(अथ प्रथमकाण्डेऽष्टमप्रपाठक द्वाविंशोऽनुवाकः )।
अग्ना॑विष्णू॒ महि॒ तद्वां॑ महि॒त्वं वी॒तं घृ॒तस्य॒
[[974]]
९७४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
गुह्या॑नि॒ नाम॑। दमे॑दमे स॒प्त रत्ना॒ दधा॑ना॒
प्रति॑ वां जि॒ह्वा घृ॒तमा च॑रण्येत्। अग्ना॑विष्णू॒
महि॒ धाम॑ प्रि॒यं वां॑ वी॒थो घृ॒तस्य॒ गुह्या॑
जुषा॒णा। दमे॑दमे सुष्टु॒तीर्वा॑वृधा॒ना प्रति॑ वां
जि॒ह्वा धृ॒तमुच्च॑रण्येत्। प्र णो॑ दे॒वी सर॑स्वती॒
वाजे॑भिर्वा॒जिनी॑वती। धी॒नाम॑वि॒त्र्य॑वतु। आ
नो॑ दि॒वो बृ॑ह॒तः (१) पर्व॑ता॒दा सर॑स्वती
यज॒ता ग॑न्तु य॒ज्ञम्। हवं॑ दे॒वी जु॑जुषा॒णा घृ॒–
ताची॑ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु। बृह॑–
स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य। रास्व॒
रत्ना॑नि दा॒शुषे॑। ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑
य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑। बृह॑स्पते सुप्र॒जा
वी॒रव॑न्तो व॒यँ स्या॑म॒ पत॑यो रयी॒णाम्।
बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा॑द्द्य॒मद्वि॒भाति॒
ऋतु॑म॒ज्जने॑षु। यद्दी॒दय॒च्छव॑सा (२) ऋ॒त॒–
प्र॒जा॒त॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम्। आ
नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतम्। मध्वा॒
रजाँ॑सि सुक्रतू। प्र बा॒हवा॑ सिसृतं जी॒वसे॑
न॒ आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑। आ नो॒ जने॑
श्रवयतं युवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा।
अ॒ग्निं वः॑ पूर्व्यं गि॒रा दे॒वमी॑डे॒ वसू॑नाम्। स॒प॒–
र्यन्तः॑ पुरुप्रि॒यं मि॒त्रं न क्षेत्र॒साध॑सम्। म॒क्षू
देव॒व॑तो॒ रथः॑ (३) शरो॑ वा पृ॒त्सु कासु॑
[[975]]
९७५
प्रपा॰ ८ अनु॰ २२ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
चित्। दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्ष–
त्य॒भीदय॑ज्वनो भुवत्। न य॑जमान रिष्यसि॒
न सु॑न्वान॒ न दे॑वयो। अस॒दत्र॑ सुवीर्य॑मु॒त
त्यदा॒श्वश्वि॑यम्। नकि॒ष्टं कर्म॑णा नश॒न्न
प्र यो॑ष॒न्न यो॑षति। उप॑ क्षरन्ति॒ सिन्ध॑वो
मयो॒भुव॑ ईजा॒नं च॑ य॒क्ष्यमा॑णं च धे॒नवः॑।
पृ॒णन्तं॑ च॒ पपु॑रिं च (४) श्र॒व॒स्यवो॑ घृ॒तस्य॒
धारा॒ उप॑ यन्ति वि॒श्वतः॑। सोमा॑रुद्रा॒ वि
वृ॑हतं॒ विषूची॒ममी॑वा॒ या नो॒ गय॑मावि॒वेश॑।
आ॒रे बा॑धेथां॒ निर्ऋ॑तिं परा॒चैः कृ॒तं चि॒देनः॒
प्र मु॑मुक्तम॒स्मत्। सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मे
विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम्। अव॑ स्यतं
मु॒ञ्चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑
अ॒स्मत्। सोमा॑पूषणा॒ जन॑ना रयी॒णा जन॑ना
दि॒वो जन॑ना पृथि॒व्याः। जा॒तौ विश्व॑स्य॒ भुव॑–
नस्य गो॒पौ दे॒वा अ॑कृणवन्न॒मृत॑स्य॒ नाभि॑म्।
इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ तमाँ॑सि गू॒ह
ता॒मजु॑ष्टा। आ॒भ्यामिन्द्रः॑ प॒क्वमा॒मास्व॒न्तः
सो॑मापू॒षभ्यां॑ जनदु॒स्रिया॑सु (५)॥
(बृ॒ह॒तः शव॑सा॒ रथः॒पपु॑रिं च दि॒वो जन॑ना॒ पञ्च॑विँशतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टकेऽ-
ष्टमप्रपाठके द्वाविंशोऽनुवाकः॥२२॥
[[976]]
९७६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
(अनु॑मत्या आग्ने॒यमै॑न्द्रा॒ग्नम॒ग्नये॒ सोमा॑य प्रतिपूरुष॒मैन्द्रा॒ग्नं धा॒त्रे बा॑र्हस्प॒त्य-म॒ग्नये॑ गृ॒हप॑त॒येऽर्थेतो॒ देवीः॑ स॒मिधँ॒ सोम॒स्येन्द्र॑स्य मि॒त्र आ॑ग्ने॒यँ स॒द्य आ॑ग्ने॒-यँ हि॑रण्यमाग्ने॒यँ स्वा॒द्वीं त्वाऽऽग्ना॑विष्णू॒ द्वाविँ॑शतिः)॥२२॥
(अनु॑मत्यै॒ यथाऽस॑ति॒ देवी॑रापो मि॒त्रो॑ऽसि॒ शूरो॑
वा॒ द्विच॑त्वारिँशत्)॥४२॥
हरिः॑ ॐ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टकेऽ-
