०१

(तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः)
ह॒रिः॒ ॐ।
वा॒य॒व्यँ॑ श्वे॒तमा ल॑भेत॒ भूति॑कामो वा॒युर्वै
क्षेपि॑ष्ठा दे॒वता॑ वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ स ए॒वैनं॒ भूतिं॑ गमयति॒ भव॑त्ये॒वाति॑
क्षिप्रा दे॒वतेत्या॑हुः॒ सैन॑मश्वि॒रा प्र॒दह॒ इत्ये॒त
मे॒व सन्तं॑ वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत नि॒यु-
द्वा अ॑स्य॒ धृति॑र्धृ॒त ए॒व भूति॒मुपै॒त्यप्र॑दाहाय॒
भव॑त्ये॒व (१) वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत॒

[[1050]]

१०५०

श्रीमत्सायणाचार्यविरचितभाष्यसमेता [२ द्वितीयकाण्डे –
(ऐश्वर्यादिकामिनां तत्तत्पशुविधानम)
ग्राम॑कामो वा॒युर्वा इ॒माः प्र॒जा न॑स्यो॒ता
ने॑नीयते वा॒युमे॒व नि॒युत्व॑न्तँ॒ स्वेन॑ भाग॒धे-
ये॒नोप॑ धानति॒ स ए॒वास्मै॑ प्र॒जा न॑स्यो॒ता नि
य॑च्छति ग्रा॒म्ये॑व भ॑वति नि॒युत्व॑ते भवति
घ्रु॒वा ए॒वास्मा॒ अन॑पगाः करोति वा॒यवे॑
नि॒युत्व॑त॒ आ ल॑भेत प्र॒जाका॑मः प्रा॒णो वै
वा॒युर॑पा॒नो नि॒युत्प्रा॑णापा॒नौ खलु॒ वा ए॒तस्य॑
प्र॒जायाः॑ [२] अप॑ क्रामतो॒ योऽलं॑ प्र॒जा-
यै॒ सन्प्र॒जां न वि॒न्दते॑ वा॒युमेव नि॒युत्व॑न्तँ॒
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प्राणा-
पानाभ्यां॑ प्र॒जां प्र प्र॑जनयति वि॒न्दते॑ प्र॒जां
वा॒यवे॑ नि॒युत्व॑त आ ल॑भेत॒ ज्योगा॑मयावी
प्रा॒णो वै वा॒युर॑पा॒नो नि॒युत्प्रा॑णापा॒नौ खलु॒
वा ए॒तस्मा॒दप॑ क्रामतो॒ यस्य॒ ज्योगा॒प्रय॑ति
वा॒युमे॒व नि॒युत्व॑न्तँ॒ स्वेन॑ भा॒ग॒धेये॒नोप॑ (३)
धा॒व॒ति॒ स ए॒वास्मि॑न्प्राणापा॒नौ द॑धात्यु॒त
यदी॒तासु॒र्भव॑ति जीव॑त्ये॒व प्र॒जाप॑ति॒र्वा इ॒दमेक॑
आसी॒त्सो॑ऽकामयत प्र॒जाः प॒शून्त्सृ॑जे॒येति॒ स
आ॒त्मनो॑ व॒पामुद॑क्खिद॒त्ताम॒ग्नौ प्रागृ॑हणा॒त्त-
तो॒ऽजस्तू॑प॒रः सम॑भव॒त्त ँ स्वायै॑ दे॒वता॑या॒
आऽल॑भत॒ ततो वै स प्र॒जाः प॒शून॑सृजत॒ यः
प्र॒जा॑कामः (४) प॒शुका॑मः स्यात्स ए॒तं

[[1051]]

१०५१
प्रपा.१ अनु. १] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(ऐश्वर्यादिकामिनां तत्तत्पशुविधानम्)
प्रा॑जाप॒त्यम॒जं तू॑प॒रमा ल॑भेत प्र॒जाप॑तिमे॒व
स्वेन॑ भाग॒धेयेनोप॑ धावति॒ स ए॒वास्मै॑ प्र॒जां
प॒शून्प्र ज॑नयति॒ यच्छ्म॑श्रु॒णस्तत्पुरु॑षाणा ँ
रूपं॒ यत्तू॑परस्तदश्वा॑नां॒ यद॒न्यतो॑दन्तद्गवां॒
यदव्या॑ इव श॒फास्तदवी॑नां॒ यद॒जस्तद॒जाना॑-
मे॒ताव॑न्तो॒ वै ग्रा॒म्याः प॒शव॒स्तान् [५] रूपे॒-
णैवा॒व॑ रुन्धे सोमापौ॒ष्णं त्रै॒तमा ल॑भेत प॒शु
का॑मो॒ द्वौ वा अ॒जायै॒ स्तनौ॒ नानै॒व द्वाव॒भि
जाये॑ते॒ ऊर्जं॒ पुष्टिं॑ तृ॒तीयः॑ सोमापू॒षणा॑वेव
स्वेन॑ भाग॒धेये॒नोप धावति॒ तावे॒वास्मै॑ प॒शू-
न्प्र ज॑नयतः॒ सोमो॒ वै रे॑तो॒धाः पू॒षा प॑शू॒नां
प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा
प॒शून्प्र ज॑नय॒त्यौदु॑म्बरो॒ यूपो॑ भ॒वत्यूर्ग्वा उ॑-
दु॒म्बर॒ ऊर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्जं॑ प॒शूनव॑
रुन्धे (६)।।
(अप्र॑दाहाय॒ भव॑त्ये॒व प्र॒जाया॑ आ॒मय॑ति वा॒युमे॒व नि॒युत्व॑न्तँ॒ स्वेन॑
भाग॒धेये॒नोप॑ प्र॒जाका॑म॒स्तान्यूप॒स्त्रयो॑दश च)।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयाष्टके
प्रथमप्रपाठके प्रथमोऽनुवाकः ।। १ ।।

