(अथ प्रथमाष्टकेऽष्टमप्रपाठक एकविंशोऽनुवाकः)।
स्वा॒द्वीं त्वा॑ स्वा॒दुना॑ ती॒व्रां ती॒व्रेणा॒मृता॑म॒–
मृते॑न सृ॒जामि॒ सँ सोमे॑न॒ सोमो॑ऽस्य॒श्विभ्यां॑
पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ प–
च्यस्व पु॒नातु॑ ते परि॒स्रुतँ सो॒मँ सूर्य॑स्य
[[957]]
९५७
प्रपा॰ ८ अनु॰ २१) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सौत्रामणीमन्त्रपशुहविषामभिधानम्)
दुहि॒ता। वारे॑ण॒ शश्व॑ता॒। वा॒युः पू॒तः प॒वि–
त्रे॑ण प्र॒त्यङ्सोमो॒ अति॑द्रुतः। इन्द्र॑स्य॒ युज्यः॒
सखा॑। कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दा–
न्त्य॑नुपू॒र्वं वि॒यूय॑। इ॒हेहै॑षां कृणुत॒ भोज॑नानि
(१) ये ब॒र्हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः। आ॒श्वि॒नं
धू॒म्रमा ल॑भते सारस्व॒तं मे॒षमैन्द्रमृ॑ष॒भमै॒न्द्रमे–
का॑दशकपालं॒ निर्व॑पति सावि॒त्रं द्वाद॑शकपालं
वारु॒णं दश॑कपालँ॒ सोम॑प्रतीकाः पितरस्तृ–
प्णुत॒ वड॑वा॒ दक्षि॑णा (२)।
( भोज॑नानि॒ षड्विँ॑शतिश्च )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टकेऽ–
ष्टमप्रपाठके एकविंशोऽनुवाकः॥२१॥
––––––––
(अथ प्रथमकाण्डेऽष्टमप्रपाठके एकविंशोऽनुवाकः)।
विंशेऽनुवाके प्रयुजां हवींष्युक्तानि। एकविंशे सौत्रामण्या मन्त्राः पशवो हवींषि चोच्यन्ते।
कल्पः – " अग्रेण गार्हपत्यमवटं खात्वा तस्मिन्सुरायाः कल्पेन सुरां संद-धाति परिस्रुद्भवति स्वाद्वीं त्वा स्वादुनेति शष्पैः सुरां संसृजति” इति। पाठस्तु––
स्वादीं त्वेति। हे सुरे स्वादीं त्वा स्वादुना सोमेन संसृजामि। अत्र सोम-शब्देन व्रीहियवाद्यङ्कुरं शष्पशब्दाभिधेयं बालतृणमु(णं चो)पलक्ष्यते। सोमस्यौषधिराजत्वेनोपलक्षयितुं शक्यते(त्वात्)। कीदृशीं त्वाम्। तीव्रामुग्रगन्धाम्। अमृताममृतवदाप्यायनकारिणीम्। अत एव बलीवर्दाश्वादीनाप्यायितुं पाययन्ति। कीदृशेन सोमेन। तीव्रेण वमनाद्युपयुक्तौषधित्वेन तीव्रत्वम्। अमृतेन “अपाम सोमममृता अभूम” इत्यादिश्रुतेनामृतत्वप्रापकेन(ण)। एवंविधसोमात्मकेन शष्पेण संसृष्टत्वात्त्वं सोमोऽसीति। तस्माद्देवतात्रयार्थं त्वं पच्यस्व। सुत्राम्णे सुष्टु रक्षकाय। सक्तुप्रभृतिकद्रव्यविधानाय प्रस्तौति––
[[958]]
९५८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(सौत्रामणीमन्त्रपशुहविषामभिधानम्)
“इन्द्रस्य सुषुवामस्य दशधेन्द्रियं वीर्यं पराऽपतत्। स यत्प्रथमं निरष्ठीवत्। तत्क्वलमभवत्। यद्द्वितीयम्। तद्बदरम्। यत्तृतीयम्। तत्कर्कन्धु। यन्नस्तः। स सिँहः। यदक्ष्योः (१) । स शार्दूलः। यत्कर्णयोः। स वृकः। य ऊर्ध्वः। स सोमः। याऽवाची। सा सुरा” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ५) इति।
सोममभिषुतवत इन्द्रस्य सामर्थ्यं दशधा भिन्नं सत्पतितमभूत्। युक्तं चैतत्। अभिषवस्य वधरूपत्वात्। घ्नन्ति वा एतत्सोमं यदभिषुण्वन्तीति श्रुतेः। स चेन्द्रो वक्त्रेण त्रिवारं निष्ठीवनं कृतवान्। तेन द्रव्यत्रयमभूत्। प्रथमनिष्ठीवनेन क्वलं बालखर्जूरफलमभूत्। बदरं क्रमुकपरिमितं सूक्ष्मं बदरीफलम्। कर्कन्धु हरीतकीपरिमितं स्थूलं बदरीफलम्। तदेतत्त्रयं मुखच्छिद्रान्निःसृतम्। यत्तु वीर्यं नासिकाछिद्रान्निःसृतं स सिंहमृगोऽभूत्। यच्चाक्षिच्छिद्राभ्यां निःसृतं स शा-र्दूलोऽभवत्। यदपि कर्णच्छिद्राभ्यां निर्गतं स वृक आरण्यश्वाऽभूत्। यो वीर्यभागो मूर्धच्छिद्रादूर्ध्वो निर्गतः स सोमोऽभवत्। या च वीर्यकला पायुगु-ह्याभ्यामवाची निर्गता सा सुराऽभवत्। यद्यपि क्वलादीन्यष्टैव द्रव्याणि तथाऽपि च्छिद्रदशकान्निर्गतत्वेन दशधा वीर्यपातोऽभिहितः। द्रव्याणि विधत्ते–
“त्रयाः सक्तवो भवन्ति। इन्द्रियस्यावरुद्ध्यै। त्रयाणि लोमानि (२) । त्विषिमेवावरुन्धे। त्रयो ग्रहाः। वीर्यमेवावरुन्धे” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ५) इति।
त्रयास्त्रिविधाः सक्तवो भवेयुः कर्तव्या इत्यार्थः। क्वलैर्बदरैः कर्कन्धुभिश्च निष्पाद्यत्वात्त्रिविधाः। सक्तूनामिन्द्रियाभिवृद्धिहेतुत्वादिन्द्रियसंपत्तिः। त्रयाणि सिंहशार्दूलवृकाणां संबन्धीनि त्रीणि त्रिविधानि लोमानि संपाद्यानि। त्रयस्त्रि-संख्याका अश्विसरस्वतीसुत्रामदेवताका ग्रहा ग्रहीतव्याः। लोमभिस्त्विषिर्दीप्तिः संपद्यते ग्रहैश्च वीर्यम्।
सौत्रामण्या द्रव्यान्तरत्वशङ्कां वारयन्सन्क्तुत्रयादीनि द्रव्याणि प्रशंसति––
“नाम्ना दशमी। नव वै पुरुषे प्राणाः। नाभिर्दशमी। प्राणा इन्द्रियं वीर्यम्। प्राणानेवेन्द्रियं वीर्यं यजमान आत्मन्धत्ते” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ५) इति।
सक्तुत्रयलोमत्रयग्रहत्रयैर्निष्पन्ना नवसंख्या। तत्र सौत्रामणीदशमीत्वं नामरू-पेणैव न तु द्रव्यरूपेण। यथोक्तद्रव्यनिष्पाद्यकर्मसंघनामत्वात्। पुरुषेऽपि मुख्य–
[[959]]
९५९
प्रपा॰ ८ अनु॰ २१) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सौत्रामणीमन्त्रपशुहविषामभिधानम्)
