(अथ प्रथमाष्टकेऽष्टमप्रपाठके विंशोऽनुवाकः)।
आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति सौ॒म्यं च॒रुँ
सा॑वि॒त्रं द्वाद॑शकपालं बार्हस्प॒त्यं च॒रुं त्वा॒ष्ट्रम॒–
ष्टाक॑पालं वैश्वान॒रं द्वाद॑शकपालं॒ दक्षि॑णो रथ-
वाहनवा॒हो दक्षि॑णा सारस्व॒तं च॒रुं निर्व॑पति
पौ॒ष्णं च॒रुं मै॒त्रं च॒रुं वा॑रु॒णं च॒रुं क्षै॑त्रप॒त्यं
च॒रुमा॑दि॒त्यं च॒रुमुत्त॑रो रथवाहनवा॒हो दक्षि॑णा(१)॥
( आ॒ग्ने॒यँ सौ॒म्यं बा॑र्हस्प॒त्यं चतु॑स्त्रिँशत् )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टकेऽ–
ष्टमप्रपाठके विंशोऽनुवाकः॥२०॥
––––––––––
(अथ प्रथमाष्टकेऽष्टमप्रपाठके विंशोऽनुवाकः)।
एकोनविंशे दिशामवेष्टयः पशुबन्धः सात्यदूतानां हवींषि चोक्तानि। अथ विंशे प्रयुजां हवींष्युच्यन्ते। त्प्रकारः सूत्रकारेण दर्शितः – " अपराह्णे षड्भिः प्रयुजां हविर्भिर्यजत आग्नेयमष्ठाकपालमिति दक्षिणो रथवाहनवाहो दक्षिणा श्वोभूते षड्भिरुत्तरो रथवाहनवाहः" इति। तान्येतानि हवींषि विधत्ते –
आग्नेयमिति। रथस्य वाहनं रथवाहनमन्यच्छकटं यस्मिञ्शकटे रथत्येषयोरग्रमवस्थाप्यते तस्य रथवाहनस्य शकटस्य वाहको दक्षिणो यो बलीवर्दोऽसौ पूर्वषट्के दातव्यः। एवमुत्तरषट्केऽपि योज्यम्। अत्र पूर्वषट्कगतं प्रथमं हविः प्रशंसति –
“आग्नेयमष्टाकपालं निर्वपति। तस्माच्छिशिरे कुरुपञ्चालाः प्राञ्चो यान्ति” [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ४] इति।
उपरिष्टात्परकीयपक्षा उपन्यस्यन्ते “मासि मास्येतानि हवींषि निरुप्याणी-त्याहुः” इति। तत्पक्षानुसारेण फाल्गुनमासमारभ्य क्रमेणैकैकस्मिन्मास एकैकं हविर्निर्वपणीयम्। तथा हि–फाल्गुन्याः पौर्णमास्याः प्रागेव राजसूयमुपक्रमुक्रम्य पवित्रनामकमग्निष्टोममानुमतादीनि चानुष्ठाय फाल्गुन्यां पौर्णमास्यामारभ्य वैश्वदेववरुणप्रघाससाकमेधांश्चतुर्षु मासेषु निष्पाद्य द्वितीयस्यां फाल्गुन्यां पौर्णमास्यां
[[954]]
९५४
श्रीमत्सायणाचार्यविरचितभाष्यत्तमेता [१ प्रथमकाण्डे
(राजसूयविषयाणां प्रयुजां हविषामभिधानम्)
शुनासीरीयेन्द्रतुरीयादिकमनुष्ठायोत्तरदिनेषु देविकादीनि यथोक्तक्रमेण रत्निनां हवींषि चानुष्ठाय फाल्गुनामावास्यायामभिषेचनीयार्थं दक्षियित्वा१ तस्य दीक्षा वर्धनीयाः। तथा चाऽऽपस्तम्ब आह – “तथाऽभिषेचनीयस्योक्थ्यस्य दीक्षाः प्रवर्धयति यथा संवत्सरस्य दशरात्रेऽवशिष्टे दशपेयो भविष्यति” इति। स च दशपेयः संवत्सरे दशरात्रीरवशेष्य पञ्चम्यामुपक्रम्यते पञ्चभिर्दिनौर्निष्पाद्यत्वेन नवम्यां समाप्यते दशम्यां प्रातः सात्यदूतानि निरुप्यापराह्णे प्रयुजां हवींष्यु-पक्रमितव्यानि। तथा सत्याग्नेयस्य फाल्गुनरूपो द्वितीयः शिशिरमासः प्राप्यते। तस्मिञ्शिशिरे तन्निर्वापाच्छिशिरद्वारा तद्धविः स्तूयते। कुरुपञ्चालदेशवर्तिनो राजानः प्राच्येषु देशेषु सस्याभिवृद्धिमवगत्य दिग्विजयाय प्राञ्चः प्रयान्ति। यस्मादाग्नेययागकालः शिशिरः सस्याभिवृद्धिहेतुस्तस्मात्प्राञ्चो यान्तीत्येवं स्तुतिः। द्वितीयं हविः प्रशंसति –