(अथ द्वितीयकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः)।
तत्र च प्रथमानुवाकस्याऽऽदावैश्वर्यकामिनः पशुं विधत्ते-
वायव्यमिति। वायुर्देवता यस्य पशोः सोऽयं वायव्यः। स च श्वेतवर्णः।

[[1052]]

१०५२

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [२ द्वितीयकाण्डे-
(ऐश्वर्यादिकामिनां तत्तत्पशुविधानम्)
तमालभेत संस्पृशेत्। बर्हिःप्लक्षशाखाभ्यां यागार्थमुपाकुर्यादित्यर्थः। यद्यप्यत्र यजेतेति न श्रूयते तथाऽपि द्रव्यदेवतात्मकस्य यागरूपस्य श्रूयमाणत्वादन्यथाऽ नृपपत्त्या वायव्येन यजेतेत्येवं यागः कल्पनीयः। न च सत्सु सहस्त्रसंख्याकेषु देवेषु कुतो वायुरेवापेक्ष्यत इति शड़्कनीयम्। वायोरतिशयेन क्षिप्रगामिदेवत्वात् श्वेतपशुष्वतिमियत्वाद्भायोः स्वकीयो भागः। स्वार्थे धेयप्रत्ययः। यद्वा वर्णव्य त्ययेन दातव्यत्वमुच्यते। सेन च भांगधेयेनासाधारणेन वायुमेवोपधावति॒ समीपं प्राप्नोतिसवत इत्यर्थः। इतरदेवानामास्मिन्पशावत्यन्तप्रयत्वाभावाद्वायुमेवेत्यवधार्यते। यद्वा यजमानस्यानादरव्यावृत्त्यर्थमुपधावत्येवेति योज्यम्। तेन तुष्टः स वायुरेवैनं यजमानमैश्वर्य गमयति पूर्ववद्गमयत्येवेति योज्यम्। तदनुग्रहादयं भवत्ये वैश्वर्य प्राप्नोत्येव। विशेषं विधत्ते—
अतिक्षिप्रेति। अत्राभिज्ञाः पूर्वोक्तविशेषेण वायुदेवताऽत्यन्तं क्षिप्रकारिणी त्येतद्गुणदोषाभिज्ञाः सन्तः प्रथममाहुः। सा चोग्रा देवतैनं यजमानं प्रदहः प्रद ग्धुमीश्वरा समर्थेति चाभिप्रायं प्रकटयन्ति। वायौ क्षिप्रं वाति सति जाज्वल्य मानोऽग्निर्गृहान्दहल्ँ लोको दृश्यते। अतोऽग्निद्वारा वायोर्दाहकत्वम्। तत्परिहर्तुं नियुद्विशेवणयुक्ताय वायवे पशुमालभेत। नितरां युता रथे मिश्रिता इति नियुतो वायोरधास्तेऽस्य सन्तीति नियुत्ववान्। अत एव तदीयाज्यानुवाक्याप्रतिपादके पीवोऽन्ना ँ रयिवृध इत्यस्मिन्सूक्ते शतसहस्त्रसंख्यामिरश्वजातिभिवीयोर्गमनमाम्ना यते—“आ तो नियुद्धिः शतिनीमिरध्वर ँ सहस्त्रिणीभिरुपयाहि यज्ञम्। वायो अस्मिन्हविषि मादयस्व” इति येयं नियुत्सज्ञकाऽश्वजातिः सैवास्य वायोर्धृतिर्धारयित्री। नहि वाहनेषु अश्वेषु शनैर्गच्छत्सु वायुः क्षिमं गन्तुं शक्नोति। तेन नियुदेवास्य धृतिर्धारणमतो नियुत्वतो वायोर्हविष्प्रदानेन यजमानोऽपि धृत एवाविनष्ट एव सन्नैश्वर्यं प्राप्नोति। तच्चैंश्वर्यमप्रदाहाय भवत्येव नियुत्वतो वायो रनुग्रहेण धैर्ययुक्तस्य यजमानस्य स्वकीयान्पुरुषान्नियन्तुं स्वकीयद्रव्यमाविनाशेन पालयितुं च समर्थत्वान्मनःसंतापरूपः प्रदाहः सर्वथा न भवत्येव। तमेव पशुं फलान्तराय विधत्ते—
वायव इति। नासिकायामोता नस्योताः। यथा लोके बलीवर्दा नासिकाछिद्रे रज्जुबन्धने सति सुखेन नयिन्ते तद्वत्सर्वाः प्रजा ग्रामवासिनीरधीनाः

[[1053]]