च्छिद्राणि शिरसि सप्ताधो द्वे इति नवसंख्याकानि प्राणाधारत्वात्प्राणा इत्यु-च्यन्ते। नाभिस्तु दशमी। सा च च्छिद्राभासरूपत्वान्न मुख्यच्छिद्रम्। यथा सौत्रामणी न द्रव्यं तद्वत्। नवच्छिद्रगताश्च प्राणा इन्द्रियशब्देन वीर्यशब्देन चोच्यन्ते। अतोऽत्र द्रव्यगतया नवसंख्यया प्राणानिन्द्रियं वीर्यं च यजमाने संपादयति। विधत्ते –––
“सीसेन क्लीबाच्छष्पाणि क्रीणाति। न वा एतदयो न हिरण्यम् (३) । यत्सीसम्। न स्त्री न पुमान्। यत्क्लीबः। न सोमो न सुरा। यत्सौत्रामणी समृद्ध्यै” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ५) इति।
सीसक्लीबशष्पाणामन्तरालवर्तित्वं साम्यम्। सीसमयसोऽधिकं हिरण्यात्तु न्यूनम्। क्लीबोऽपि स्त्रिया अधिकः पुरुषात्तु न्यूनः। शष्पाण्यपि सुराजनक-त्वात्सुराया अधिकानि सोमवत्पूतत्वाभावात्ततो न्यूनानि। तान्येतानि सौत्रा-मणीहेतुतया तच्छब्देन निर्दिश्यन्ते।
सोमेन संसृजामीत्यस्याभिप्रायं दर्शयति–––
“स्वाद्वीं त्वा स्वादुनेत्याह। सोममेवैनां करोति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ५) इति। देवतार्थपाकस्य प्रसिद्धतां दर्शयति––
“सोमोऽस्यश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यत्वेत्याह। एताभ्यो ह्येषा देवताभ्यः पच्यते” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ५ ) इति। शष्पैः संसृष्टायास्त्रिषु दिनेषु तथैव निवासं विधत्ते –––
“तिस्रः सँसृष्टा वसति (४) । तिस्रो हि रात्रीः क्रीतः सोमो वसति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ५) इति।
क्रीतसोमस्य त्रिरात्रवासोऽन्यत्र प्रसिद्धः। तथा च श्रूयते – " तँ सोम-माह्रियमाणं गन्धर्वो विश्वावसुः पर्यमुष्णात्स तिस्रो रात्रीः परिमुषितोऽवसत्तस्मात्तिस्रो रात्रीः क्रीतः सोमो वसति” इति।
कल्पः – " पुनातु ते परिस्रुतमिति वालमयेन पवित्रेण सुरां पावयति” इति।
यथा शुद्ध्यर्थं जलं वस्त्रेण गालितं भवति तद्वदियं वालपवित्रेण गालिता कार्या। पाठस्तु––
पुनातु त इति। हे इन्द्र ते त्वदर्थं सूर्यस्य दुहिता सुरां पावयतु सूर्यसंबन्धिनी
१ ख. घ. ङ. च. न च च्छि०।
[[960]]
९६०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(सौत्रामणीमन्त्रपशुहविषामभिधानम्)
दुहितृस्थानीया दीप्तिः परिस्रुतं द्ववीभूतं सोमं पूर्वमन्त्रेण सोमीकृतं सुराद्रव्यं वारेण बालजन्येन पवित्रेण पुनातु शोधयतु। कीदृशेन वारेण। शश्वता शाश्वतेन दृढेन। तना विस्तीर्णेन। पवित्रेणानेन पूतः सोमो वायुवच्छीघ्रगामी भूत्वा प्रत्यङ्ङधोवर्ती पात्राभिमुखः सन्नभितः शीघ्रं द्रुतोऽभवत्। कीदृशः सोमः। इन्द्रस्य युज्यो योग्यः सखा। विधत्ते –––
“पुनातु ते परिस्रुतमिति यजुषा पुनाति व्यावृत्त्यै” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ५) इति।
लौकिकजलादिकं न मन्त्रेणाऽऽविलं पुनन्तीति ततो व्यावृत्तिर्भवति।
साधनं विधत्ते –––
“पवित्रेण पुनाति। पवित्रेण हि सोमं पुनन्ति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ५) इति।
दशापवित्रेण सोमस्य शोधनं प्रसिद्धम्।
सोमसाम्याय वालस्वीकारं इति दर्शयति–––
“वारेण शश्वता तनेत्याह। वारेण हि सोमं पुनन्ति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ५) इति।
वालेन सोमशोधनं सोमप्रकरणे सूत्रकारेण दर्शितम् – " शुक्लामूर्णास्तुकां यजमानः प्रयच्छति तां स काले दशापवित्रस्य नाभिं कुरुते” इति।
वायुः पूतः इत्यस्या ऋचः प्रयोगं पुरुषभेदेन व्यवस्थापयति–––
“वायुः पूतः पवित्रेणेति नैतया पुनीयात्। व्यृद्धा ह्येषा। अतिपवितस्यैतया पुनीयात्” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ५ ) इति।
द्विविधो हि सोमपाः सोमवामी जीर्णसोमश्चेति। तत्र सोमवामिनः सोमो बहिर्निर्गत इति प्राङ्सोमो अतिद्रुत इत्येतादृशः पाठस्तस्मिन्युक्तः। प्रत्यङ्ङित्यस्यार्थस्य तस्मिन्नभावात्। तं प्रत्येषा व्यृद्धा समृद्धिहीना। यस्त्वतिपवितो जीर्णसोमस्तं प्रत्यर्थसद्भावान्समृद्धैव। तदेतत्सूत्रकारेण विशदीकृतम् – " प्राङ्सोमो अतिद्रुत इति सोमवामिनः प्रत्यङ्सोमो अतिद्रुत इति सोमातिपवितस्य” इति।
कल्पः – “अपरस्मिन्खरे सुराग्रहान्गृह्णाति कुविदङ्गेति” इति। पाठस्तु––
कुविदङ्गेति। अङ्गशब्दः प्रियसंबोधनवाची। हे प्रिया अश्विसरस्वतीसुत्रा-मेन्द्रा ये यज्वानो बर्हिषो यागस्य नमोवृक्तिं नमस्कारविनाशं न जग्मुर्न प्रापुः
१ क. घ. ङ. च. ०प्तिः स्रु०। २ क. ०मानाय प्र०।
[[961]]
९६१
प्रपा॰ ८ अनु॰ २१) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सौत्रामणीमन्त्रपशुहविषामभिधानम्)
किंत्वत्यन्तश्रद्धालवोऽनुतिष्ठिन्ति तेषामेषां यज्वनां हविर्विषयाणि भोजनानीहेह कृणुत। ग्रहणपात्राणामनेकत्वाद्वीप्सा। तत्रोपमानमुच्यते। कुविच्छब्दो बह्वर्थवाची। चिच्छब्दः समुच्चये। यथा लोके यवमन्तो यवादिधान्योपेताः कृषिकाः कुविद्यवंचिद्बहुलं यवमन्यानि च गोधूमप्रियंग्वादिधानान्यनुपूर्वं तत्परीक्षाक्रमेण वियूयेदं पक्वमिदमपक्वमिति पृथक्कृत्य दान्ति लुनन्ति तथा यूयमपि नमस्कारादिरहितो नास्तिकोऽयं यज्वा श्रद्धालुरयं यज्वेति विविच्य श्रद्धालोर्हवींषि भुङ्ग्ध्वम्। विधत्ते ––
