमो देवपशुः। तमेतं कस्मै कामायोत्तमप्रयोजनायाऽऽ लब्धं करिष्याम इति। अथ विचारादूर्ध्वं तार्हि तदानी-
मेव पृथिव्या अल्पत्वमोषधीनामनुत्पत्तिं च दोषद्वयमवेक्ष्य तत्परिहाररूपाय कामाय समर्थेभ्य आदित्येभ्यस्तां वशामालभ्य पृथिवीविस्तारमोषध्युत्पतिं च संपादित-
वन्तः। विधत्ते—

[[1067]]

१०६७
प्रपा. १ अनु. २) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
[वरुणगृहीतादिपशुविधानम्]
यः कामयतेति। पशुभिः प्रथेम पशुबाहुल्यलक्षणं विस्तारं प्राप्नुयाम्। प्रजया पुत्रपौत्रादिरूपया प्रकृष्टो जायेय भवेयम्। कामाय कामप्रापकेभ्य इत्यर्थः। ब्रह्मवर्चसकामस्य पशुविधानाय प्रस्तौति—
असावादित्यो नेति। पूर्ववत्तमोवेधरहितोऽप्यादित्यः कदाचित्प्रकाशमा-न्द्याद्विशेषेण न दीप्तवान्। तस्मै तदर्थमेता वक्ष्यमाणा मल्हा गललम्बितस्तनान्वि-
ता अजाः श्वेतास्तिस्त्र आलभन्त। कृष्णा ग्रीवा यस्याः सा कृष्णग्रीवी। वीवा-व्यतिरिक्तप्रदेशेषु वर्णान्तरोपेतेत्यर्थः। कृत्स्नेऽपि शरीरप्रदेशे भेदस्थितैलाहितशु-क्लकृष्णवर्णैर्युक्ता सहिता। विधत्ते—
यो ब्रह्मवर्चसकाम इति। श्रुताध्ययगसंपत्तिरूपं तेजो ब्रह्मवर्चसम्।
उक्तस्य पशुत्रयस्य प्रयोगार्थं पशुविशेषं कालविशेषं च विधत्ते—
वसन्तेति। प्रातरादिकालेषूप्राकरणं वपायागो वा यथा भवति तथा प्रार-
भेत। वसन्तर्तौ प्रातःकाले वर्षास्विव तीव्रमेघावरणाभावाध्देमन्तशिशिरयोरिव नीहारावरणाभावाच्चाऽऽदित्यस्य तेजः स्पष्टं प्रकाशते। ग्रीष्मर्तौ मध्याहने प्रका-शाधिक्यमतिस्पष्टम्। शरदृतावपराह्णे सूर्यतेजः सेव्यं भवति । प्रातर्मध्यंदिन-योर्बालातपस्य तीव्रातपस्य च जरादिहेतुत्वादसेव्यत्वम्। तान्येतादि यथोक्तान्यादित्यस्य त्रीणि तेजांसि प्रशस्तानि। अतस्तत्कालानुष्ठानेन प्रशस्ततेज संपत्तिर्भवति। व्रतोपक्रममारभ्य संवत्सरपर्यन्तं ब्रह्मचर्यादिनियमं विधत्ते—
संवत्सरमिति। एकत्मिन्संवत्सरे निरन्तरं नियमं परिगृह्य तादृशेन पुरुषेण
ताः स्वस्वकाल आलभ्यन्ते। उपनीतस्य माणवकस्य संन्धावन्दनाद्याचारशिक्षा संवत्सरेण सम्यक्संपद्यत इति संवत्सरस्य ब्रह्मवर्चसप्रदातृत्वम्। उक्तपशुषु कंचि-
द्गुणं विधत्ते—
गर्भिणय इति । गर्भिणयस्तिस्रोऽपि गर्भयुक्ताः। विद्वत्समाजयार्थित्वका-
मिनः पशुं विधत्ते—
सारस्वतीमिति। वेदशास्त्राद्यभ्यासपाटवेन वाचो वदितुं समर्थोऽपि सभा-कम्पादिना यो न वदेत्तस्यायं पशुः। तस्मिन्पशौ कंचिद्गुणं विधत्ते—
अपन्नदतीति। अपन्नदती दन्तपातरहिता। लोकेऽपि सदन्ताः पुरुषा

[[1068]]