१०५३
[प्रपा. १ अनु. १] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(ऐश्वर्यादिकामिनां तत्तत्पशुविधानम्)
कृत्वा वायुस्तव तत्र भृशं नयति। स च वायुः पशुना तष्ट सर्वाः प्रजा यजमानावीनाः करोतिः। स्वाधीनप्रजो यजमानो ग्रामस्वामी भवत्येव। देवतागुणं प्रशंसति—
नियुत्वत इति। नियुत्वद्गुणयुक्ताय पशुर्भवतीति यत्तेन ग्रामस्थाः सर्वाः प्रजा अस्मिन्यजमाने ध्रुवा अनुरक्ताः करोति न तु ताः कदाचिदप्यपरक्ता भवन्ति। पुनरपि फलान्तराय विधत्ते—
वायव इति। प्रकर्षेणानिति मुखबिलाद्बहिश्चेष्टत इति प्राणाः। वायुश्च तथाविधः।अपकर्षेण मुखादधस्तादुदरस्यान्तरानिति चेष्टत इत्यपानः। नियुच्छब्दो नितरां यौति मिश्री भवतीति व्युत्पत्त्या तथाविधमर्थमाचष्टे। यः पुरुषः प्रजार्थमलं सन्ननुकूलस्त्रीयुक्तः सन्युवा च सन्नपत्यं न लभत एतस्य पुरुषस्य प्रजायाः सकाशात्प्राणापानावपक्रान्तौ भवतः। अपत्यलाभाभावेन पुरुषेण गर्भाशये निषिक्ते रेतसि नियुत्वतो वायोरनुग्रहाभावात्प्राणापानयुक्तं जीवान्तरं न प्रविशति। एतदेवाभिप्रेत्यैतरेयोपनिषदि श्रूयते—“न ह वा ऋते प्राणाद्रेतः सिच्यते यद्वा ऋते प्राणाद्रेतः सिच्यते पूयेन्न संभवेत्” इति। नियुत्वान्वायुर्भागवेयेन तुष्टो यजमानार्थ तदीयरेदसि प्राणापानाभ्यां युक्तं जीवं प्रवेश्य प्रजाः प्रजनयति। ततो यजमानः पुनं लभते। पुनरपि फलान्तराय विधत्ते–
वायवे नियुत्वत इति। ज्योगामयावी दीर्घरोगयुक्तः। यस्य ज्योगामयति यं पुरुषं चिरपामयो बाधत एतस्मात्प्राणापानावतिकान्तुमुद्य दौ। अस्मिन्यप्राणापानौ दधाति चिरं स्थापयति। अपि च यदि कथंचिद्भूमौ शयानो रुग्णो मुहूर्तमात्रं याममात्रं वा परेतो भवेत्तयाऽपि वायोरनुग्रहादागतप्राणो जीवत्येव। कर्मान्तरं विधातुं प्रस्तौति—
प्रजापतिरिति। यदिदं प्रजापशुरुपं जगदिदानीं दृश्यते तदिंद सृष्टेः पूर्वं प्रजापतिरेक आसीत्प्रजापतिरेव स्थितो नान्यत्किंचिदित्यर्थः। स च प्रजापशुसृष्टिकामस्तत्साधनत्वेन स्वशरीरादुदरमध्यवर्तिनीं पटसदृशीं वपामुदक्खिददुत्खि द्योध्तृवान्। तां च वपामग्नौ प्रक्षिप्तवान्। ततो दग्धाया वपाया अजस्तूपरः शृङ्गरहितः समुत्पन्नः। तं चाजं स्वात्मरूपां देवतामुद्दिश्याऽऽलभत्। तत्कर्मासामर्थ्यात्प्रजाः पशूनसृजत। ननु स्वयमेव स्ववपामुत्खिद्याजं तत उत्पाद्य तं च

[[1054]]

१०५४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [२ द्वितीयकाण्डे-
(ऐश्वर्यादिकामिना तत्तत्पशुविधानम्)
स्वार्थमालभ्य जगत्सर्वमप्यसृजतेति महदेवैतादिन्द्रजालम्। बाढमिन्द्रजालमेवैतत्। अत एवन्यत्राऽऽम्नातम्— “इन्द्रो मायाभिः पुरुरूप इयते” इति। “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्” इति। न खल्विन्द्रजालविषये विस्मेतुं च भवानपीच्छति। यदा तु लौकिकेऽपीन्द्रजाले न काऽप्यनुपपत्तिस्तदानीमचि न्त्यमहिम्नि सर्ववेदसिद्धे परमेश्वरे का नाम तवानुपपत्तिः। अन्यथा क्व वीर्य क्व वा पुरुषः क्व बीजं क्व वा वृक्ष इत्यादिकं भवानुपपादकंमन्यः कथं युक्तिभिरुपपदयति। कल्पसिद्धे जगदीश्वरे को नाम विस्मय इति चेत्तर्ह्येतत्प्रकृतेऽपि न विस्मयः। संकल्पसिद्धस्य किमेतावता प्रयासेन चेत्। नानाविधभोगैस्तृप्तस्य राजादेः किं द्यूतमृगयादिप्रयासेनेति त्वया वक्तव्यम्। लीलेति चेत्। तदवाप्यनुसंधेहि। तथा च श्रुतिः।
“भोगार्था सृष्टिरित्यन्ये क्रीडार्थामिति चापरे” इति। विष्णुपुराणेऽपि—
“क्रीडतो बालकस्येव चेष्टां तस्या निशामय” इति। व्याससूत्रमपि—
“लोकवत्तु लीलाकैवल्यम्” इति। अपमतिप्रसङ्गेन। विधत्ते—
य इति। पशुं प्रशंसति—
यच्छ्रमश्रुण इति। पुस्पशावजे श्मश्रूणि विद्यन्ते। तूपरत्वं सर्वेष्वजेष्वभातेऽपि प्रकृते विद्यते। अन्यतोऽध एव दन्ता इत्यन्यतोदन्नन्यतोदत्वम्। अविखुरसदृशाः शफा दृश्यन्त एव। अजत्वजातिश्चास्ति। तस्मात्पुरुषदिरूपत्वम्। यद्यपि ग्राम्येषु पशुषु गर्दभोष्ट्रादपि सप्तसंख्यासिद्धये तत्र तत्र गृह्येते तथाऽपि पुरुषादधः पञ्चैव प्रशस्ता विमराजादिभिरत्यन्तमादृतत्वात्। अत एव तदीयेन रूपेण सर्वरूपसदृशेन तान्पुरुषदीन्सर्वानधीनान्करोति। पश्वन्तरं विधत्ते—