“कुविदङ्गेत्यनिरुक्तया प्राजापत्यया गृह्णाति (५) । अनिरुक्तः प्रजापतिः। प्रजापतेराप्त्यै” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ५) इति।
अस्यामृचि प्रस्तुतान्यश्विसरस्वत्यादिनामानि न श्रुतानि किंत्वङ्गेति साधा-रणशब्दः श्रुतस्तस्मादत्रेयं देवतेतिविशेषनिरुक्तवर्जितेयमृक्। प्रजापतिर्जगदी-श्वरोऽपि मूर्तिरहितत्वादनिरुक्तः। अत एव जगत्कारणप्रतिपादनपरे नासदासीयसूक्ते श्रूयते – ‘को अद्धा वेद क इह प्रवोचत्। कुत आजाता कुत इयं विसृष्टिः’ इति। ‘यो अस्याध्यक्षः परमे व्योमन्। सो अङ्ग वेद यदि वा न वेद’ इति च। अतो निरुक्तराहित्यसाम्यादस्याः प्राजापत्यत्वम्।
अत्र ग्रहाणां भिन्नत्वेन मन्त्रान्तरप्रसक्तिं वारयितुं विधत्ते –
“एकयर्चा गृह्णाति। एकधैव यजमाने वीर्यं दधाति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ५) इति। मन्त्रानुक्त्वा पशून्विधत्ते ––––
आश्विनं धूम्रमिति। मलिनश्वैत्यवर्णोपेतो धूम्रः। अत्रत्या देवताः प्रशंसति–
“आश्विनं धूम्नमालभते। अश्विनौ वै देवानां भिषजौ। ताभ्यामेवास्मै भेषणं करोति। सारस्वतं मेषम्। वाग्वै सरस्वती। वाचेवैनं भिषज्यति। ऐन्द्रमृषभँ सेन्द्रत्वाय (६)” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ५) इति।
पशून्विधाय पुरोडाशान्विधत्ते –––
ऐन्द्रमेकादशकपालमिति। कल्पः – “दक्षिणेऽग्नौ शतातृण्णां स्थालीं प्रबद्धां धारयति तस्या विल उदीचीनदशं पवित्रं वितत्य यन्मे मनः परागतमिति तस्मिञ्शतमानं हिरण्यं निधाय सोमप्रतीकाः पितरस्तृण्णुतेति तस्मिन्सुरा-शेषमानयति” इति।
१३१
[[962]]
९६२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–
(सौत्रामणीमन्त्रपशुहविषामभिधानम्)
सोमप्रतीकाः सोमप्रमुखाः। दक्षिणां विधत्ते –
वडवेति। अश्वस्य योषिद्वडवेति।
पशुभेदेन प्रसक्तं यूपभेदमपोह्य१ यूपैक्यं विधत्ते –
“यत्रिषु यूपेष्वालभेत बहिर्धाऽस्मादिन्द्रियं वीर्यं दध्यात्। भ्रातृव्यमस्मै जनयेत्। एकयूप आलभते। एकधैवास्मिन्निन्द्रियं वीर्यं दधाति। नास्मै भ्रातृव्यं जनयति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६) इति।
अस्माद्बहिर्धा यजमानशरीराद्बहिर्देशे।
प्रकृतौ यद्देवत्यः पशुस्तद्देवत्यः पुरोडाश इत्यभिधानादत्रापि तत्प्राप्तौ निषेधति –
“नैतेषां पशूनां पुरोडाशा भवन्ति। ग्रहपुरोडाशा ह्येते” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
ग्रहा एवात्र पुरोडाशस्थानीया इत्यर्थः।
यदुक्तं सूत्रकारेण – “सर्वेषामेका पुरोरुगेका पुरोनुवाक्यैकः प्रैष एका याज्या” इति। तत्र त्रयाणां ग्रहाणां याज्यानुवाक्ये विधत्ते –
“युवँ सुराममश्विनेति सर्वदेवत्ये याज्यानुवाक्ये भवतः। सर्वा एव देवताः प्रीणाति ( १ )” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
युवँ सुराममित्याद्यृग्द्वयं ब्राह्मणग्रन्थे प्रथमकाण्डस्य चतुर्थप्रपाठके द्वितीया-नुवाके समाम्नातमतस्तत्रैव व्याख्यास्यते। तत्र चाश्विशब्दो यथा श्रुतस्तथै-वेन्द्रावतमितीन्द्रशब्दोऽपि श्रुतः। सरस्वती त्वेति सरस्वतीशब्दोऽपि श्रुतः। ततोऽनयोः सर्वदेवत्यत्वं प्रकृतानां सर्वेषां देवानां प्रतीयमानत्वात्।
विधत्ते –
“ब्राह्मणं परिक्रीणीयादुच्छेषणस्य पातारम्। ब्राह्मणो ह्याहुत्या उच्छेषणस्य पाता” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
हुतायाः सुरायाः शेष उच्छेषणम्। तत्रैवानुकल्पं विधत्ते –
“यदि ब्राह्मणं न विन्देत्। वल्मीकवपायामवनयेत्। सैव ततः प्रायश्चित्तिः” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
येयमवनयनक्रिया सैव ततस्तत्र ब्राह्मणपानाभाववैकल्ये प्रायश्चित्तिः।
पशूनां पुरोडाशानां च विलक्षणदेवत्यत्वं प्रशंसति–
१ ख. ०पोद्य यू०।
[[963]]
९६३
प्रपा॰ ८ अनु॰ २१) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सौत्रामणीमन्त्रपशुहविषामभिधानम्)
“यद्वै सौत्रामण्यै व्यृद्धम्। तदस्यै समृद्धम्। नानादेवत्याः पशवश्च पुरो-डाशाश्च भवन्ति समृद्ध्यै” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
कर्मान्तरे पशोः पुरोडाशस्य चैकदेवत्यत्वविधानाद्भिन्नदेवत्यत्वं समृद्धिहीनं भवति। यदेवान्यत्र समृद्धिहीनं भिन्नदेवत्यत्वं सौत्रामण्यां क्रियते तद्भि-न्नदेवत्यत्वं सौत्रामण्यामस्यां वाचनिकत्वात्समृद्धं संपद्यते। तस्मादेव समृद्ध्यै पशवश्च पुरोडाशाश्च भिन्नदेवत्या भवन्ति।
ऐन्द्रस्य पशोः पुरोडाशस्य च नैरन्तर्यं प्रशंसति–
“ऐन्द्रः पशूनामुत्तमो भवति। ऐन्द्रः पुरोडाशानां प्रथमः (२)। इन्द्रिये एवास्मै समीची दधाति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
ऐन्द्रमृषभमिति पशुविधीनामन्ते पठितं, तदनन्तरमेवैन्द्रमेकादशकपालं निर्वपतीति पुरोडाशविधीनामादौ पठितं, तस्मादैन्द्रयोर्नैरन्तर्यादस्य यजमानस्य दक्षिणवामभागस्थे द्वे अपीन्द्रिये सम्यक्स्थापिते भवतः।
