+१

(तत्र प्रथमप्रपाठको प्रथमोऽनुवाक)।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्।। १ ।।
व्याख्यातं प्रथमं काण्डं मूलप्रकृतिबोधकम्।
विकृतेर्बेधकं काण्डं द्वितीयं व्याकरोम्यथ ।। २ ।।
वेदैकमेयता धर्मब्रह्मणोर्वेदमानता।
अपौरुषेयता वेदे मन्त्रब्राह्मणरूपिणी ।। ३ ।।
समाख्यया याज्ञिकानां मन्त्रत्वमवसीयते।
कंचैः पादयुता मन्त्रा यजुः प्रश्लिष्टपादकम् ।। ४ ।।
साम गीत्यात्मका मन्त्राः प्रयोगे स्वार्थबोधकाः।
लोके पदपदार्थौ यां वेदे तावेव गौचरौ ।। ५ ।।
मानं व्याकरणं तत्तदथार्लोकवद्भवेत्।
अनाध्यायेऽपि मन्त्रोक्तिः प्रयोगे कर्मणां भवेत् ।। ६ ।।
नात्रापि ब्राह्मणस्थस्य मन्त्रान्ते कर्मणः कृतिः।
अर्थैकत्वेन वाक्यैक्यं तेन स्याद्यजुरन्तधीः।। ७ ।।
संनिधावनुवड़्गः स्यादर्थाहृतिरसंनिधौ।
मन्त्रादन्यद्ब्राह्मणं स्याद्विधिवादद्वयात्मकम् ।। ८ ।।
सममिव्याहृते (त) धर्मे (मै) शक्तिको बोधको विधिः।
उपवीतादिवल्लोके ह्यपूर्वांर्थो विधीयते ।। ९ ।।
हिशब्दादित्यागतो वै विधिस्तु (स्तू) परिधारणे।
न विधिर्मन्त्रगाख्याते याभिर्यजत इत्यतः ।। १० ।।
वायुर्वा इति वादोऽयं मानं धर्मे विधिर्यतः।
ऊर्जोऽवरुद्ध्या इत्येषा स्तुतिः स्यान्न फले विधिः।। ११।।

[[1048]]