सोमापौष्णमिति। त्रयाणां वत्सानां युगपज्जातानां समुदायस्त्रितं तत्र भवस्त्रैतस्तैषामन्यतम इत्यर्थः त्रयाणामुत्पत्तौ प्रयोजनमेवमुन्नेयम्। अजायास्तावद्द्वौ स्तनौ प्रसिद्धौ। तौ नानैव पृथगेव पातुं द्वौ वत्सौ जायेते। मातृरूपायामजायां ययमूर्ग्रसः सारं या च शरीरगता पुष्टिस्तदुभयं ख्यापयितुं तृतीयो वत्स उत्पन्नः। द्वावेव हि सर्वत्र जायेते, तृतीयस्तु क्वचिदेव। तथा सति यस्यां तृतीयो जातस्तस्याः शरीरे वीर्यांधिक्यं पुष्ट्याधिक्यं चास्तीति लक्षयितुं शक्यते।

[[1055]]

१०५५
प्रपा. १ अनु. १] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(ऐश्वर्यादिकामिनां तत्तत्पशुविधानम्)
किं बहुना, वैतः प्रशसा इति द्रष्ठव्यम्। गर्भाशये रेतो यथा न स्रवति तथा सोमो धारयति। पूषा भूमिरूपत्वात्स्वकीघोषधिरसेन पोषयित्वा प्रजनयति।
चोदकप्राप्तं खादिरं बाधितुं विधत्ते—
औदुम्बर इति फलानां यथा बहुत्वादुदूम्बरस्योर्ग्रूपत्वं क्षीरद्वारेण पशु-
रपि तथाविधः। अत ऊर्जैवोदुम्बररूपया यजमानार्थमूर्ग्रूपान्पशून्संपदयति।

अत्र मीमांसा।
यदत्र पूर्वमग्निहोत्रादीनां मूलप्रकृतित्वमुक्तं तदष्टमाध्यायस्य प्रथमपादे चिन्तितम्-
“इष्ट्यग्निहोत्रसोमानां मूलप्रकृतिता नहि।
अस्ति वा नालौकिकत्वादीयत्तानवधारणात्।।
लोकवत्संनिपत्यारादुपकरिद्वयश्रुतेः।
इयत्ताया निश्चितत्वान्मूलप्रकृतिता त्रिषु”।।
अलौकिकत्वेनैतावद्भिरङ्गैः संपूर्ण उपकार इति निश्चेतुमशक्यत्वादिष्ट्यादीनां नास्ति मूलप्रकृतित्वमिति चेन्मैवम्। लौकिकसदृशत्वात्। यथा लोके भुजिक्रिया यामोदनः करणं तस्य सैनिपत्योपकारिणः शाकसूपादय आरादुपकारिणः पीठप्र दीपादयस्तथा भावनायां यागः करणवघातादयः सैनिपादिनः प्रयाजादय आरादुपकारिणऽतो नात्यन्तमलौकिकत्वम्। इयत्ता तु लौकिके यथा प्रत्यक्षेण निश्चीयते तथा श्रौते श्रुत्या निश्चीयताम्। तस्मादिष्ट्यग्निहोत्रसोमानां मूलप्रकृति-त्वमस्ति।
मासाग्निहोत्रस्य नित्याग्निहोत्राद्भेदो द्वितीयाध्यायस्य तृतीयपादे चिन्तितः—
“मासं जहोत्पग्निहोत्रं गुणोऽन्यत्कर्म वा गुणः।
अनूद्य प्राप्तं कर्मात्र मासोऽप्राप्तो विधीयते।।
उपसद्भिरित्वेति नित्ये तासामसंभवात्।
अनेकस्याविधेश्चन्यत्कर्म प्रकरणान्तरात्”।
कुण्डपायिनामयने श्रूयते—“मासग्निहोत्रं जुहोति मासं दर्शपूर्णमास्याभ्यां यजेत्” इति। अत्र प्राप्तं नित्याग्निहोत्रंमनूद्य मासलक्षणो गुणोऽप्राप्तत्वाद्विधीयत इति चेन्मैवम्। किं मास एव विधीयत उतोपसाद्भिश्चरित्वेत्युक्तत्वादुपसदोऽ-

[[1056]]