प्रकृतौ पशूनामङ्गयागात्पूर्वं पुरोडाशप्रचारो विहितः। अत्र त्वङ्गयागादूर्ध्वं तदीयेभ्योऽनुयाजेभ्यः पुरा, तं प्रचारं विधत्ते –
“पुरस्तादनूयाजानां पुरोडाशैः प्रचरति। पशवो वै पुरोडाशाः। पशूनेवावरुन्धे” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
पशुप्रयोगमध्ये प्रचारात्पुरोडाशानां पशुत्वम्। पुरोडाशदेवताः प्रशंसति–
“ऐन्द्रमेकादशकपालं निर्वपति। इन्द्रियमेवावरुन्धे। सावित्रं द्वादशकपालं प्रसूत्यै। वारुणं दशकपालम्। अन्तत एव वरुणमवयजते” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
वडावायाः सौत्रामण्याश्च साम्येन दक्षिणां प्रशंसति–
“वडावा दक्षिणा (३)। उत वा एषाऽश्वँ सूते। उताश्वतरम्। उत सोम उत सुरा। यत्सौत्रामणी समृद्ध्यै” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
एषा वडवा यदश्वमश्वतरं वोभयं प्रसूते। अश्वगर्दभजातिद्वयसंगमादुत्प-न्नोऽश्वतरः। या सौत्रामणी साऽपि तद्वत्सोमः सुरा वेत्युभयरूपा भवति। अतः सदृशदक्षिणा समृद्धिकरी।
सोमवामिन उक्तास्त्रय एव पशवः। सोमातिपवितस्य तु विशेषं विधत्ते –
[[964]]
९६४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–
(सौत्रामणीमन्त्रपशुहविषामभिधानम्)
“बार्हस्पत्यं पशुं चतुर्थमतिपवितस्याऽऽलभते। ब्रह्म वै देवानां बृहस्पतिः। ब्रह्मणैव यज्ञस्य व्यृद्धमपिवपति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
व्यृद्धं विकलाङ्गमपिवपति समृद्धं करोति।
पूर्वपशुवत्समानदेवत्यपुरोडाशाभावप्रसक्तौ प्रकृतिवत्तादृशस्य पुरोडाशस्य प्रतिप्रसवं विधत्ते –
“पुरोडाशवानेष पशुर्भवति। न ह्येतस्य ग्रहं गृह्णन्ति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
पूर्वेषां पशूनां समानदेवत्या ग्रहा एव पुरोडाशस्थानीया इत्युक्तम्। अत्र तु ग्रहाभावात्पुरोडाशः कार्यः। विधत्ते –
“सोमप्रतीकाः पितरस्तृण्णुतेति शतातृण्णायाँ समनमयति ( ४ )। शतायुः पुरुषः शतेन्द्रियः। आयुष्येवेन्द्रिये प्रतितिष्ठति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
शतातृण्णा शतच्छिद्रा स्थाली।
दक्षिणाग्नेरुपरि शतातृण्णायां(या) बन्धनं यत्सूत्रकारेणोक्तं तदिदं विधत्ते –
“दक्षिणेऽग्नौ जुहोति। पापवस्यसस्य व्यावृत्त्यै” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
पापवस्यसं पापेन धनवत्तरत्वम्। निषिद्धां हि सुरां स्वकीयद्रव्यत्वेन संपादयन्पुरुषः पापाचरणेन धनवत्तरो भवति। तस्या व्यावृत्तिः कर्तव्या। सोमाज्यादिवदाहवनीय एव तद्धोमे व्यावृत्तिर्न भवेत्। तस्माद्दक्षिणेऽग्नौ जुहुयात्। शतातृण्णायां हिरण्यस्थापनं विधत्ते –
“हिरण्यमन्तरा धारयति। पूतामेवैनां जुहोति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
अन्तरा दक्षिणाग्निसुरयोर्मध्ये। सा च सुरा हिरण्यस्पर्शेन पूता भवति।
परिमाणं विधत्ते –
“शतमानं भवति। शतायुः पुरुषः शतेन्द्रियः। आयुष्येवेन्द्रिये प्रतितिष्ठति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
दक्षिणाग्नौ शतातृण्णायाः स्थापनं विधत्ते –
“यत्रैव शतातृण्णां धारयति ( ५ )। तन्निदधाति प्रतिष्ठित्यै” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
[[965]]
९६५
प्रपा॰ ८ अनु॰ २१) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सौत्रामणीमन्त्रपशुहविषामभिधानम्)
त्वँ सोम प्रचिकित इत्यादिभिरुपस्थानं विधत्ते –
“पितॄन्वा एतस्येन्द्रियं वीर्यं गच्छति। यँ सोमोऽतिपवते। पितृणां याज्यामनुवाक्याभिरुपतिष्ठते। यदेवास्य पितॄनिन्द्रियं वीर्यं गच्छति। तदेवावरुन्धे” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
यं यजमानं पीतः सोमोऽतिशयेन शोधयति स्वयं तदुदरे जीर्णत्वादेतस्ये-न्द्रियमिति पूर्वत्रान्वयः। संख्यां विधत्ते –
“तिसृभिरुपतिष्ठते। तृतीये वा इतो लोके पितरः। तानेव प्रीणाति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
तदेतदापस्तम्बेन स्पष्टीकृतम् – “स्रवन्ति सौमीभिः पितृमतीभिस्तिसृभिस्ति-सृभिरुत्तरोत्तराभिरुपतिष्ठन्ते त्वँ सोम प्राचिकित इत्येताः सम्नाम्नाता भवन्ति पुरस्तादध्वर्युर्दक्षिणतो ब्रह्मा पश्चाद्धोता” इति। त्वँ सोम प्रचिकितस्त्वया हि नः पितरस्त्वँ सोम पितृभिरित्यध्वर्योरेतास्तिस्रः। बर्हिषदः पितर आऽहं पितॄ-नुपहूताः पितर इति ब्रह्मण एतास्तिस्रः। अग्निष्वात्ताः पितरो ये अग्निष्वात्ता वान्यायै दुग्ध इति होतुरेतास्तिस्रः।
तनेतानुपस्थातॄन्विधत्ते –
“अथो त्रीणि वै यज्ञस्येन्द्रियाणि। अध्वर्युर्होता ब्रह्मा। त उपतिष्ठन्ते। यान्येव यज्ञस्येन्द्रियाणि। तैरेवास्मै भेषजं करोति (६)” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
इन्द्रियवद्व्यवहारनिर्वाहकत्वादृत्विजां यज्ञेन्द्रियत्वम्।
तदेवमेतदन्तेनानुब्राह्मणेन मन्त्रकाण्डोक्ताः प्राधानकर्मविधयस्तन्मन्त्राश्च व्याख्याताः। अथानुब्राह्मणशेषेण व्याख्येयमन्त्रकाण्डनिरपेक्षो राजसूयप्रयोगोऽभिधीयते।