ष्टमः प्रपाठकः॥८॥
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमा-
ष्टकः संपूर्णः॥१॥
––––
अथ प्रथमकाण्डेऽष्टमप्रपाठके द्वाविंशोऽनुवाकः।
एकविंशे सौत्रामणीमुक्त्वा राजसूयः समापितः। द्वाविंशे काम्ययाज्या(पुरो-नुवाक्या) उच्यन्ते। तत्र काम्येष्टिकाण्डे त्रिहविष्का काचिदिष्टिराम्नायते–
“आग्नावैष्णवमेकादशकपालं निर्वपेदभिचरन्त्सरस्वत्याज्यभागा स्याद्बार्हस्प-त्यश्चरुर्यदाग्नावैष्णव एकादशकपालो भवत्यग्निः सर्वा देवता विष्णुर्यज्ञो देवताभिश्चैवैनं यज्ञेन चाभिचरति सरस्वत्याज्यभागा भवति वाग्वै सरस्वती वाचैवैनमभिचरति बार्हस्पत्यश्चरुर्भवति ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवैनमभिचरति” (सं॰ का॰ २ प्र॰ २ अ॰ ९) इति।
आज्यं भागो यस्याः साऽऽज्यभागा। आज्यमेव हविरित्यर्थः। स्पष्टमन्यत्। तत्र प्रथमहविषः पुरोनुवाक्यामाह –
अग्निविष्णू इति। हेऽग्नाविष्णू वां युवयोस्तद्वक्ष्यमाणं महित्वं महिमोपेतत्वं महि पूजनीयम्। कथमिति तदुच्यते। घृतस्य यानि गुह्यानि नामानि मन्त्रेषु गोप्यान्याज्यं पृषदाज्यं सर्पिरित्यादीनि तानि युवां वीतं प्राप्नुतं, पशूनां तेजसाऽग्नये जुष्टमभिघारयामीति आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरेधीति
[[977]]
९७७
प्रपा॰ ८ अनु॰ २२ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
आजुह्वानस्य सर्पिष इत्यादिमन्त्रान्सर्वदा शृणुतमित्यर्थः। कुत्रैतन्नाम–श्रवणंदमेदमे सर्वेषां यजमानानां गृहे गृहे। किंच, वां युवयोर्जिह्वा प्रति प्रत्येकं घृतमागत्य प्राप्य चरण्येद्भक्षयतु पिबत्वित्यर्थः। कीदृशी जिह्वा। सप्त रत्ना दधाना। सप्तसंख्याकान्रत्नसदृशाञ्ज्वालाविषान्धारयन्ती। छत्रिन्यायेनाग्निसाहित्याद्विष्णोरपि तथात्वम्। अत्रैव याज्यामाह–
अग्नाविष्णू इति। हेऽग्नाविष्णू वां युवयोः प्रियं धान यज्ञशालारूपं स्थानं महि पूजनीयम्। युवां घृतस्य गुह्यं योग्यं सारमभिघारणरूपं जुषाणा सेवमानौ वीथः पुरोडाशं भक्षयथः। कादृशौ युवाम्। दमेदमे सर्वेषु यजमानगृहेषु सुष्टुतीर्वावृधाना पूर्वोदाहृता आयुर्दा अग्न इत्यादिकाः शोभनाः स्तुतीर्वर्धयन्तौ। प्रति वां जिह्वेत्यादि पर्ववत्। उच्चरण्येदुत्कर्षेण भक्षयतु। द्वितीयहविषः पुरोनुवाक्यामाह–
प्र णो देवीति। सरस्वती देवी वाजेभिरन्नैर्नोऽस्मान्प्रकर्षेणावतु रक्षतु। कीदृशी। वाजिनीवती। वाजोऽस्यां क्रियायामस्तीत्यन्नप्रदा यागक्रिया वाजिनी। सा यस्यामस्ति सा वाजिनीवती। धीनामवित्री यज्ञविषयाणामस्मद्बुद्धीनां पालयित्री। तत्रैव याज्यामाह–
आ नो दिवो इति। यजता यष्टता यष्टव्या सरस्वती नोऽस्माकं यज्ञं प्रति दिवः सकाशादागन्त्वागच्छति। बृहतः पर्वतादागच्छतु। यद्यप्येषा द्युलोके मेरौ वा तिष्ठति तथाऽप्यवश्यमागच्छत्वित्यर्थः। सेयमागता देवी शग्मां सुखप्रापिकां नोऽस्मदीयां स्तुतिरूपां वाचमुशती कामयमाना शृणोतु। कीदृशी देवी। हवमस्मदीयमाह्वानं जुजुषाणा सेवमाना। घृतमञ्चति प्राप्नोतीति घृताची। तृतीयहविषः पुरोनुवाक्यामाह–
बृहस्पत इति। विश्वदेव्य विश्वेभ्यो देवेभ्यो हित हे बृहस्पते नोऽस्माकं हव्यानि जुषस्व। दाशुषे हविर्दत्तवते यजमानाय रत्नानि रास्व देहि। तत्रैव याज्यामाह–
एवा पित्रे इति। एवा, एवं किंचेत्यर्थः। हे बृहस्पते पित्रे पितृवत्पालकाय विश्वे देवा यस्यासौ विश्वदेवोऽस्मै सर्वदेवगुरवे वृष्णेऽभिमतफलवर्षिणे तुभ्यं यज्ञैर्बहुविधयागैर्नमसा भक्तिपूर्वकनमस्कारैर्हविर्भिराज्यपुरोडाशादिभिश्च परिचर्यां विधेम सर्वथा परिचरेम। त्वत्प्रसादाच्छोभनापत्ययुक्ताः शूरभटोपेता धनानां पतयो भवेम। तत्रैव विकल्पितां याज्यामाह–
[[978]]
९७८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