१०५६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता [२ द्वितीयकाण्डे—
[ऐश्वर्यादिकामिनां तत्तत्पशुविधानम्]
पि। नाऽऽद्यः। उपसदामपि नित्याग्निहोत्रे प्राप्तिरहितातां त्वन्मते विधातव्यत्वातःन द्वितीयाः। प्राप्ते कर्मण्यनेकगुणविधौ वाक्यभेदापत्तेः। ननु मा भुत्तर्हि गुणविधिः, कर्मान्तरत्वे किं प्रमाणमिति चेत्। प्रकरणान्तरमिति वदामः। नह्येतन्नित्याग्निहोत्रस्य प्रकरणसंनिहितत्वात। अयनस्य त्वेतत्प्रकरणम्। अयनमारभ्याधीतत्वात्। का तर्हि नित्याग्निहोत्रे गुणविधिशङ्केति चेत्। प्रकरणस्यासमर्थ त्वेऽप्याग्निहोत्रशब्देन सत्समर्पणादेषा शङ्का भवति। सा च वाक्यभेदापत्त्या निराकृता। तथा सति स्वतःसिद्धं प्रकरणभेदं निराकृत्य प्रकरणैक्यापादनेन गुणं विधापयितुं प्रवृत्तस्याग्निहोत्रशब्दस्य शक्तौ निरुद्धायां तदवस्यः प्रकरणभेदो नित्याग्निहोत्रादिदं कर्म भिनत्ति। अग्निहोत्रशब्दो धर्मातिदेशार्थ इति सप्तमे वक्ष्यते। ननूपसन्मासाभ्यां गुणाभ्यां विशिष्टं कर्म विधीयते। ततो वाजिनन्यायेन गुणभेदात्कर्मभेदो न प्रकरणभेदादिति चेत्। न। वैषम्यात्। उपादेयतया विधेयो गुणो वाजिनं मासस्त्वनुपादेय इत्येकं वैषम्यम्। द्रव्यत्वेन गुणान्तर्गतं वाजिनं मासो न तथेत्यपरं वैषम्यम्। परमार्थतस्त्वत्र प्रथमतरप्रतीतेन प्रकरणभेदेन सिद्धं कर्मभेदं गुणभेद उपोह्रलयति। ततः प्रकरणान्तरमेवात्र भेदहेतुरिति।
ईदृशस्य कर्मणो धर्माक्षेपत्वं सप्तमाध्यायस्य चतुर्थपादे चिन्तितम्–
“सौर्ये चरौ न धर्माः स्युः स्यूर्वा मानविवर्जनात्।
न स्यु स्युः करणं यागोऽपेक्षते ह्युपकारिणः”
सौर्य चरुं निर्वपेद्ब्रह्मवर्चसकाम इत्यत्रावघातादयो धर्मा न प्राच्यन्ते। प्राप-कप्रमाणानां श्रुतिलिङ्गादीनामभावादिति चेन्मैवम्। विमतो याग उपकरणापेक्षः। करणत्वात्। लौकिकवैदिकभोजनदर्शपूर्णमासादिवदित्यनुमानेन तत्प्रापणात्। तत्रै-वान्यच्चिन्तितम्—
“विन्ध्यन्ताऽपेक्षितस्तत्र लौकिको वाऽथ वैदिकः।
आद्यो निबन्धराहित्यादन्त्यो धीसंनिकर्षतः।।”
तत्र सौर्यचरावपेक्षितः प्रधानविधिशेषाग्ङकलापः स्थालीपाकादिगतो लौकिको ग्रहीतव्यः। कुतः अनिबद्धत्वात्। वैदिकस्तु प्रकरणेन कर्मविशेषे निबद्धः सन्न ततो वियोजयितुं शक्यत इति चेन्मैवम्। वैदिके करणे वैदिकविध्यन्तस्य बुद्धिसंनिकर्षात्। यथा प्रकरणेन क्वचिन्निबद्धस्तथा चोदकेनान्यत्रापि निबध्य-

[[1057]]

१०५७
प्रपा. १ अनु. १] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
[ऐश्वर्यादिकामिनां तत्तत्पशुविधानम्]
ताम्। किंच—“प्रयाजे प्रयाजे कृष्णलं जुहोति” इति सोययागविधिशेषे कृष्णलहोमविधानाय सिद्धवत्प्रयाजेऽनूद्यते। तच्च वेदिकेतिकर्तव्यताया लिङ्गम्। तस्माद्वैदिको ग्राह्यः।
स च विध्यन्त ईदृशेषु कर्मसूपदेशतो न प्राप्नोतीति सप्तमाध्यायस्य प्रथमपादे चिन्तितम्—
“सर्वार्थ प्रकृतार्थ वा प्रयाजाद्युपदेशनम्।
यज्यन्वयेन सर्वार्थं नातिदेशो विचार्यताम्।।
अङ्गप्रधानयोर्मुख्यापूर्वभेदे समन्वयात्।
प्रकृतार्थमतः कार्यमतिदेशविचारणम्”।। इति।
दर्शपूर्णमासप्रकरणे प्रयाजादय उपदिष्टाः। ज्योतिष्टोमप्रकरणे दीक्षणीयादयः। तत्रैते सर्वे धर्माः सर्वयागार्थत्वेनोपदिश्यन्ते। कुतः। यज्यन्वयात्। यागः करणे प्रयाजादय इतिकर्तव्यतेत्येतावदविवादम्। तत्र यदि प्रयाजादयो यागवदपूर्वेणान्विताः स्युस्तदानीमपूर्वनिष्पादकत्वमुभयत्र समानमिति कृत्वा करणोपकरणत्वलक्षणं सर्वसंमतमवान्तरवैषम्यं बाध्येत। किंचावघातपेषणादीनां यागनिष्पादकत्वेन यज्यन्वयो दृष्टस्तद्वदङ्गत्वसामान्यत्प्रयाजादनिमपि यज्यन्वयो युक्तः। यजिधातुश्च दर्शपूर्णमासज्योतिष्टोमसौर्यश्येनादिषु सर्वेषु विशेषेष्वनुगतं यागमात्रं ब्रूते। तथा साति सौर्यश्येनादिष्वप्युपदेशेनैव कृत्स्नधर्मप्राप्तेरतिदेशविचारो न कर्तव्य इति प्राप्ते ब्रमः-अपूर्वं मुख्यम्। फलवत्त्वात्। यजिर्न मुख्यः। फलरहितत्वात्। फलदति मुख्ये प्रयाजादिविधार्न युक्तम्। अतः करणेतिकर्तब्यतयोरुभयोरपूर्वेण प्रथमममन्वयः। पश्चात्तु परस्परं गुणप्रधानभावेनान्वयः। तथा सत्यपूर्वभेदस्य द्वितीयाध्याये निरूपितत्वादपूर्वविशेषण तत्करणभूयजिविशेषेण वाऽन्विताः प्रयाजादिधर्मा ये यस्मित्प्रकरण आम्नातास्ते तत्रैव व्यवतिष्ठन्ते। सत्येवं प्रकरणमर्थवद्भवति। सर्वेषां धर्माणां सर्वत्र प्राप्तौ प्रकरणमनर्थकं स्यात्। तस्मात्सौर्यश्येनादिप्रकरणे धर्मोपदेशाभावाद्धर्माकाङ्क्षां पूरयितुमतिदेशविचारः कर्तव्यः। प्रत्यक्षवचनेन धर्मातिदेशस्तत्रैव चिन्तितः—
“इषो समानमितरच्छयेनेनेत्यनुवादकम्।
श्येनवैशेषिकाणां वाऽतिदेशोऽत्रानुवादकम्।।