तत्राऽऽरम्भकाले कर्तव्यं पवित्राख्यं सोमयागं विधत्ते –
“अग्निष्टोममग्र आहरति। यज्ञमुखं वा अग्निष्टोमः। यज्ञमुखमेवाऽऽरभ्य सवमाक्रमते” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
सोमयागानां सर्वेषां प्रकृतित्वेनाग्निष्टोमस्य यज्ञमुखत्वम्। सवमभिषेकयुक्तं राजसूयमाक्रमते प्राप्नोति। विधत्ते –
“अथैषोऽभिषेचनीयश्चतुस्त्रिँशपवमानो भवति। त्रयस्त्रिँशद्वै देवताः। ता एवाऽऽप्नोति। प्रजापतिश्चतुस्त्रिँशः। तमेवाऽऽप्नोति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ६ ) इति।
१ क. ०वन्ती सौ०। २ क. घ. ङ. च. ०हते त्वँ।
[[966]]
९६६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–
(सौत्रामणीमन्त्रपशुहविषामभिधानम्)
अथाग्निष्टोमादूर्ध्वं न तु तदनन्तरम्। आनुमतादिभी रत्निहविःपर्यन्तैर्यागैर-ग्निष्टोमाभिषेचनीययोर्व्यवहितत्वात्। प्रकृतौ वहिष्पवमानमाध्यंदिनपवमानार्भ-वपवमानानां क्रमेण त्रिवृत्पञ्चसप्तदशस्तोमा विहिताः। अत्र तु तान्परित्यज्य चतुस्त्रिंशस्तोमः प्रयोक्तव्यः। समिधमातिष्ठेत्यनुवाके त्रयस्त्रिंशस्तोमविधायकं ब्राह्मणमुदाहृतम्। तत्रैवावस्थितिविशेषेणैकां स्तोत्रीयामधिकां संपाद्य चतुस्त्रिं-शस्तोमं कुर्यात्। स चाऽऽवृत्तिविशेषः सामसूत्रे द्रष्टव्यः। ये देवा दिव्येकाद-शस्थेतिमन्त्रे त्रयस्त्रिंशद्देवा उक्ताः। यद्वा वाजसनेयिनः शाकल्यब्राह्मणेऽधीयते – “अष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्यास्ता एकत्रिँशदिन्द्रश्चैव प्रजा-पतिश्च त्रयस्त्रिँशौ” इति। पूर्वोक्ताः कर्मभुज एताः सूपास्या इति तत्तत्प्रकर-णादवगम्यते। एतासां त्रयस्त्रिंशद्देवतानां प्रजारूपाणां पालकोऽन्यः प्रजापति-श्चतुस्त्रिंशः। यथोक्तस्तोमे तु यथोक्तसर्वदेवताप्राप्तिर्भवति।
पवमानशब्देन प्रथमस्य बहिष्पवमानस्यैव सहसा बुद्धिस्थत्वात्तत्रैवायं चतु-स्त्रिंशस्तोम इति भ्रमं व्युदशितुं त्रिष्वपि पवमानेष्वेतं स्तोमं विधत्ते –
“सँशर एष स्तोमानामयथापूर्वम्। यद्विषमाः स्तोमाः (१)। एतावान्वै यज्ञः। यावान्पवमानाः। अन्तःश्लेषणं त्वा अन्यत्। यत्समाः पवमानाः। तेनासँशरः। तेन यथापूर्वम्” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ७ ) इति।
एतस्मिन्पवमाने चतुस्त्रिंशस्तोमं कृत्वैतयोस्तदकरणे सति यद्वैषम्यं भवति स एष स्तोमानां संशरः सम्यग्घिंसनं भवति। द्वितीयतृतीयपवमानयोश्चोदकप्राप्तौ यौ पञ्चदशसप्तदशस्तोमौ तयोः प्रथमपवमानप्रयुक्ताच्चतुस्त्रिंशस्तोमान्न्यूनत्वेन हिंसैव भवति। किंचायथापूर्वत्वं परो दोषः। स्तोमेषु दुष्टेषु यज्ञस्य किमाया-तमिति न शङ्कनीयम्। पवमानस्तोमदोषस्य यज्ञभ्रंशे पर्यवसानात्। एते त्रयः पवमाना इति यावानेतावानेव मुख्यो यज्ञः। अन्यत्सर्वं यज्ञस्यान्तःश्लेषणम्। यथा भित्तेर्दार्ढ्यायान्तर्दृढकाष्ठं पाषाणो वा प्रक्षिप्यते तद्वद्यज्ञस्यान्यङ्गजातं संपूर्त्यर्थमेव क्रियते, न तु मुख्यस्वरूपम्। त्रयाणामपि पवमानानां चतुस्त्रिंश-स्तोमे सति पूर्वोक्तदोषद्वयं न भवति।
अभिषेचनीयस्योक्थ्यसंस्थारूपत्वं विधत्ते –
“आत्मनैवाग्निष्टोमेनर्ध्नोति। आत्मना पुण्यो भवति। प्रजा वा उक्थानि। पशव उक्थानि। यदुक्थ्यो भवत्यनुसंतत्ये (२)” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ७ ) इति।
१ क. घ. ङ. च. ०नः क०। २ ख. ०त्यास्त ए०। ३ क. घ. ङ. च. ०जापतिरू०।
[[967]]
९६७
प्रपा॰ ८ अनु॰ २१) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सौत्रामणीमन्त्रपशुहविषामभिधानम्)
अग्निष्टोमे द्वादशैव शस्त्राणि। उक्थ्ये तु तेभ्य ऊर्ध्वं त्रीणि शस्त्राणि। तथा सति द्वादशशस्त्रयुक्तेनाग्निष्टोमभागेनायं यजमान आत्मनैव स्वयमेव धनादिभिः समृद्धो भवति। स्वर्गाहेतुपुष्ट्या युक्तश्च भवति। तत उत्तरभाविनां त्रयाणां प्रजापशुरूपत्वात्पञ्चदशस्तोत्रयुक्तोक्थ्यरूपत्वे सति प्रजासु पशुषु च समृद्धिरनुसंतता भवति।
बहिष्पवमानस्तोत्रस्य प्रारम्भे चोदकप्राप्तामुपास्मै गायता नर इत्येतामृचं बाधितुमृगन्तरं विधत्ते –
“उप त्वा जामयो गिर इति प्रतिपद्भवति। वाग्वै वायुः। वाच एवैषोऽ-भिषेकः। सर्वासामेव प्रजानाँ सूयते। सर्वा एनं प्रजा राजेति वदन्ति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ८ ) इति।
प्रतिपद्यत उपक्रम्यतेऽनयेति प्रतिपत्। आदौ पठनीयेत्यर्थः। अस्यामृचि वायोरनीके अस्थिरन्निति गिरां वायुसपीपे स्थितिः पठ्यते। स च वायुर्वा-क्स्वरूपः। कोष्ठाग्निप्रेरितस्य वायोः कण्ठताल्वाद्यभिघातेनाक्षरविशेषोत्पत्तेः। अभिषेचनीये योऽभिषेकः क्रियते सोऽयं वाच एवाभिषेकः। तत्कथमित्युच्यते – सर्वासामेव प्रजानां मध्ये सूयतेऽभिषिच्यते। सर्वाश्च प्रजा एनं राजेति वदन्त्यः सेवन्ते। तस्मात्तादृशवाक्प्रेरकवायुप्रतिपादिका सेयमृगेवाऽऽदौ पाठ्या।
ऋगन्तरपाठं विधत्ते –
“एतमु त्यं दशक्षिप इत्याह। आदित्या वे प्रजाः। प्रजानामेवैतेन सूयते।” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ८ ) इति।