“सौम्यं चरुम्। तस्माद्वसन्तं व्यवसायाऽऽदयन्ति” [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ४] इति।
उक्तक्रमेण वासन्तिकयोः प्रथममासि सौम्यं चरुं निर्वपति। यस्मादन्नस्य देवता सोमोऽत्र चरुणेज्यते तस्मात्प्रथमो वसन्तमास आगतोऽयमिति निश्चित्य प्राग्देशं जेतुं गता राजानस्तत्रत्यं धान्यं सर्वमुपहृत्य स्वसेनामादयन्ति वसन्तः समुपस्थितः सम्यक्पक्कं समृद्धमन्नं कामं भुञ्जतामिति वदन्तो हस्तेन सर्वां सेनां प्रेरयन्ति। तृतीयं हविः प्रशंसति –
“सावित्रं द्वादशकपालम्। तस्मात्पुरस्ताद्यवानाँ सवित्रा विरुन्धते” [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ४] इति।
यस्माद्द्वितीये वसन्तमासे सावित्रयागः कृतस्तस्मात्पुरस्तात्पूर्वस्यां दिशि गता राजानः सवित्राऽनुज्ञाताः सन्तो यवानां विरुन्धते यवादीनि धान्यानि परकीयाणि विशेषेणावरुन्धते यथा कृषीवला न गृह्णन्ति तद्वदवरोधं कुर्वते। चतुर्थं प्रशंसति –
“बार्हस्पत्यं चरुम्। सवित्रैव विरुध्य। ब्रह्मणा यवानादधते" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ४] इति।
यस्मात्प्रथमे ग्रीष्मे मासि बार्हस्पत्ययागः कृतस्तस्माद्ब्रह्मणा बृहस्पतिनाऽनुज्ञा–
१ क. घ. ङ. च. ०त्वा ताश्च दी०।
[[955]]
९५५
प्रपा॰ ८ अनु ॰२०] कृष्णायजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयाणां प्रयुजां हविषामभिधानम्)
ताः सन्तो यावानादधते पूर्वं सवितृप्रसादाद्ये यवाः परदेशवर्तिभ्यः कृषीवलेभ्योऽवरुद्धास्तान्सर्वानानीय स्वगृहेषु स्थापयन्ति। पञ्चमं प्रशंसति –
“त्वाष्ट्रमष्टाकपालम् (१)। रूपाण्येव तेन कुर्वते” [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ४] इति।
यस्माद्द्वितीये ग्रीष्मे मासि त्वाष्ट्रयागः कृतस्तेन कारणेन रूपनिर्मात्रा त्वष्ट्राऽनुज्ञाताः सन्तो रूपाण्येव परकीयधान्यानां यथेष्टभोजनेन पुष्टिमन्त्येव शरीराणि कुर्वते। षष्ठं प्रशंसति–
“वैश्वानंर द्वादशकपालम्। तस्माज्जघन्ये नैदाघे प्रत्यञ्चः कुरुपञ्चाला यान्ति” [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ४] इति।
यस्माद्वार्षिके प्रथमे मासि वैश्वानरयागः कृतस्तस्माद्वैश्वानरेणानुज्ञाता जघन्ये नैदाघे द्वितीयस्मिन्ग्रीष्ममासेऽपगते सति वर्षर्तुप्रथममासे परकीयराष्ट्रं सर्वात्मना विनाश्य स्वदेशं प्रति प्रत्यङ्मुखाः कुरुपञ्चाला राजानो यान्ति। तदेतदुपलक्षणं सर्वेऽपि राजान उक्तरीत्या कुर्वन्तीति द्रष्टव्यम्। उत्तरषट्कस्य प्रथमं हविः प्रशंसति –