बृहस्पत इति। हे बृहस्पतेऽर्यो राजा यद्द्रविणं रत्नादिरूपमतीतरानति-क्रम्यार्हात्स्वयमेवानुभवितुमर्हति। यच्चास्मज्जनेष्वमात्यादिषु द्युमदाभूषणादिम-द्विभाति। यजमानरूपेषु जनेषु क्रतुमद्यागसाधनवद्विभाति। पुनरपि यद्द्रविणं शवसा बलेन जीवितप्रदानसंपादितसैन्यरूपेण दीदयद्दीप्यते तद्यथोक्तगुणोपेतं द्रविणं चित्रं मणिमुक्तादिरूपं हे ऋतप्रजात तदस्मासु धेहि स्थापय। ऋतात्स-त्यात्परमात्मनः प्रकर्षेण देवगुरुत्वेनोत्पन्न ऋतप्रजातः।
प्रथममभिचरतः शत्रोस्त्रिहविष्केष्टिर्विहिता। इदानीं तदीयादभिचारादूर्ध्वं प्रत्याभिचरतस्तामेवेष्टिं विहितामभिप्रेत्य तत्र विशेषं विधत्ते –
“प्रति वै परस्तादभिचरन्तमभिचरन्ति द्वे द्वे पुरोनुवाक्ये कुर्यादतिप्रयुक्त्या” (सं॰ का॰ २ प्र॰ २ अ॰ ९) इति।
प्रथमतोऽभिचरन्तं शत्रुं ज्ञात्वा तद्विरोधिनः पुरुषा पश्चात्प्रत्यभिचरन्ति तदानीं पूर्वोक्तायाः पुरोनुवाक्याया आवृत्त्या वा मन्त्रान्तरगमनेन वैकैकस्य हविषो द्वे द्वे पुरोनुवाक्ये कुर्यात्। मन्त्रान्तरपक्षे तु प्रथमस्य हविषोऽग्नाविष्णू सजोषसेत्येषा समानेतव्या। द्वितीयस्य हविषः पावीरवी कन्येति। तृतीयस्य तु समाम्नाता एव तिस्र ऋचो वर्तन्ते। किमर्थं पुरोनुवाक्याद्वित्वं तदुच्यते। अतिप्रयुक्त्यै तस्मादप्यतिशयितप्रयोर्गाथम्।
यस्तु पापभीरुः सन्प्रतिचारं न करोति, किंतु केवलं स्वविषयमभिचारं परिहर्तुमिच्छति तस्य पूर्वोक्तामेव त्रिहविष्कामिष्टिं विधत्ते –
“एतयैव यजेताभिचर्यमाणो देवताभिरेव देवताः प्रतिचरति यज्ञेन यज्ञं वाचा वाचं ब्रह्मणा ब्रह्म स देवताश्चैव यज्ञं च मध्यतो व्यवसर्पति तस्य न कुतश्चनोपाव्याधो भवति नैनमभिचरन्स्तृणुते” (सं॰ का॰ २ प्र॰ २ अ॰ ९) इति।
देवताः प्रतिचरति निवारयति। स्वकीययज्ञेन तदीययज्ञ निवारयति। स्व-कीयवाचा तदीयवाचं निवारयति। स्वकीयब्रह्मणा तदीयं ब्रह्म निवारयति। लौकिकाधिक्षेपपरुहारो वाङ्निवारणम्। ब्राह्मण्यपरिहारो मन्त्रनिवारणम्। स तादृशः पुरुषः शत्रोरात्मनश्च मध्ये स्वकीयदेवताः स्वकीययज्ञं च मध्यतो व्य-वसर्पति व्यवधानरूपेण स्थापयति। तस्य तादृशस्य कुतोऽपि व्याध्यादेर्बाधो न भवति। प्रथममभिचरन्पुरुष एनं न स्तृणुते न हिनस्ति।
यज्ञप्राप्तिकामिन एकहविष्कामिष्टिं विधत्ते –
[[979]]
९७९
प्रपा॰ ८ अनु॰ २२ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
“आग्नावैष्णवमेकादशकपालं निर्वेपेद्यं यज्ञो नोपनमेदग्निः सर्वा देवता विष्णुर्यज्ञोऽग्निं चैव विष्णुं च स्वेन भागधेयेनोप धावति तावेवास्मै यज्ञं प्र यच्छत उपैनं यज्ञो नमति” (सं॰ का॰ २ प्र॰ २ अ॰ ९) इति।
यं यज्ञानुष्ठानार्थं पुरुषं केनापि द्रव्याभावादिविघ्नेन स यज्ञो न प्राप्नुयात्त-स्येयमिष्टिः। दृष्टिपाटवार्थिन एकहविष्कामिष्टिं विधत्ते –
“आग्नावैष्णवं घृते चरुं निर्वपेच्चक्षुष्कामोऽग्नेर्वै चक्षुषा मनुष्या वि पश्यन्ति यज्ञस्य देवा अग्निं चैव विष्णुं च स्वेन भागधेयेनोप धावति तावेवास्मिंश्चक्षुर्ध-त्तश्चक्षुष्मानेव भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ९) इति।
अग्नेश्चक्षुषादीपेनान्धकारादियुक्तप्रदेशे मनुष्याः पश्यन्ति। यज्ञस्य तु चक्षुषा सामर्थ्यरूपेण देवाः पश्यन्ति। अतो यागदेवस्य विष्णोरग्नेश्च हविषा तावुभौ कामलादिरोगपरिहारेणास्मिन्यजमाने चक्षुर्दृष्टिपाटवं धत्तः प्रयच्छतः। तेनासौ चक्षुष्मान्सूक्ष्मदर्शनेऽपि समर्थो भवति। घृतं चरुप्रकृतिद्रव्यं च प्रशंसति –
“धेन्वै वा एतद्रेतो यदाज्यमनडुहस्तण्डुला मिथुनादेवास्मै चक्षुः प्र जनयति” (सं॰ का॰ २ प्र॰ २ अ॰ ९) इति।
भक्षिततृणसारत्वादाज्यस्य धेनुरेतस्त्वम्। बलीवर्दकृष्टोत्पन्नत्वात्तण्डुलानाम-डुद्रेतस्त्वम्। धेन्वनडुद्रूपमिथुनादेवास्य दृष्टिलाभः। प्रकारान्तरेण घृतं प्रशंसति –