इत्याह, इत्येतामृचं पठेत्। अस्यामृचि समादित्येभिरख्यतेत्यादित्याः श्रूयन्ते। ते चाऽऽदित्या एव प्रजा अदितेरुत्पन्नत्वात्। तेन मन्त्रपाठेन प्रजानामेव मध्येऽभिसूयतेऽभिषिच्यते। ऋगन्तरपाठं विधत्ते –
“यन्ति वा एते यज्ञमुखात्। ये संभार्या अक्रन् (१)। यदाह पवस्व वाचो अग्निय इति। तेनैव यज्ञमुखात्” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ८ ) इति।
सन्यग्भ्रियन्ते धीयन्ते पोष्यन्ते वा तृचा याभिराद्याभिग्भिस्तास्तृचानामाद्या ऋचः संभार्याः। तादृश ऋचो य उद्गातारोऽक्रन्कुर्वन्ति पठन्ति त एत उद्गातारो यज्ञमुखाद्यन्ति वा अपगच्छन्त्येव। पवस्वेत्यृचः पाठे तु तत्र हे सोम त्वमग्रियोऽग्रे भव आदिभूतः सन्वाचः सोधयेत्यभिधानाद्यज्ञमुखादपगमनं न भवति। उच्छब्दयुक्ताः काश्चिदृचो विधत्ते –
“अनुष्टुक्प्रथमा भवति। अनुष्टुगुत्तमा। वाग्वा अनुष्टुक्। वाचैव प्रयन्ति।
[[968]]
९६८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–
(सौत्रामणीमन्त्रपशुहविषामभिधानम्)
वाचोद्यन्ति। उद्वतीर्भवन्ति। उद्वद्वा अनुष्टुभो रूपम्। आनुष्टुभो राजन्यः(२)। तस्मादुद्वतीर्भवन्ति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ८ ) इति।
स्तोत्रस्याऽऽदावन्ते त्वनुष्टुभावृचौ भवतः। तथा सत्यनुष्टुप्छन्दसो वाग्वि-शेषत्वेन वाग्रूपत्वाद्वाचैव प्रारम्भसमाप्ती कृते भवतः। यद्यप्युप त्वा जामयो गिर इत्यादयो गायत्र्यः, तथाऽप्युच्छब्दयुक्ताभिग्भिरनुष्टुप्त्वं संपद्यते। अनुष्टुभो हि स्वरूपमुच्छब्दयुक्तम्। तस्योत्कृष्टत्वात्। यद्वा सौरीष्वनुष्टुप्छन्द-स्कासूद्यन्नद्य मित्रेत्यादिषूच्छब्ददर्शनादनुष्टुब्रूपमुच्छब्दैरुपेतम्। अनुष्टुभः संबन्धी राजन्योऽनुष्टुप्छन्दसां प्रतिष्ठेति श्रुतेः। यथा छन्दसां मध्येऽनुष्टुभ उत्तमत्वं तद्वद्राज्ञः सर्वपालकत्वेनोत्तमत्वात्(त्वम्)। तस्मात्प्रशस्तत्वादुच्छब्दयुक्ता ऋचः कार्याः। स्तोत्रसमापिकामृचं विधत्ते –
“सौर्यनुष्टुगुत्तमा भवति। सुवर्गस्य लोकस्य संतत्यै” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ८ ) इति।
पूर्वोक्ता उद्वतीरिमां च सौरीं सामसूत्रे जानीयात्। सूर्यस्य स्वर्गवाचित्वा-त्सौर्या समापने स्वर्गः संततो भवति।
प्राकृतानि पृष्ठस्तोत्राण्यपवदितुमन्यानि पृष्ठस्तोत्राणि विधत्ते –
“यो वै सवादेति। नैनँ सव उपनमति। यः सामभ्य एति। पापीया-न्त्सुषुवाणो भवति। एतानि खलु वै सामानि। यत्पृष्ठानि। यत्पृष्ठानि भवन्ति (३)। तैरेव सवान्नैति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ८ ) इति।
यो यजमानः सवादेति प्रस्तुतात्सोमाभिषवादपगच्छति, एनं सवो नोपनमति भावी सोमाभिषवो न प्राप्नोति। तर्हि वर्तमानं सोमाभिषवं करोत्विति चेन्मैवम्। यः सामभ्योऽपगच्छत्यसौ सुषुवाणः पापीयान्भवति। वर्तमानं सोमाभिषवं कुर्वतोऽपि सामराहित्यात्पापिष्ठत्वम्। तर्हि सामान्यपि कानि-चिद्गायत्विति चेन्मैवम्। नहि यानि कानिचित्सामान्यत्र मुख्यानि, किंतु पृष्ठस्तोत्रगतान्येव। तस्मात्प्रयुज्यमानैस्तैरेव पृष्ठस्तोत्रैः सवान्नैति सोमाभिषवान्नापगच्छति। पृष्ठविशेषस्वरूपं चान्यतोऽवन्तव्यम्।
पृष्ठस्तोत्रगतान्युभयविधसामानि प्रशंसति–
“यानि देवराजानाँ सामानि। तैरमिष्मिल्ँ लोक ऋध्नोति। यानि मनुष्यराजानाँ सामानि। तैरस्मिल्ँ लोक ऋध्नोति। उभयोरेव लोकयोध्नोति। देवलोके च मनुष्यलोके च " (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ८ ) इति।
१ ख. ०न्ते चान०।
[[969]]
९६९
प्रपा॰ ८ अनु॰ २१) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सौत्रामणीमन्त्रपशुहविषामभिधानम्)
एतच्च सामद्वैविध्यमन्यतो द्रष्टव्यम्। प्राप्तानेव स्तोमान्प्रशंसति–
“एकविँशोऽभिषेचनीयस्योत्तमो भवति। एकविँश केशवपनीयस्य प्रथमः। सप्तदशो दशपेयः (४)। विड्वा एकविँशः। राष्ट्रँ सप्तदशः। विश एवैतन्मध्यतोऽभिषिच्यते। तस्माद्वा एष विशां प्रियः। विशो हि मध्यतोऽभिषिच्यते” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ८ ) इति।
अभिषेचनीयो दशपेयः केशवपनीय एवमत्रत्यानां त्रयाणां सोमयागाना-मनुक्रमः। तत्राभिषेचनीयस्योक्थ्यविकृतित्वादुक्थ्ये चोत्तमस्तोत्रस्यैकविंश-स्तोमयुक्तत्वादभिषेचनीयस्याप्युत्तम एकविंशो भवति। दशपेये सर्वेषु स्तोत्रेषु सप्तदशस्तोमो वाचनिकः। केशवपनीयेऽप्यग्निष्टोमगताः स्तोमा विपर्ययेण प्र-युज्यन्ते। अग्निष्टोमे च त्रिवृत्पञ्चदशः सप्तदश एकविंश इत्येष क्रमः। केशव-पनीये त्वेकविंशः सप्तदशः पञ्चदशस्त्रिवृदित्येतादृशः क्रमो भवति। तत्राभिषे-चनीये योऽन्त्य एकविंशो यश्च केशवपनीये प्रथम एकविंशस्तयोरुभयोः प्रजारूपयोर्मध्ये दशपेयगतस्य सप्तदशस्तोत्ररूपस्यावस्थितत्वादेतद्राष्ट्रं विश एवैतन्मध्यतस्तद्द्वयोर्विशोर्मध्येऽभिषिक्तं भवति। यस्मात्सप्तदशस्तोमरूपस्य राष्ट्रस्य पालक एष राजा यथोक्तरीत्या विशां मध्ये प्रजानां मध्येऽभिषिच्यते तस्मादेव कारणाद्विशां प्रजानां प्रियो भवति। अवरोहक्रमानुष्ठितस्तोमयुक्तं केशवपनीयं विधत्ते –