[[1058]]

१०५८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [२ द्वितीयकाण्डे—
[ऐश्वर्यादिकामिनां तत्तत्पशुविधानम्]
ज्योतिष्टोमविकारत्वात्तद्धर्मश्चोदकात्समाः।
श्येनेष्वोरितरत्वोरिषुवैशेषिकं प्रति।।
इषुवैशेषिकादुक्तादितरच्छ्येनगं स्फुरेत्।
वैशेषिकं लोहितोष्णीषादि तेनातिदिश्यते।। इति।
इषुनामकः श्येननामकश्च द्वावप्येकाहौ ज्योतिष्टोमविकारौ। तयोरुभयोर्ज्यो-तिष्टोमधर्माश्चोदकेन प्राप्ताः। ते चोभयत्र समानाः। तच्च समानत्वमिषुप्रकरणेऽ–
नेन वाक्येनानूद्यते समानमितरच्छयेनेति। नन्वत्रेतरशब्दोक्तिरनुपपन्ना। तत्प्रति योगिनः कस्यचिदनिर्दिष्टत्वादिति चेन्न। पूर्ववाक्यविहितस्य विशेषधर्मस्य प्रति-योगिकत्वात्। इषौ यो वैशेषिकधर्मो विहितस्तं परित्यज्येतरच्चोदकप्राप्तं सर्वंश्येयेन समानमित्यर्थः। तस्मादनुवादकमिदं वाक्यमिति प्राप्ते ब्रूमः—इतरशब्दः प्रतियोगिसजातीयं ब्रूते। तद्यथा देवदत्त एक एवाधीते नेतरः कश्चिदित्युक्तेऽध्य-यनप्रसक्तिमान्यज्ञदत्तादिमाणवकः प्रतीयते, न तु गवाश्चघटपटादिः एवमत्रापीषुवैशे-षिकस्य पूर्ववाक्योक्तस्य प्रतियोगित्वात्तत्समानजातीयं श्येनगतं लोहितोष्णीषादि-
रूपं वैशेषिकं धर्मजातमितरशब्देन प्रतिभाति। तच्च प्रकृताभावान्न चोदकेन प्राप्तम्। तस्यादिषावनुष्ठेयत्वेनातिदिश्यते।
नाम्ना धर्मातिदेशस्तत्रैव तृतीयपादे न त्तिन्तितः-
“मासं जुहोत्याग्निहोत्रामिति नामाग्निहोत्रतः।
नित्यान्मासग्निहोत्रेऽस्मिन्धर्माणां नातिदेशकम्।।
उतातिदेशकं नैव द्वयोर्नाम्नः समत्वतः।
अग्नये होत्रमित्यस्य नित्ये संपादितत्वतः।।
तत्र मुख्यं ततोऽन्यत्र गौणत्वस्य प्रसिद्धये।
नित्याग्निहोत्रगान्धर्मांस्तन्नामातिदिशेदिह” ।। इति।
कुण्डपायिनामयने श्रूयते-“मासमग्निहोत्रं जुहोति” इति। तत्राग्निहोत्र-मित्येतन्नाम नित्याग्निहोत्रादन्यास्मिन्मासाग्निहोत्रे धर्मानतिदेष्टुं नार्हति। कुतः।
तस्य नाम्न उभयोरग्निहोत्रयोर्मुख्यवृत्त्या समानत्वादिति प्राप्ते ब्रूमः— अग्नये होत्रं यस्मिन्कर्मणि तदग्निहोत्रमित्येतमवयवार्थं नित्याग्निहोत्रे संपाद्य तन्नामधेयत्वं प्रथमाध्याये निर्णीतम्। अतस्तत्रैवायं शब्दो मुख्यः। न चोभयत्र मुख्यत्वं संभ-

[[1059]]