“घृते भवति तेजो वै घृतं तेजश्चक्षुस्तेजसैवास्मै तेजश्चक्षुरव रुन्धे” (सं॰ का॰ २ प्र॰ २ अ॰ ९) इति।
दीप्यमानत्वाद्रूपभासकत्वाच्च घृतचक्षुषोस्तेजस्त्वम्।
फलान्तराय त्रिहविष्कामिष्टिं विधत्ते –
“इन्द्रियं वै वीर्यं वृङ्क्ते भ्रातृव्यो यजमानोऽयजमानस्याध्वरकल्पां प्रति निर्वपेद्भ्रातृव्यो यजमाने नास्येन्द्रियं वीर्यं वृङ्क्ते” (सं॰ का॰ २ प्र॰ २ अ॰ ९) इति।
परस्परविरोधिनोरुभयोर्मध्ये कश्चिदग्निष्टोमादियज्ञं न करोति तदीयस्तु भ्रातृव्यः करोति तदानीमयजमानस्येन्द्रियसामर्थ्यमितरो विनाशयति। प्रत्यक्षं ह्येतत्। दीक्षित सोमयाजिन्नित्यामन्त्रणादिभिरयजमानस्यानाहूतत्वात्तस्येयम-ध्वरकल्पेषदसमाप्तोऽध्वरः सवनत्रयसद्भावादध्वरत्वं सोमाभावादीषदसमाप्तिरतस्तामध्व
[[980]]
९८०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
रकल्पां तदीयस्य सोमयागस्य प्रतिपक्षत्वेन निर्वपेत्। कदा। भ्रातृव्ये यजमाने सति। तेन प्रतिनिर्वापेणेन्द्रियसामर्थ्यं न नश्यति। दीक्षादीनामभावेऽपि प्रभुत्वधनादेरुत्कर्षो भवतीत्यर्थः। निर्वापकालं विधत्ते –
“पुरा वाचः प्रवदितोर्निर्वपेद्यावत्येव वाक्तामप्रोदितां भ्रातृव्यस्य वृङ्क्ते तामस्य वाचं प्रवदन्तीमन्या वाचोऽनु प्रवदन्ति ता इन्द्रियं वीर्यं यजमाने दधति” (सं॰ का॰ २ प्र॰ २ अ॰ ९) इति।
उषःकाले मनुष्याः शयनादुत्थाय परस्परं वाचः प्रवदन्ति। प्रवदितोः प्राक्प्रवदनात्पुरा निर्वपेत्। तथा सति भ्रातृव्यस्य यावती वाग्विद्यते तामप्रोदितामनुच्छारितां वृङ्क्ते यथा नोच्चारिता भवति तथा नाशयति। अस्य तु यजमानस्य संबन्धिनीं तां वाचं प्रवदन्तीमन्वन्या वाच इतरजनसंबन्धिन्यो वाचः प्रवदन्ति। यजमानेन यद्यथोच्यते तत्तथैव सर्वजना वदन्त्यस्य वचनमनुमन्यन्त इत्यर्थः। ता अन्यदीया वाच उपलालनेनेन्द्रियसामर्थ्यं यजमानेन स्थापयन्ति। अध्वरसाम्यं संपादयितुं त्रिषु कालेष्वनुष्ठानं विधत्ते –
“आग्नावैष्णवमष्टाकपालं निर्वपेत्प्रातःसवनस्याऽऽकाले सरस्वत्याज्यभागा स्याद्बार्हस्पत्यश्चरुर्यदष्टाकपालो भवत्यष्टाक्षरा गायत्री गायत्रं प्रातःसवनं प्रातःसवनमेव तेनाऽऽप्नोत्याग्नावैष्णावमेकादशकपालं निर्वपेन्माध्यंदिनस्य सवनस्याऽऽकाले सरस्वत्याज्यभागा स्याद्बार्हस्पत्यश्चरुर्यदेकादशकपालो भवत्येकादशाक्षरा त्रिष्टुप् त्रैष्टुभं माध्यंदिनँ सवनं माध्यंदिनमेव सवनं तेनाऽऽप्नोत्याग्नावैष्णवं द्वादशकपालं निर्वपेत्तृतीयसवनस्याऽऽकाले सरस्वाज्यभागा स्याद्बार्हस्पत्यश्चरुर्यद्द्वादशकपालो भवति द्वादशाक्षरा जगती जागतं तृतीयसवनं तृतीयसवनमेव तेनाऽऽप्नोति देवताभिरेव देवताः प्रतिचरति यज्ञेन यज्ञं वाचा वाचं ब्रह्मणा ब्रह्म कपालैरेव छन्दाँस्याप्नोति पुरोडाशैः सवनानि” (सं॰ का॰ २ प्र॰ २ अ॰ ९) इति।
प्रातःसवनस्याऽऽकाले भ्रातृव्ययज्ञसंबन्धिनः प्रातःसवनस्य यावत्कालस्तावति काले कपालैरष्टैकादशद्वादशसंख्याकैरेव च्छन्दांसि प्रतिवादिप्रयुक्तानि गायत्रीत्रिष्टुब्जगतीरूपाणि व्याप्नोति। यथोक्तैस्त्रिभिः पुरोडाशैः प्रतिवाद्यनुष्ठितानि सवनानि त्रीणि सवनानि व्याप्नोति। तस्मादस्त्यध्वरसाम्यम्। उक्तासु प्रत्यभिचारादीष्टिषु पूर्वोक्ता एव याज्यानुवाक्याः।
१ क. दाचिद्भ्रातृब्यै यजमाने स। घ. ङ. दाचिद्भ्रतृ। २ क. च्चारयति।
[[981]]
९८१
प्रपा॰ ८ अनु॰ २२ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
एतस्यैवाध्वरकल्पानुष्ठायिनः प्रतिवाद्यनुष्ठितानूबन्ध्यास्थानीयामिष्टिं विधत्ते –
“मैत्रावरुणमेककपालं निर्वपेद्वशायै काले यैवासौ भ्रातृव्यस्य वशाऽनूबन्ध्या सो एवैषैतस्यैककपालो भवति न हि कपालैः पशुमर्हत्याप्तुम्” (सं॰ का॰ २ प्र॰ २ अ॰ ९) इति।