“यद्वा एनमदो दिशोऽनु व्यास्थापयन्ति। तत्सुवर्गं लोकमभ्यारोहति। यदिमं लोकं न प्रत्यवरोहेत्। अति जनं वेयात्। उद्वा माद्येत्। यदेष प्रतीचीनः स्तोमो भवति। इममेव तेन लोकं प्रत्यवरोहति। अथो अस्मिन्नेव लोके प्रतितिष्ठत्यनुन्मादाय (५)” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ८ ) इति।
अद इत्यनेन प्रत्यक्षत्वं हस्तेनाभिनीय प्रदर्श्यते। यदा समिधमातिष्ठेत्यादि-भिर्मन्त्रैरस्माकं दृष्टिपथ एवैनं राजानं दिशो व्यास्थापयन्ति तदानीमेवायं स्वर्गं लोकमभ्यारोहति। अभ्यारुह्य च पुनरिमं लोकं प्रति नावरोहेच्चेत्तदानीमत्रत्यं बन्धुजनमतिक्रम्य यत्र क्वापि गच्छेदुन्मत्तो वा भवेत्। प्रतीचीस्तोमोऽग्निष्टो-माद्विपर्ययेण प्रत्यावृत्ताः स्तोमा यस्य केशवपनीयस्य स एष यद्यत्र भवेत्तर्हि केशवपनीयेनेममेव लोकं प्रत्यवरोहति। किंचोन्मादाभावायास्मिन्नेव लोके प्रतितिष्ठति।
१ क. ०नामुपक्र०। २ क. घ. ङ. च. एव त०।
[[970]]
९७०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — ( १ प्रथमकाण्डे–
(सौत्रामणीमन्त्रपशुहविषामभिधानम्)
यो रुक्मोऽभिषेककाले पुरुषस्याधस्तादवस्थापितो यश्चान्यः शिरसि स्नातुं धृतस्तावुभौ प्रशंसति –
“इयं वै रजता। असौ हरिणी। यद्रुक्मौ भवतः। आभ्यामेवैनमुभयतः परिगृह्णाति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ९) इति।
अधस्तनो रुक्मो राजतो भूमिस्वरूप उपरितनस्तु हिरण्मयो द्युलोकः। तत आभ्यां द्यावापृथिवीरूपाभ्यामधस्तादुपरिष्टाच्च परिगृहीतो भवति। ननु “अमृतमसि मृत्योर्मा पाहीति हिरण्यमुपास्यति” इति श्रवणादधस्तनोऽपि रुक्मो राजतो न भवति। नायं दोषः। रजतस्यापि हिरण्यावान्तरभेदत्वात्। “तस्माद्रजतँ हिरण्यमदक्षिण्यम्” इति पुनराधाने श्रवणात्। होतृब्राह्मणेऽपि द्वैविध्यमाम्नातम् – “तद्दुर्वर्णँ हिरण्यमभवत्। तद्दुर्वर्णस्य हिरण्यस्य जन्म। स द्वितीयमतप्यत। सोऽताम्यात्। स प्राङबाधत। स देवानसृजत। तदस्य प्रियमासीत्। तत्सुवर्णँ हिरण्यमभवत्” इति च। उपरितनं रुक्मं पुनः प्रशंसति –
“वरुणस्य वा अभिषिच्यमानस्याऽऽपः। इन्द्रियं वीर्यं निरघ्नन्। तत्सुवर्णँ हिरण्यमभवत्। यद्रुक्ममन्तर्दधाति। इन्द्रियस्य वीर्यस्यानिर्घाताय” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ९) इति।
आपो वीर्यं निरघ्नन्निर्गामितवत्यः। तच्च निर्गतं वीर्यं सुवर्णमभवत्।
तस्य च रुक्मस्य परिमाणं छिद्राणि च विधत्ते –
“शतमानो भवति शतक्षरः। शतायपः पुरुषः शतेन्द्रियः। आयुष्येवेन्द्रिये प्रतितिष्ठति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ९) इति।
“आयुर्वै हिरण्यम्। आयुष्या एवैनमभ्यतिक्षरन्ति। तेजो वै हिरण्याम्। तेजस्या एवैनमभ्यतिक्षरन्ति। वर्चो वै हिरण्यम्। वर्चस्या एवैनमभ्यतिक्षरन्ति(१)” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ ९) इति।
हिरण्यदानेनापमृत्योः परिहर्तुं शक्यत्वात्तस्याऽऽयुष्ट्वम्। तत्संबन्धादायुर्हिता एवाऽऽप एनं यजमानमभितः क्षरन्ति। सुवर्णस्य दीप्तिमत्त्वात्तेजस्त्वम्। तत्संबन्धादापस्तेजस्याः। शरीरशोभा वर्चः। तच्चऽऽभरणसंबन्धाज्जायत इति हिरण्यस्य वर्चस्त्वम्। तद्योगादापो वर्चस्याः। अथ व्युष्टिद्विरात्रं विधत्ते –
“अप्रतिष्ठितो वा एष इत्याहुः। यो राजसूयेन यजत इति। यदा वा एष एतेन द्विरात्रेण यजते। अथ प्रतिष्ठा। अथ संवत्सरमाप्नोति। यावन्ति संव–
[[971]]
९७१
प्रपा॰ ८ अनु॰ २२ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सौत्रामणीमन्त्रपशुहविषामभिधानम् )
त्सरस्याहोरात्राणि। तावतीरेतस्य स्तोत्रीयाः। अहोरात्रेष्वेव प्रतितिष्ठति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ १०) इति।
राजसूयेनेष्ट्वाऽपि द्विरात्राननुष्ठानेन संपूर्त्यभावादप्रतिष्टितत्वम्। अत्रत्येषु स्तोमेषु आवर्त्यमानाः स्तोत्रीया ऋचो विंशत्यधिकसप्तशतसंख्याकाः संपद्यन्ते। तथा च संवत्सरगताहोरात्रसंख्यासामान्यादहोरात्रेषु प्रतिष्ठितत्वं संवत्सरप्राप्तिर्भवति। द्विरात्रावयवावहर्विशेषौ विधत्ते –
“अग्निष्टोमः पूर्वमहर्भवति। अतिरात्र उत्तरम् (१)। नानैवाहोरात्रयोः प्रतिष्ठति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ १०) इति।
विलक्षणयोरह्नोरनुष्ठितत्वादहोरात्रयोरस्य विविधप्रतिष्ठोपपद्यते।
तयोरनुष्ठानाय शुक्लकृष्णपक्षौ विधत्ते –
“पौर्णमस्यां पूर्वमहर्भवति। व्याष्टकायामुत्तरम्। नानैवार्धमासयोः प्रतिति-ष्ठति” इति (ब्रा॰ का॰ १ प्र॰ ८ अ॰ १०) इति।
तयोरुभयोर्विलक्षणपक्षत्वादुभयोरर्धमासयोरस्य विविधा प्रतिष्ठोपपद्यते।
पक्षान्तरत्वेन विलक्षणयोर्मासयोर्द्वयोरनुष्ठानं विधत्ते –
“अमावास्यायां पूर्वमहर्भवति। उद्दृष्ट उत्तरम्। नानैव मासयोः प्रतिति-ष्ठति” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ १०) इति।
एकेनाह्ना निष्पाद्यः सोमयागोऽहःशब्देनोपलक्ष्यते। तादृशश्चाग्निष्टोमः पूर्वमहः। तच्चामावास्यायां कर्तव्यम्। उद्दृष्टं शुक्लप्रतिपत्। उत्कर्षेण दर्शनस्य तत्रोपक्रमात्। तस्मिन्नुद्दृष्ट उत्तरं द्वितीयमहरतिरात्राख्यं कर्तव्यम्। तथा सति विलक्षणयोर्मासयोः कृतत्वाद्विविधप्रतिष्ठा भवति। प्रकारान्तरं विधत्ते –