१०५९
प्रपा. १ अनु. १) कृष्णयजुर्वेदीयतीत्तेरायैसंहिता।
[ऐश्वर्यादिकामिनां तत्तत्पशुविधानम्]
वत्यनेकार्थत्वस्यान्याय्यत्वात्। मुख्यत्वासंभवेन मासाग्निहोत्रे गुणयोगाद्वर्तितुं नित्याग्निहोत्रगुणानतिदिशति।
प्रत्यक्षवचननाम्नोरभावेऽपि नियतादेव कर्मणोऽतिदेशोऽष्टमाध्यायस्य प्रथमपादे चिन्तितः-
“कस्माच्चिदतिदिश्यन्ते नियतात्कर्मणोऽथवा।
अविशेषादादिमोऽन्त्यः शास्त्रार्थस्य व्यवस्थितेः।। ” इति।
विहितेतिकर्तव्यतारहिते सौर्यादौ कर्मणि तद्युक्ताद्यतः कुतश्चित्कर्मणो धर्मा अतिदिश्यन्ते। कुतः नियामकस्य विशेषस्याभावात्। अतो विशेषचिन्ता न कार्येति चेन्मैवम्। शास्त्रार्थव्यवस्थाया नियामकत्वात्। तस्मान्नियतादेकस्मात्क-र्मणो धर्मातिदेशः। तेन विशेषचिन्ता कर्तव्या।
तत्रैव विशेषनियामकं चिन्तितम् –
“तद्धितोक्त्यादिलिङ्ग किं न विशेषनियामकम्।
भवेद्धा न ह्यशब्दत्वाद्भवेच्छब्दे प्रवेशतः।। इति।”
दर्शपूर्णमासयोराग्नेयमटाकपालं निर्वपतीत्यत्र तद्धितोक्त्या देवतानिर्देश एक-देवतायोगित्य मौषधद्रश्यकत्वं निर्वाप इत्येतान्याग्नेययागसंबन्धितया श्रूयमाणत्वादा-ग्नेयलिङ्गानि। सौर्यं चरुं निर्वषेदित्यत्रापि तान्युपलभ्यन्ते। न तेषामाग्नेयधर्माति देशं नियन्तुं सामर्थ्यमस्ति। कुतः। तेपापशब्दरूपत्वेन शब्दैकसमधिगम्येऽथ प्रामाण्यायोगादिति प्राप्ते ब्रूमः- लिङ्गस्मारितोपकारसहितमेव सौर्बयागं तच्छब्दा विदधाति। तथा सति प्रनाड्या लिङ्गस्य शब्दे प्रवेशादाग्नेयवत्सौर्योऽनुष्ठेय इत्ये-तादृशं चोदकवाक्यमनुमापयता लिङ्गेन धर्मविशेषा नियम्यन्ते।
इष्टिषु सौमिकधर्मनिवारणं तत्रैव चिन्तितम्—
“ऐन्द्राग्नादौ सौमिकः स्यादैष्टिको वा द्वयोरिह।
संभवादैष्टि (च्छि) कोऽन्त्योऽत्र स्यात्कपालादिलिङ्गतः”।।
ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकाम इत्यादौ सौमिकैष्टिकयोर्विध्यन्तयो-रन्यतर इच्छया ग्राह्यः। कुतः। उभयत्र विध्यन्तसंभवेनातिदेष्टुमर्हत्वादिति चेन्न। कपालनिर्वापादिभिर्लिङ्गविशेषैरौष्टिकस्यैवात्रोचितत्वात्।
अग्नीषोमयिपशोरिष्टिविकृतित्वं तत्रैव चिन्तितम्-

[[1060]]

१०६०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— (२ द्वितीयकाण्डे-
[ऐश्वर्यादिकामिनां तत्तत्पशुविधानम्]
“न पशवैष्टिकः स्याद्वा न कपालद्यभावतः।
स्याद्व्यक्तद्रव्यदेवत्वप्रयाजस्रुच्यसाम्यतः”।।
अग्नीषोमीयपशवैष्टिकविध्यन्तो नास्ति। कुतः। पूर्ववदत्र निर्वापकपालादि-लिङ्गभावादिति चेन्मैवम्। आग्नेयमष्टाकपालमित्यत्रोत्पत्तिवाक्बे यथा द्रव्य-
देवते व्यक्ते तथाऽग्नीषोमीयं पशुमित्यत्रापि। न तु सोमेन यजेतेत्यत्रैव देवताया अव्यक्तत्वम्। तदेतद्व्यक्तद्रव्यदवेत्वमेकं लिङ्गम्। एकादश प्रयाजान्यजतीति प्रयाजबहुत्वं द्वितीयम्। स्रुच्यमाघार्य जुह्वा पशुं समनक्तीत्याघाराञ्जने लिङ्गा
न्तरे। आलम्मो लिङ्गान्तरमिष्टावपीषामालभेतेति दर्शनात्। तस्मादस्ति पशावै
ष्टिकः।
तस्यैव पशोः पश्वन्तरप्रकृतित्वेनावान्तरप्रकृतित्वं तत्रैव चिन्तितम्—
“सवनीयादिके दार्शो दैक्षो वा प्रकृतित्वतः।
आद्योऽन्त्यो लिङ्गतोऽन्यत्र विकृतिः प्रकृतिर्भवेत्।।”
सवयीयानुबन्ध्यनिरूढादिपशुषु दर्शपूर्णमाससंबान्धिविध्यन्तः कार्यः। कुतः। दर्शस्य प्रकृतित्वात्। दैक्षोऽग्नीषोमीयपशुविध्यन्तो दीक्षितेनानुष्ठेयेषु पशुविध्यन्तेषु प्रथमभावित्वात्। तस्य चाग्नीषोमीयेष्टिविकृतित्वान्न प्रकृतित्वमस्ति। अतो न तस्य विघ्यन्तोऽतिदेशार्थ इति प्राप्ते ब्रूमः-आलम्मोऽग्नीषोमीयपशौ लिङ्गम्। तच्च सवनीयादिष्वप्यस्ति। तथा प्रातःसवनीयादिषु वपाप्रचारोऽपरं लिङ्गम्। इष्टिं प्रति विकृतेरप्यन्यत्र सवनीयादौ प्रकृतित्वं न विरुध्यते। तस्मादग्नीषोमी यपशोर्विध्यन्त सवनीयादिपशुष्वतिदिशेत्। तदेवमेतैर्विचारैर्वायव्यदिपशुष्वग्नी षोमीयविध्यन्तादेश इति संस्थितम्।
वायव्य ँ श्वेतमालभेतेत्यत्र यागविधित्वं द्वितीयाध्यायस्य तृतीयपादे चिन्ति-तम्—
“वायव्यः श्वेत आलभ्यो भूत्यै सौर्यं चरुं तथा
निर्वपेद्ब्रह्मर्तेजोर्थमीषामुष्टिनिरुप्तयोः।।
गुणौ श्वेतचरू किंवा यावाकथितकर्मणी।
फलार्थमथवा यागौ विशिष्टौ विहिताविह।।
श्वैत्यं वायुस्पृगीषायामाग्नेये च रविप्रभे।
चतुर्गुणश्चरुः स्थाली निर्वापस्तु तदाश्रितः।”