भ्रातृव्योऽवभृथं कृत्वा गृहे समागत्योदवसानीयामनूबन्ध्यां वशामुपाकरोति, तस्मिन्काले मित्रावरुणदेवताकमेककपालं पुरोडाशं निर्वपेत्। भ्रातृव्यस्य साऽनूबन्ध्या वशा यैवास्ति एतस्याध्वरकल्पस्याधिकारिणोऽयमेककपालः सैवैषा वशा भवति। ननु पूर्वोक्तैः कपालैर्यथा छन्दांसि प्राप्नोति तथाऽनूबन्ध्याख्यः पशुरपि प्राप्यतामिति चेन्न। संख्यासाम्येन च्छन्दसां प्राप्तुं शक्यत्वात्। नहि पशावष्टत्वादिसंख्याऽस्ति। अतः पूर्वोक्तैः कपालैरिमं पशुमाप्तुं न शक्नोति नार्हति। मैत्रावरुणस्य तु कपालैक्यात्संख्यासाम्येन पशुमेकं प्राप्तुमर्हति। अस्मिन्मैत्रावरुणे पुरोनुवाक्यामाह –
आ नो इति। हे मित्रावरुणौ नो गव्यूतिमस्मदीयगोयूथं घृतैः प्रभूतैरा समन्तादुक्षतं सिञ्चतम्। सुक्रतू शोभनक्रतुयुक्तौ रजांस्यस्मदीयक्षेत्रपांसून्मध्वा मधुना जलेनोक्षतम्। तत्रैव याज्यामाह –
प्र बाहवेति। हे मित्रावरुणौ नोऽस्माकं जीवसे जीवितुं बाहवा धनपूर्णेन बाहुना सह प्रकर्षेण सिसृतं प्राप्नुतम्। आगत्य च नोऽस्माकं गोर्यूथं घृतेन सिञ्चतम्। हे युवाना परस्परमिश्रितौ युवां जने ब्राह्मणादियजमानसभायां नोऽस्माञ्श्रवयतं प्रख्यापयतम्। मित्रावरुणौ मे मदियामिमा हवेदमाह्वानं श्रुतं शृणुतम्। इष्य्षन्तरं विधत्ते –
“असावादित्यो न व्यारोचत तस्मै देवाः प्रायश्चित्तिमैच्छन्तस्मा एतँ सोमारौद्रं चरुं निरवपन्तेनैवास्मिन्रुचमदधुर्यो ब्रह्मवर्चसकामः स्यात्तस्मा एतँ सोमारौद्रं चरुं निर्वपेत्सोमं चैव रुद्रं च स्वेन भागधेयेनेप धावति तावेवास्मिन्ब्रह्मवर्चसं धत्तो ब्रह्मवर्चस्येव भवति” (सं॰ का॰ २ प्र॰ २ अ॰ १०) इति।
न व्यरोचत विशेषेण दीप्तिं न प्राप्तवान्। प्रायश्चित्तिं प्रतीकारम्। ब्रह्मवर्चसं श्रुताध्ययनसंपत्तिः। कालं विधत्ते –
“तिष्यापूर्णमासे निर्वपेद्रुदो वै तिष्यः सोमः पूर्णमासः साक्षादेव ब्रह्मवर्चसमव रुन्धे” (सं॰ का॰ २ प्र॰ २ अ॰ १०) इति।
१ क. घ. ङ. च. शं भ्रा।
[[982]]
९८२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
यथा रुद्रो दुःखं द्रावयति तथा पौषमासः शैत्यदानेन तापं वारयति, तस्मा-त्तस्य रुद्रत्वम्। सोमो हि पौर्णमास्यां संपूर्णमण्डल इति तयोरैक्यम्। साक्षादेव मुख्यमेव न त्वनूचानस्य पुत्रत्वमात्रेणाऽऽपादितममुख्यं ब्रह्मवर्चसम्। वेदेः परित आवरणं विधत्ते –
“परिश्रिते याजयति ब्रह्मवर्चसस्य परिगृहीत्यै” (सं॰ का॰ २ प्र॰ २ अ॰ १०) इति।
परिश्रयणेन १वेद्यामावृतायां कांश्चिद्विशेषान्विधत्ते –
“श्वेतायै श्वेतवत्सायै दुग्धं मथितमाज्यं भवत्याज्यं प्रोक्षणमाज्येन मार्जयन्ते यावदेव ब्रह्मवर्चसं तत्सर्वं करोति” (सं॰ का॰ २ प्र॰ २ अ॰ १०) इति।
श्वेतवत्सयुक्तायाः श्वेताया गोर्दुग्धं तदेवाऽऽतञ्चनेन दधिभावमापाद्य मथितं सत्पश्चादाज्यं भवति, न तु मैत्राबार्हस्पत्य इव स्वयंमूर्तस्वयंमथितत्वादिकम-त्रास्ति। प्रकृतौ श्वेतवत्सा श्वेता गौरिति नास्ति नियमः। अत्र त्वस्ति। प्रकृता-वद्भः प्रोक्षणं मार्जनं च। अत्र तु सर्वमाज्येनेति विशेषः। तथा सति तु ब्रह्मवर्चसं संपूर्णं भवति।
सामिधेनीषु समिध्यमानेद्धवत्योर्मध्ये प्रक्षेपणीये द्वे ऋचौ विधत्ते –
“अति ब्रह्मवर्चसं क्रियत इत्याहुरीश्वरो दुश्चर्मा भवितोरिति मानवी ऋचौ धाय्ये कुर्याद्यद्वै किंच मनुरवदत्तद्भेषजं भेषजमेवास्मै करोति” (सं॰ का॰ २ प्र॰ २ अ॰ १०) इति।
आज्यमात्रेण यद्ब्रह्मवर्चसं तद्युक्तमेव, श्वेतवत्साश्वेतगोभ्यां यत्तदत्यधिकं, तेन दुश्चर्मा श्वेतकुष्ठयुक्तो भवितुं प्रभुर्भवति, तत्परिहाराय मनुना दृष्टे द्वे ऋचौ सामिधेनीषु धाय्ये प्रक्षेपणीये भवतः। मनोर्धर्मवक्तृत्वात्तेन यन्मन्त्रजातमुक्तं तदौषधम्। तदेतत्सर्वमापस्तम्ब आह – “सर्वप्रोक्षणमार्जनानीत्या(न्या)ज्येन मानवी ऋचौ धाय्ये कुर्यादग्निं व इत्येतासां द्वे” इति।