“अथो खलु। यो एव समानपक्षे पुण्याहे स्याताम्। तयोः कार्यं प्रतिष्ठित्यै(२)” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ १०) इति।
अथो खलु अथवेत्यर्थः। समानश्चासौ पक्षश्च तत्र ये पुण्यदिने ज्योतिः-शास्त्रप्रसिद्धे शुभावहे दिने तयोरिदं कर्म कार्यं नं त्वत्र पक्षभेदो विवक्षितः।
मासभेदस्तु दूरापेतः। अस्मिन्द्विरात्रे दोषमुद्भाव्य परिहरन्प्रशंसति –
“अपशव्यो द्विरात्र इत्याहुः। द्वे ह्येते छन्दसी। गायत्रं च त्रैष्टुभं च। जगतीमन्तर्यन्ति। न तेन जगती कृतेत्याहुः। यदेनां तृतीयसवने कुर्वन्तीति।
[[972]]
९७२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे —
(सौत्रामणीमन्त्रपशुहविषामभिधानम् )
यदा वा एषाऽहीनस्याहर्भजते। साह्नस्या वा सवनम्। अथैव जगती कृता। अथ पशव्यः” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ १०) इति।
जागताः पशव इति श्रुत्यन्तरे पशूनां जगतीसंबन्धश्रवणाद्द्विरात्रे च जगत्या अन्तरितत्वादपशव्यो द्विरात्र इत्याक्षेपवादिन आहुः। अथैवं मन्यसे, विद्यात एव जगती। जागतं तृतीयसवनमितिश्रुतेस्तृतीयसवने जगत्याः कृतत्वादिति। तदयुक्तं खलु। अहीने तावन्मात्रेण जगत्यनुष्ठानं न संपूर्णं किं तर्हि यदा द्विरात्रस्यैतस्याहीनस्यैकमहः कृत्स्नं जगती व्याप्नोति तदा जगत्यनुष्ठानं संपूर्णं भवति। साह्न एकेनाह्ना निष्पन्नत्वादेकाहः। तस्य तु तृतीयसवनसंबन्धमात्रेणापि जगत्यनुष्ठानं संपूर्णं भवति। तस्मादत्र कृत्स्नस्याह्नो जगतीव्याप्त्यभावादपशव्यत्वं तदवस्थमित्याक्षेपवादिनामभिप्रायः। तस्मिन्नाक्षेपे भङ्ग्यन्तरेण परिहारोऽप्यन्तर्भूतः। तत्कथमित्युच्यते। वाक्ये यदेतिशब्दं परित्यज्य परिहारो योजनीयः। एषा जगती प्रकृतस्य द्विरात्रस्याहीनस्य कृत्स्नस्याहर्भजते। तस्मादत्र जगती कृता। तस्मादयं द्विरात्रः पशव्य इति परिहारः। यद्यपि तस्मिन्नहनि च्छन्दोन्तराणि सन्ति तथाऽपि जगतीव्याप्तावुपायः सप्तमकाण्डेऽङ्गिरसां द्विरात्रे समाम्नातः – वैखानसं पूर्वेऽहन्साम भवति तेन जगत्यै नैति” इति। वैखानसनामकं साम पूर्वस्मिन्दिने गायेत्। यत्र(तच्च) जगतीसंबद्धमिति तदहः कृत्स्नं जगत्या नापगच्छति। अतो वैखानससाममहिम्नैव कृत्स्नेऽप्यह्नि जगत्याः पूरितत्वाद्द्विरात्रः पशव्य एव।
अस्य द्विरात्रस्य व्युष्टिनाम प्रशंसति–
“व्युष्टिर्वा एष द्विरात्रः। य एवं विद्वान्द्विरात्रेण यजते। व्येवास्मा उच्छति। अथो तम एवापहते” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ १०) इति।
विशिष्ट उषःकालो यस्मिन्द्विरात्रे सोऽयं व्युष्टिः। यो यजमान एवं व्युष्टिनाम विद्वान्यजतेऽस्मै यजमानार्थं विशेषेणोच्छत्येव सर्वं कर्तव्यजातं बुद्धौ प्रकाशत एव। किंच तमो बुद्धिमान्द्यमयं यजमानो विनाशयत्येव।
यदुक्तं सूत्रकारेण– “क्षत्त्राणां धृतिस्न्निष्टोमोऽग्निष्टोमः पञ्चापवर्गस्तेनान्ते यजते संतिष्ठते राजसूयः” इति।क्षत्त्राणां धृतिरिति कर्मनामधेयम्। स च कर्मविशेषः प्रकृतिवत्त्रिवृदादिस्तोमचतुष्टयो न भवति, किं तर्हि त्रिभिरेव स्तोमैरुपेतः। तमेतं विधत्ते –
१ घ. ङ. श्व. ०ति। यो हि ए०। २ ख. तत्र।
[[973]]
९७३
प्रपा॰ ८ अनु॰ २२ ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्ययाज्यापुरोनुवाक्याभिधानम्)
“अग्निष्टोममन्तत आहरति। अग्निः सर्वा देवताः। देवतास्वेव प्रतितिष्ठति (३)” (ब्रा॰ का॰ १ प्र॰ ८ अ॰ १०) इति।
अग्निविषयः स्तोमो यस्य क्रतोरन्ते सोऽयमग्निष्टोमः। यज्ञायज्ञा वो अग्नय इत्येतस्यामाग्नेय्यामृचि स्तोत्रकाल आवृत्त्या स्तोमं संपादयति। तेन च क्रतुः। संस्थितो भवति। तस्मादयमग्निष्टोमः। अग्नेश्च सर्वदेवतारूपत्वमसकृदुक्तम्। तस्माद्राजसूयसमाप्त्यवसरेऽनुष्ठितेनाग्निष्टोमेन यजमानो देवतासु प्रतितिष्ठत्येव। अत्र विनियोसंग्रहः —
“स्वाद्वीं शष्पैः सुरा योज्या पुनाद्वाभ्यां तु पावयेत्।
कुवित्खरे सुरा ग्राह्या सोमावनयते सुराम्॥
शतच्छिद्रयुतस्थाल्यां मन्त्राः पञ्चेह वर्णिताः”॥ इति।
अथ मीमांसा।
तृतीयाध्यायस्य पञ्चमपादे चिन्तितम्–
“सौत्रामण्यां ग्रहे स्विष्टकृदाद्यास्ति न वाऽस्ति तत्।
शेषणान्न सुराक्षीरयोरन्यात्रोयोगतः॥”
सौत्रामणीनामके यागे श्रूयते – “पयोग्रहाः सुराग्रहाश्च गृह्यन्ते” इति। तत्र प्रकृतिगतसोमग्रहेष्विव शेषकार्यं स्विष्टकृदिडादिकमस्ति। न चात्र पूर्ववच्छे-षाभावः। उच्छिनत्ति(ष्टि) न सर्वं जुहोतीत्यवशेषयितव्यत्वश्रवणादिति चेन्मैवम्। शिष्टस्यान्यत्रोपयोगश्रवणात्। “ब्राह्मणं पकिक्रीणीयादुच्छेषणस्य पातारम्” इति श्रूयते। “यदि ब्राह्मणं न विन्देत्। वल्मीकवपायामवनयेत्” इति च। “शतातृण्णायां समवनयेत्” इति च। शतच्छिद्रा कुम्भी शतातृण्णा। तस्मान्नास्ति स्विष्टकृदादिकम्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठक
एकविंशोऽनुवाकः॥२१॥
–––