१०४८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता [२ द्वितीयकाण्डे –
(भाष्यकारोपोद्घातः)
तेन ह्यन्नभिति प्रक्ता स्तुतिर्न त्वव हेतुगीः।
सर्वसाधारणा ह्यर्थाः पूर्वकाण्डे विचारिताः ।। १२ ।।
इष्टिसोपमशुष्वेव विकृतिष्वपि कासुचित्।
तत्तद्वाक्यान्युदाहत्य वहवोऽर्था विचारिताः ।। १२।।
आद्यकाण्डस्य भाष्मेण व्युत्पन्नः पुरुषोऽखिले।
अनायासेन वेदेऽस्मिन्नर्थे बोद्धुमतिप्रभुः ।। १३ ।।
तत्र वेदस्य पूर्वकाण्डे प्रपिपाद्यं कर्म विविधं प्रकृतिर्विकृतिश्वेति। प्रकृष्टस- र्वाङ्गोपदेशो यत्र क्रियते सा प्रकृतिः। विशेष मात्रोपदेशो यत्र क्रियतेऽवशिष्टं तु प्रकृतेरतिदिश्यते सा विकृतिः। यथा शाब्दिका वेदशब्द एव सर्वां प्रक्रियामुपदिश्य घटपटादिशब्देषु तामतिदिशन्ति विशेषमेव सर्वादिषूपदिशन्ति तद्वत्। तत्र प्रकृतिर्द्विविधा-मूलप्रकृतिरवान्तरप्रकृतिविश्चेति। अग्निहोत्रिमिष्टिः सोमश्वेति तिस्रो मूलप्रकृतयः। तासु कस्याप्यड़्गस्यान्यतोऽतिदिष्टस्याभावात्। अग्न्याधानेष्टको पधानयोरन्यतोऽतिदेशो नास्तीति चे त्तर्हि तादृशं सर्वमग्निहोत्रादिभिरुपलक्षणीयम्। अथवा वहनिसंस्कारमात्रया कर्मत्वानादरेण मूलप्रकृतिष्वनुपन्यासः। अग्निहोत्रं नाम प्रतिदिनं सायं प्रातश्व क्षीराज्यादिद्रव्येण होतव्य कर्म। तद्विकृतिः कौण्ड् पानियामयनगतं मासाग्निहोत्रम्। इष्टिर्नाम पुरोडाशादिद्रव्येण पक्षे पक्षे निष्पाद्यं दर्शपूर्णमासाख्यं कर्म। तद्विकृतिरैन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकाम इत्यादि काम्येष्टयः। सोमो नाम प्रतिवसन्तमनुष्टेयं सोमलतारूपद्रव्येण निष्पाद्यमग्नि ष्टोमाख्यं कर्म। तस्य साक्षाद्विकृतिर्पिश्वजिदाद्येकाहः (ह) परम्परया सहस्त्रसंवत्सरसवपर्यंन्तः कर्मसंघः। यद्यपग्नोषोमीयपशुरुक्तेभ्य इष्टयग्निहोत्रसोमेभ्यो विलक्षणस्तथाऽपि नासौ काचिन्मूलप्रकृतिः। अस्मिन्पशाविष्टिधर्माणां प्रयाजादी नामतिदेशेन तस्येष्टिविकृतित्वात् तस्य विकृतिरूपत्वेऽपि तदीयधर्माणामुपाकर णनियोजनादीनां सवनीयादिपशुष्वतिदेशात्प्रकृतित्वमप्यस्ति। ततो दव्यात्मक त्वादवान्तरप्रकृतिरित्युच्यते। सहस्त्रसंवत्सरसत्रगतधर्माण। मन्यत्रातिदेशाभावेन तस्मिन्सत्रे द्विविधस्यापि प्रकृतित्वस्याभावात्केवलविकृतित्वम्। गृहमेघीयोष्टिरुपसद्धोम इत्यादेरप्रकृतिविकृतित्वादपूर्वकर्मत्वम्। न ह्यन्यदीयस्य धर्मस्य तस्प्रिन्वा तदीय स्यान्यस्मिन्वा कश्चिदतिदेशोऽस्ति। तस्मात्प्रकृतिर्विकृतिरुभयात्मकनुभयात्मकं चेति चतुर्विधं कर्म संपन्नम्। तेषु चतुर्विधेषु कर्मसु संहिताग्रन्थस्य

[[1049]]

१०४९
प्रपा. १अनु. १] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
[ऐश्वर्यादिकामिनां तत्तत्पशुविधानम्]
प्रथमकाण्डे प्रपाठकचतुष्टयेन मूलप्रकृतिरूपाविष्टिसामो वर्णितौ। सोमस्याड़्गन्त्वे नावान्तरप्रकृतिरूषोऽग्नीषोमीयोऽपि वर्णितः। प्रकृति प्राधान्येन प्रतिपाद्य विकृतिव्युत्पत्तये पुनराधेवाजपेयादयः कश्चिद्विकृतयो वर्णितः। अथ द्वितीयकाण्डे प्राधान्येन विकृतयो वर्ण्यन्ते। यद्यप्यत्र पश्चमषष्ठमपाठकयोर्दर्शपूर्ण मासब्राह्मण माम्नातं तथाऽपि प्रपाठकचतुष्ट्ये विकृतीनामेव ह्यभिधानात्काण्डस्य विकृतिप्राधान्यमविरुद्धम्। तास्वपि विकृतिषु यद्यप्युक्तरीत्या काम्येष्टीनां मूलप्रकृतिप्रत्यास्त्त्या ता एव प्रथमं वर्णनीयास्तथाऽपि तासु बहुवक्तव्यसद्भावात्सूचिकटाहन्यायेन प्रथमं ता उपेक्ष्यावान्तरप्रकृतेरग्नीषोभीयपशोर्विकृतया वायव्यादिकाम्यपशवोऽल्पवक्तब्ध तया प्रथमप्रपाठके वर्ण्यन्ते। तेषां च प्रत्येकं स्वतन्त्रत्वेन दर्शपूर्णमासाड़्गसमूहवदेककर्तृत्वाभावान्नास्ति क्रमनियमः। अतोऽनुवाकार्थानामनुष्ठानस्याऽऽनुपूर्विकनियमस्य कस्याचिदभावादध्ययनसंप्रदायेनैव तन्नियम इति नात्रानुवाकार्थः पृथगुपन्यस्यते।।

(इति भाष्यकारोपोद्घातः)।

(अथ कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयोऽष्टकः)।