एतस्मिन्सोमारुद्रचरौ धाय्यात्वेनाग्निं वः पूर्वमित्यादिका विकल्पिताः षडृच आम्नाताः। तत्र प्रथमायाः पाठस्तु –
१ क. वेदेरे०। २ क. ०मापद्य। ३ ख. ०र्मवृद्धत्वा०। घ. ङ. च. ०र्मवत्त्वात्ते०। ४ ख. घ. ङ. च. ०देव स०। ५ ख. घ. ङ. छ. ०प्रोक्षामा०।
[[983]]
९८३
प्रपा॰ ८ अनु॰ २२ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
अग्निं व इति। वसूनां वो युष्माकं मध्ये पूर्व्यं प्रथमभाविनमग्निं देवं गिरा वैदिक्या, ईडे स्तौमि स्तावकोऽहम्। कीदृशः। सपर्यन्तः पर्यन्तेन यागसमाप्त्या सह वर्तत इति सपर्यन्तः। सकृत्स्तुत्वा नोपरमं कुर्वे, किंत्वा समाप्तेः स्तौमीत्यर्थः। कीदृशमग्निम्। मित्रं न क्षेत्रसाधसं पितृभ्रात्राद्यात्मकमित्रमिवास्मादीयस्य क्षेत्रस्य साधकम्। अथ द्वितीया –
मक्षू इति। कासुचित्पृत्सु केषुचित्संग्रामेष्वत्यन्तमभिनिवेशेन प्रवर्तमानेषु शूरो वा शूरो भट इव देववतो यक्ष्यमाणदेवोपेतस्य यजमानस्य रथो मक्षु गच्छतीति शेषः। रामरावणयुद्धवदत्यभिनिवेशेन प्रवृत्ते युद्धे शूरो भटः स्वदेहं विस्मृत्य परसेनां हन्तुं यथा त्वरया गच्छति तथा देवान्युष्टुमस्य यजमानस्य मनोवृत्तिस्त्वरया रथवद्गच्छतीत्यर्थः। य इद्य एव यजमानो देवतानां मन इयक्षति पूजयितुमिच्छति। तदीयं चित्तप्रसादं वाञ्छतीत्यर्थः। स एवायज्वनो यागरहितान्पुरुषानभिभुवदिदभिभवत्येव। इदमुत्तरार्धमुत्तरेषु त्रिषु मन्त्रेष्वमुवर्त्तते।
अथ तृतीया–
न यजमानेति। हे यजमान त्वं यागं कृत्वा न रिष्यसि न विनश्यसि। अत्र यजमानत्वमिष्टिकर्तृत्वम्। हे सुन्वान सोमयाजिन्न रिष्यसि। हे देवयो पाकयज्ञादिभिर्देवानिच्छंस्त्वं न रिष्यसि। अनुवर्णितं देवानामित्युत्तरार्धं पूर्ववद्योज्यम्। अथ चतुर्थी –
असदन्नेति। अत्रास्मिन्यजमाने सुवीर्यं शोभनं सामर्थ्यमसद्भवेदित्यर्थः। उतापि च त्यत्तदस्तु। किं त्यत्। आश्वश्वियम्। आशवः शीघ्रगामिनश्च तेऽश्वाश्चाऽऽश्वश्वास्तेषां संबन्धि शोभनवीर्यमस्तु। अथ पञ्चमी –
नकिष्टमिति। नकिरिति शब्दो निषेधवाची। कर्मसहितं तं यजमानं नकिर्नशत्, राक्षसादिर्मा विनाशयतु। यज्ञविरोधी पाप्मा यजमानेन सह प्रकर्षेण न योषन्मैव मिश्री भवतु। यजमानोऽपि न योषति न पाप्मना सह मिश्री भवति। अथ षष्ठी –
उपक्षरन्तीति। सिन्धवो नदीसदृशा मयोभुवः सुखं भावयित्र्यो धेनवः पूर्वमिष्टवन्तमितः परं यक्ष्यमाणं च पुरुषमेनमुपेत्य क्षरन्ति स्रवन्ति। बहुतरं क्षीरं प्रयच्छन्तीत्यर्थः। पूणन्तमस्मिन्कर्मणि जुहूं पूरयन्तं पपुरिं हविष्मत्सु कर्मसु पूर–
१ क. ख. घ. ङ. च. ०धसमिति पि०। २ ख.घ. ङ. च तम्।
[[984]]
९८४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
यिष्यन्तं च यजमानं श्रवस्यवः श्रोतुमिच्छन्त्य इव घृतस्य धारा विश्वतः सर्वत उपयन्ति समीपे प्राप्नुवन्ति।
विकल्पितानि त्रीणि धाय्यायुग्मान्युक्त्वा पुरोनुवाक्यामाह –
सोमारुद्रा इति। याऽमीवा रोगरूपा नितिर्नोऽस्माकं गयं गृहमाविवेश सोमारुद्रा हे सोमारुद्रौ तां नितिं विषूचीं विष्वग्गतिं नानादिक्षु यथा पला-यति तथा विवृहतं विशेषेणोन्मूलयतं ,पराचैः पराङ्मुखीं नितिं तामारे दूरे युवां बाधेथां, तथा नित्याऽस्मासु कृतमेनश्चित्पापं रोगरूपमप्यस्मत्प्रमुमुक्तं प्रकर्षेणास्मत्तो मोचयतम्। याज्यामाह –
सोमारुद्रा इति। हे सोमारुद्रौ युवमभौ युवामस्मे तनूषु अस्माकं शरीरेषु विश्वा सर्वाण्येतानि भेषजान्यौषधानि धत्तं स्थापयतम्। अवस्यतं तैर्भेषजै-रनिष्टं विनाशयतम्। नित्या कृतं नोऽस्माकं तनूषु यद्बद्धमेनोऽस्ति तदस्मत्तो मुञ्चतम्। इष्ट्यन्तरं विधत्ते –
“यदि बिभीयाद्दुश्चर्मा भविष्यामीति सोमापौष्णं चरुं निर्वपेत्सौम्यो वै देव-तया पुरुषः पौष्णाः पशवः स्वयैवास्मै देवतया पशुभिस्त्वचं करोति न दुश्चर्मा भवति” (सं॰ का॰ २ प्र॰ २ अ॰ १०) इति।