[[1061]]

१०६१
प्रपा. १ अनु. १) कृष्णयजुर्वेदीयतौत्तिरीयसंहिता।
[ऐश्वर्यादिकामिनां तत्तत्पशुविधानम्]
फलहानेर्न तत्किंतु यावच्चोदितकर्म तत्।
द्रव्यदिरूपसंत्तेरवार्या यागताऽऽर्थिकी।।
अनारभ्येदमाम्नायते—“वायव्य ँ श्वेतमालभेत भूतिकामः” इति। “सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः” इति च। तथा च दर्शपूर्णमासयोरिदमाम्नातम्—
“ईषामालभेत” इति। चतुरो मुष्टीन्निर्वपति” इति च। ईषा शकटगतो लाङ्गलदण्डवद्दीर्घः काष्ठविशेषस्तस्या आलम्भः स्पर्शः। तमेतं दर्शपूर्णमास-गतभीषालम्भमनूद्य तस्यामालभ्यायामीषायां श्वेतगुणो विधीयते। तस्य च श्वेतका-ष्ठस्य वायुनास्पृश्यमानत्वाद्वायव्यत्वं संभवति। तथा चतुर्मुष्टिनिर्वापमनूद्य चतुर्गुण- त्वेन विधियते। चरुः स्थाली। सा च निर्वापस्याऽऽश्रयः। निरुप्तस्य हविष आग्नेयतया सूर्यवत्प्रभासंबन्धात्सौर्यत्वम्। भूतिब्रह्मवर्चसफले सार्वकालिकयोर्दर्श-
पूर्णमासयोः पूर्वसिद्धे एवानूद्येते। तस्माद्गुणविधिरित्येकः पूर्वपक्षः। न हि फल-प्रदयोर्नित्यवच्छ्रुतयोः संभवत्वप्रयोजनयोश्च पाक्षिकानुवादत्वमानर्थक्यं वा युक्तम्। तस्माद्गुणफलविशिष्टकर्मान्तरे विधीयेते। तदाऽपि यागस्याश्रवणादालम्भनिर्वापयो-रेव श्रवणाद्यावदुक्तकर्मविधिरिति द्वितीयः पूर्वपक्षः। श्वेतपशुवरुद्रव्ययोर्वायुसूर्य-देवतयोश्च स्पष्टं प्रतीयमानतया रूपवतोर्यागयोरार्थिकयोर्वारयितुमशक्यत्वाद्द्रव्य-देवताविशिष्टयोर्यागयोर्विधिरभ्युपगन्तव्यः। भूतिकामो वायव्येन श्वेतेन पशुना यजेत ब्रह्मवर्चसकामः सौर्येण चरुणा यजेतेत्येवंविधोऽर्थसिद्धो विधिः। द्रव्यदे-वतासंबन्धकल्पितस्य यागस्य लिङ् प्रत्ययेन। कर्तव्यताविधावालम्भनिर्वापयोर्धात्व-र्थयोः का गतिरिति चेदनुवाद इति ब्रूमः। तत्प्राप्तिस्त्वार्थिकी। निर्वापालम्भाव-
न्तरेण तत्तद्यागासिद्धेः। तस्माद्यागविधिरिति राद्धान्तः।
दशमाध्यायस्य द्वितीयपादे चिन्तितम्त—
“वायव्यं श्वेतमित्र यः कोऽपि च्छाग एव वा।
विशेषानुक्तितः कोऽपि च्छाग एवास्त्वबाधनात्”।।
वायव्य ँ श्वेतमालभत भूतिकाम इत्यत्र श्वेतशब्दस्य धेन्वादिशब्दवज्जातिविशेषगतगुणवाचित्वाभावाद्यं कंचिदपि पशुं श्वेतगुणकं समर्पयतीति पूर्वः पक्षः। चोदकप्राप्तस्याजस्य बाधकारणाभावात्तमेव समर्पयतीति राद्धान्तः।
तत्रैव सप्तमपादे चिन्तितम्—

[[1062]]

१०६२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [२ द्वितीयकाण्डे—
[वरुणगृहीतादिपशुविधानम्]
“औदुम्बरः खादिरेण समुच्चेयोऽथ बाधकः।
द्वयोर्नियोजनादाद्यो निरपेक्षत्वतोऽन्तिमः।।” इति।
पशुकामेनानुष्ठेये सोमापौष्णे पशौ श्रूयते—“औदुम्बरो यूपो भवति” इति। तत्र चोदकप्राप्तेन खादिरेण सह श्रूयमाणस्यौदुम्बरस्य समुच्चयः कार्यः।
कुतः। द्वयोर्यूपयोः पशुनियोजनसंभवेन चोदकपरित्यागायोगादिति प्राप्ते ब्रूमः- खादिरौदुम्बरौ परस्परनिरपेक्षतया पशुनियोजनक्षमौ प्रमाणद्वयेन प्राप्तौ। तयोः समुच्चयाङ्गीकारे नैरपेक्ष्य परित्यज्येत। तस्मादुपदिष्ठ औदुम्बरोऽतिदिष्टस्य खादिरस्य बाधक इति।।
इति श्रीमत्सायणाचार्याविरचित माधवीये वेदर्थप्रकाशे कृष्णयजु
र्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमपाठके
प्रथमोऽनुवाकः।। १ ।।