१०६८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [२ द्वितीयकाण्डे—
[वरुणगृहीतादिपशुविधानम्]
वर्णलोपमन्तरेण संपूर्णां वाचं वन्दति। तीव्ररोगसहितस्य पशुद्वयोपेतं कर्म विधत्ते—
आग्नेयमिति। बभ्रुः पिङ्गलः। शरीरे प्राणस्य बन्धकः सूक्ष्मो योऽन्नस्य रसः स सोमं प्राप्नोति । भोजनरुचौ व्याधिना भिभुतायां भुक्तान्नरसः शरीरे न प्रविशति, किंतु सोमाधिष्ठितौषधिकार्य एवान्नेऽवातिष्ठते। सेयं रसस्य सोम प्राप्तिः। ततोऽग्निर्मासादिकं शोषयति। सेयं शरीरस्याग्निप्राप्तिः।
प्रजाकामस्य द्विपशुकं कर्म विधत्ते—
सौम्यमिति। विदुषो जनानुरागाय द्वपशुकं कर्म विधत्ते—
आग्नेयमिति। पूर्वं सभायां मूकीभूतस्य कर्मोक्तम्। इदानीं प्रवदतोऽपि पारुष्यवचनेनाप्रस्तुतप्रसङ्गेन वा सभास्थितेभ्यो रुच्यभावे सति रुचिं कामयमा नस्येदं कर्मेति विशेषः। तेनाऽऽग्नेयत्वेन तेजः प्रतिवादिभिरप्रधृष्यत्वमस्मिन्यज माने स्थापयति। तेन सौम्यत्वेन ब्रह्मवर्चसं प्रसङ्गोचितवेदशास्त्रवचनस्फूर्तिरूपम स्मिन्दधाति। कृष्णग्रीवगुणकस्याऽऽग्नेयत्वेन बुद्धिमान्द्यरूपं तमोऽस्मादपहन्ति। ग्रीवारिक्तप्रदेशे श्वैत्येन रुचमेव समोचितनुरञ्जनरूपां प्रभामेवास्मिन्दधति। बभ्रुत्वेसति सौम्यत्वेन पूर्वोक्तं ब्रह्मवर्चतसं प्राप्तस्य त्विषिर्दीप्तिर्जनानुरागातिशयो भवति। पौरोहित्यस्पर्धावतिस्त्रपशुकं कर्म विधत्ते—
आग्नेयमिति। ब्राह्मणस्याग्निना सह मुखजन्यत्वसाम्येनाग्नियत्वम्। सोमराजन्नित्यादिमन्त्रेण सोमस्य राजत्वेन व्यवहारद्राजन्यः सौम्यः। सौम्यस्यामितः पुरस्ताच्चोपरिष्टाच्चाऽऽग्नेयानुष्ठाने सति राष्ट्रमुभयतो ब्रह्मणा तेजसैव परिगृह्णाति। वेदशास्त्रप्रयुक्तेन पौरोहित्यलक्षणेन ब्राह्मणोचितेन तेजसैव सर्वतो राष्ट्रं वशीकरोतीत्यर्थः। तदानीं प्रतिस्पर्धिनमेकधा क्षणमात्रेण समावृङ्क्ते सम्यग्जयति। ततो राजामात्यादय एनं पुरो दधते पौरोहित्यपदे स्थापयन्ति।
अत्र मीमांसा।
एकादशाध्यायस्य प्रथमपादे चिन्तितम्—
“कृष्णग्रीवद्वये तन्वं पृथग्वा देवतैक्यतः।
तन्वं सौम्यव्यवायेन कालभेदात्पृथग्भवेत्”।। इति।
काम्यपशुकाण्डे श्रूयते—-“आग्नेयं कृष्णग्रीवमालभेत सौम्यं बभ्रुमग्नियं
कृष्णग्रीवं पुरोधायाँ स्पर्धमानः” इति। अयमर्थः- ममैव पौरोहित्यमस्तु नान्य-

[[1069]]

१०६९
प्रपा. १ अनु. ३] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
[जयादिहेतुपशुविधिः]
स्येत्येवं स्पर्धोपतो यथोक्तवर्णोपेतं पशुत्रयमालभेतेति। तत्राऽऽद्यन्तयोः कृष्णग्रीवयोः पश्वोदेवतैक्यात्तन्त्रेणानुष्ठानमिति चेन्मैवम्। सौम्यपशुना व्यवयाने सतिकालैक्याभावेन तत्रासंभवात्। तस्मादावापः।
प्रथमाध्यायस्य चतुर्थपादे चिन्तितम्—
“आग्नेयो ब्राह्मणोऽत्रापि पूर्ववत्सर्वनिर्णयः।
द्वारं तु मुखजन्यत्वमाग्नेयत्वेन संस्तवे” इति।
इदमाम्नायते — “आग्नेयो वै ब्राह्मणः” इति। अत्राप्यन्तप्रसिद्धार्थभेदादा-ग्नेयशब्दो न ब्राह्मणस्य नामधेयं, नाप्यग्निदेवतारूपो गुणो विधियते। आग्नेयं सूक्तमाग्नेयं हविरित्येवं देवतातद्धितस्य सूक्तहविर्विषयत्वात्। न हि ब्राह्मणः
सूक्तं नापि हविः। ततः। संबन्धवाचितद्धितान्तेनाऽऽग्नेयशब्देन ब्राह्मणाः स्तूयते। यद्यपि ब्राह्मणे नाग्निसंबन्धस्तथाऽप्यग्निसंबन्धो मुखजन्यत्वगुणो ब्राह्मणे विद्यते। तथा चाग्निब्राह्मणयोर्मुखजन्यत्वं कस्मिंश्चिदर्थवादे समाम्नायते प्रजाप्रतिरका
मयत प्रजायेतेति स मुखतस्त्रिवृतं निरमिमीत तमग्निर्देवताऽन्वसृज्यत गायत्री छन्दो रथंतरँ साम ब्राह्मणो मनुष्याणामजः पशूनां तस्मात्ते मुख्या मुख्यतो ह्यसृज्यन्त इति। तस्मादाग्नेयशब्दः स्तावकः। एवमैन्द्रो राजन्यो वैश्यो वैश्वदेव इत्यादिषु द्रष्टव्यम्।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-
र्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमपाठके
द्वितीयोऽनुवाकः।। २ ।।