सोमसंबन्ध्योषधिरसेन जातत्वात्पुरुषः सोमदेवताकः। इयं वै पूषेतिश्रुतेः। पूषरूपया भूम्या तृणादिप्रदानेन पोषितत्वात्पशवः पौष्णाः। अतो हविषा तुष्टा स्वदेवता पशुभिः सहिता समीचीनां त्वचं करोति। ततो दुश्चर्मत्वमपगच्छति। तत्र पुरोनुवाक्यामाह –
सोमापूषणा इति। हे सोमापूषणौ युवां देवा अमृतस्य कर्मफलस्य नाभि-मकृण्वन्। न(ण)ह बन्धन इत्यस्माद्धातोरुत्पन्नो नाभिशब्दः। बन्धनरज्जुं कृतवन्त इत्यर्थः। सोमापूषभ्यां हि कर्मफलं यजमाने बध्यते। कीदृशौ युवाम्। धनानां द्यावापृथिव्योश्च जनयितारौ। ऐहिकामुष्मिकफलदातृत्वमेवात्र द्यावापृथिव्योर्जनकत्वम्। किंच, जातौ सन्तौ जातमात्रेणैव विश्वस्य सर्वस्य भुवनस्य लोकस्य गोपौ गोपयितारौ। तत्रैव याज्यामाह –
इमौ देवाविति। सर्वे देवा जायमानाविमौ देवौ जुषन्त सेवन्ते। इमावुभावजुष्टान्यप्रियाणि तमांसि बुद्धिमान्द्यानि गूहतां समावृण्वतां विनाशयताम्। इन्द्र आभ्यां सोमापूषभ्यामामासूस्रियासु तरुणीषु गोष्वन्ता रसपोषकाभ्यां पक्वं क्षीरं जनज्जनयति। गावो हि सारयुक्तायां भूमौ सोमेन वर्धिता ओषधीर्भक्षयित्वा बहुनवनीतगर्भं क्षीरं धारयन्ति।
[[985]]
९८५
प्रपा॰ ८ अनु॰ २२ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
अस्मात्सोमापौष्णात्पूर्वं विहितमेव पुनः फलान्तराय विधत्ते –
“सोमारौद्रं चरुं निर्वपेत्प्रजाकामः सोमो वै रेतोधा अग्निः प्रजानां प्रजनयिता सोम एवास्मै रेतो दधात्यग्निः प्रजां प्र जनयति विन्दते प्रजाम्” (सं॰ का॰ २ प्र॰ २ अ॰ १०) इति।
गर्भाशये धृतस्य रेतसोऽग्निना पच्यमानत्वादग्नेः प्रजनयितृत्वम्।
पुनरपि फलान्तराय विधत्ते –
“सोमारौद्रं चरुं निर्वपेदभिचरन्त्सौम्यो वै देवतया पुरुष एष रुद्रो यदग्निः स्वाया एवैनं देवतायै निष्क्रीय रुद्रायापि दधाति ताजगार्तिमार्छति” (सं॰ का॰ २ प्र॰ २ अ॰ १०) इति।
पुरुषस्य सोमदेवताकत्वं पूर्वमभिहितम्। यदरोदीत्तद्रुद्रस्य रुद्रत्वमिति श्रुत्या रुद्ररूपत्वमग्नेराम्नातम्। पुरुषस्य स्वामिभूता या सोमदेवता तस्या देवतायाः सकाशाच्चरुणा मुख्येन मूल्येन तं पुरुषं वैरिणं निष्क्रीय क्रूराय रुद्राय चरुरूपमुत्कोचं दत्त्वा तं वध्यं वैरिणं तस्मै प्रयच्छति। स च वैरी तदानीमेव मरणं प्राप्नोति। पुनरपि फलान्तराय विधत्ते –
“सोमारौद्रं चरुं निर्वपेज्ज्योगामयावी सोमं वा एतस्य रसो गच्छत्यग्निँ शरीरं यस्य ज्योगामयति सोमादेवास्य रसं निष्क्रीणात्यग्नेः शरीरमुत यदीता-सुर्भवति जीवत्येव” (सं॰ का॰ २ प्र॰ २ अ॰ १०) इति।
ज्योगामयावी दीर्घरोगयुक्तः। यस्य पुरुषस्य ज्योगामयति यं पुरुषं व्याधिश्चिरं पीडयति। एतस्य पुरुषस्य शरीरप्राणयोर्बन्धको योऽन्नरसः स व्याधिकाले सोमं प्राप्नोति। भुक्तस्यान्नस्य संबन्धी योऽयं सूक्ष्मो रसो मनःप्रभृतेर्लिङ्गशरी-रस्याऽऽप्यायनकरस्तेन रसेन प्राणो देहे बध्यत इतीममर्थं वाजसनेयिनः शि-शुब्राह्मणेऽन्नं ददामीति वाक्येन समामनन्ति। तस्मिन्सोमेऽन्नोपभृते सति अयं देहोऽग्निं गच्छति जाठराग्नेर्गर्भस्थान्नरसस्याभावान्मांसादिधातूनग्निर्भक्षयति। अत एवाऽऽमयाविनः शरीरं कृशं दृश्यते। एवं सति यजमानश्चरुणा मूल्येन सोमाग्निभ्यां रसं शरीरं निष्क्रीणाति। ततोऽयमरोगो भवति। किंच, यद्यप्ययं मुहूर्तमात्रं गतप्राणस्तथाऽपि भूमौ शयानस्तदानीं जीवत्येव। एतस्य चरोरङ्गत्वेन होतुर्बलीवर्ददानं विधत्ते –
१ ख. घ. ङ. च. ०दामेति।
[[986]]
९८६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
“सोमारुद्रयोर्वा एतं ग्रसितँ होता निष्खिदति स ईश्वर आर्तिमार्तोरन-ड्वान्होत्रा देयो वह्निर्वा अनड्वान्वह्निर्होता वह्निनैव वह्निमात्मानँ स्पृणोति” (सं॰ का॰ २ प्र॰ २ अ॰ १०) इति।
१रोगिसंबन्धिरसशरीरयोः सोमारुद्राभ्यां स्वीकृतत्वात्तयोर्मुखे रोगी ग्रसितो वर्तते। तं ग्रसितं होता याज्यानुवाक्याबलान्निष्खिदति तयोमुर्खान्निःसारयति। स च होता तयोः कोपादार्तिं प्राप्तुमीश्वरो योग्यो भवति। अनडुहो वह्नित्वम-नड्वाहमग्नीध इत्यत्रोपपादितम्। अग्निविषयावाहनमन्त्रपाठाद्धोतुर्वह्नित्वम्। तथा सत्यनडुहो दाता होता तेनानडुद्रूपेण वह्निनैव वह्निरूपं स्वात्मानं स्पृणोति आर्तिशान्त्या प्रीणयति। पुनरपि फलान्तराय विधत्ते –
“सोमारौद्रं चरुं निर्वपेद्यः कामयेत स्वेऽस्मा आयतने भ्रातृव्यं जनयेयमिति वेदिं परिगृह्यार्धमुद्धन्यादर्धं नार्धं बर्हिषः स्तृणीयादर्धं नार्धमिध्मस्याभ्यादध्यादर्धं न स्व एवास्मा आयतने भ्रातृव्यं जनयति” (सं॰ का॰ २ प्र॰ २ अ॰ १०) इति।
अस्मै स्व आयतनेऽस्य वैरिणः स्वकीयगृहविषये क्षेत्रविषये वा भ्रातृव्यं विवादकारिणमन्यं विरोधिनं जनयेयमिति यः कामयेत स एतं चरुं निर्वपेत्। तस्य वेदिपरिग्रहस्थानं सूत्रकारेण दर्शितम् – “भ्रातृव्यक्षेत्रं गत्वैतामिष्टिं निर्वपेत्तत्र दक्षिणमर्धं वेद्या उद्धत्य तदेवार्धेन बर्हिषः स्तृणीयादर्धमभ्यादध्यात्” इति। एवं कृते सत्ययं यजमानोऽस्य भ्रातृव्यस्य तदीयस्थान एव विवादकारिणं जनयति। अत्र विनियोगसंग्रहः –
“आग्नावैष्णवमित्यादावभिचारहविस्त्रये।
अग्ना प्र णो बृहेत्याद्या अधिका तु विकल्प्यते॥
आ न एककपाले तु मैत्रावरुणनामके।
अग्निमित्यादिका धाय्याः स्युः सोमारौद्रके चरौ।
देवानामिति चार्धर्चस्तिसृष्वृक्ष्वनुषज्यते।
षड्धाय्या द्वे तु याज्यानुवाक्ये सोमेत्युदीरिते।
सोमापौष्णे तु सोमेति मन्त्रा एकोनविंशतिः॥
१ ख. घ. ङ. च. रोगसंबन्धिश०।
[[987]]
९८७
प्रपा॰ ८ अनु॰ २२ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
अथ मीमांसा।
अष्टमाध्यायस्य तृतीयपादे चिन्तितम् –
“आग्नावैष्णव आग्नेयविकृतिः शुचिदेवकः।
अग्नीषोमीयविकृतिरथवा व्यत्ययो द्वयोः॥
प्रथमत्वद्वितीयत्वसाम्यादाद्योऽन्तिमो भवेत्।
द्विदेवत्यै(त्वै)कदेवत्य(त्व)साम्यस्य श्रुतिमत्त्वतः॥”
हविर्गणः कश्चिच्छ्रयते – “आग्नावैष्णवमेकादशकपालं निवपेत्सरस्वत्यै चरुं बार्हस्पत्यं चरुम्” इति। गणान्तरमेवं श्रूयते – “अग्नये१ पावकायाग्नये शुच-येऽष्टाकपालम्” इति। अत्राऽऽग्नावैष्णवस्य प्रथमस्थानत्वादाग्नेयविकृतित्वं युक्तम्। शुचिदेवकस्य द्वितीयस्थानत्वादग्नीषोमीयविकृतित्वमिति चेन्न। द्विदेवत्या(त्वा)दिसाम्यस्य श्रूयमाणत्वेनार्थसिद्धस्थानतो बलीयस्त्वात्। तस्मादाग्नावैष्णवोऽग्नीषोमीयविकृतिः। शुचिदेवक आग्नेयविकृतिः।
विस्पष्टमनुवाकार्था वर्ण्यन्ते बुद्धिशुद्धये।
अनुमत्यादयो वैश्वदेवो वरुणघासकाः॥
साकमेधाः पितृयज्ञस्त्र्यम्बकाश्च शुनादिकाः।
शुनासीरीयमिन्द्रादि तुरीयं च द्वयं तथा॥
पञ्चेध्मीयमपामार्गहोम एते शुनादिकाः।
देविकाद्यं कर्मषट्कं स्याद्रत्निहविरादिकम्॥
हवींषि रत्नीनां तद्वद्दीक्षणीयाऽभिषेच्यगा।
हवींषि स्युर्देवसुवां जलग्रहणसंस्कृती॥
दिशां व्यास्थापनं तद्वदभिषेकोऽथ दिग्जयः।
सेवा संसृब्हविस्तद्वद्दशमेयो ह्यवेष्टयः॥
हवींषि प्रयुजां सौत्रामणी याज्या इतीरिताः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके
द्वाविंशोऽनुवाकः॥२२॥
१ क. ०ये पवमानायाग्नये पा०। क. घ. ङ. ०द्रत्नह०।
[[988]]
९८८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजप्रमेश्वरस्य
श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
प्रथमकाण्डेऽष्टमः प्रपाठकः॥८॥
इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजप्रमेश्वरस्य
श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विर-
चिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिता-
भाष्ये प्रथमः काण्डः समाप्तः॥१॥
––––
(मूलक्रमेण–अष्ट॰ १ प्रपा॰ ८ अनु॰ १४६)।
(भाष्यक्रमेण–काण्ड॰ १ प्रपा॰ ८ अनु॰ १४०)
–––