“सारस्वतं चरुं निर्वपति। तस्मात्प्रावृषि सर्वा वाचो वदन्ति” [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ४] इति।
यस्माद्द्वितीये वार्षिकमासि सारस्वतयागः कृतस्तस्मात्प्रावृषि वृष्ट्या संतुष्टाः कृषीवलास्त्वया कृषिकार्यं मया कृषिकार्यं क्रियते बीजानि सन्ति के वाऽनड्वाह इत्यादिकाः सर्वा वाचः परस्परं वदन्ति। उत्तरहविःपञ्चकं प्रशंसति –
पौष्णेन व्यवस्यन्ति। मैत्रेण कृषन्ते। वारुणेन विधृता आसते। क्षैत्रपत्येन पाचयन्ते। आदित्येनाऽऽदधते" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ४] इति।
शारदे प्रथमे मासि पौष्णयागस्य कृतत्वात्तेन पौष्णेन व्यवस्यन्ति पूषदेव-ताया अनुग्रहेण पुष्टिमानेतावतीं भूमिं कृषामीत्यादिनिश्चयं कुर्वन्ति। शारदे द्वितीये मासि मैत्रयागस्य कृतत्वान्मित्रदेवताया अनुग्रहेण निर्विघ्नाः कृषन्ति। हैमन्ते प्रथमे मासि वारुणयागस्य कृतत्वाद्वरुणदेवताया अनुग्रहेण गोमयादिकं प्रक्षिप्य नीरपूर्णं क्षेत्रं विशेषेण धृतवन्तः पौषयन्त आसते। हैमन्ते द्वितीये मासि क्षैत्रपत्ययागस्य कृतत्वात्क्षेत्रपतिदेवताया अनुग्रहेण सस्यमध्ये यथेष्टमु–
[[956]]
९५६
श्रीमत्सायणाचार्यविरचितभाष्यत्तमेता [१ प्रथमकाण्डे
(सौत्रामणीमन्त्रपशुहविषामभिधानम्)
त्पन्नं निरर्थकं तृणादिकमुन्मूल्य फलपाकं संपादयन्ति। शैशिरे प्रथमे मास्यादित्ययागस्य कृतत्वाददितितेवताया अनुग्रहेण पक्कानि धान्यानि स्वगृहेष्वादधते। यश्चोक्तं प्रतिमासनिर्वापं परपक्षत्वेनोपन्यस्यति–
“मासि मास्येतानि हवीँषि निरुप्याणीत्माहुः। तेनैवर्तून्प्रयुङ्क्त इति" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ४] इति।
तेनैव प्रतिमासं पृथङ्निर्वापेणैव सर्वानृतून्प्रयुक्तवान्भवति ऋतुधर्मान्यथायथं प्रयुक्तवान्भवति। यस्मादृतुप्रयोगस्तेषु संपद्यते तस्मादेतानि प्रयुजां हवींषीत्यभिप्रायः। तं पक्षं निराकृत्य पक्षान्तरं विधते –
“अथो स्वल्वाहुः। कः संवत्सरं जीविष्यतीति। षडेव पूर्वेद्युर्निरुप्याणि। षडुत्तरेद्युः। तेनैवर्तून्प्रयुङ्क्ते" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ४] इति।
आयुष्परिमाणस्यावगन्तुमशक्यत्वाद्धर्मस्य त्वरिता गतिरितिन्यायेन दिनद्वये निरुप्याणि। तथा सति षट्संख्यायाः षड्वा क्रतव इतिश्रुत्यनुसारेण क्रतुप्र-योगासिद्धिः। प्रयुजां हविष्ट्वमप्युपपन्नमित्यभिप्रायः। दक्षिणाद्वयं प्रशंसति –
“दक्षिणो रथवाहनावाहः पूर्वेषां दक्षिणा। उत्तर उत्तरेषाम्। संवत्सरस्यै-वान्तौ युनक्ति। सुवर्गस्य लोकस्य समष्ट्यै (३)" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ४] इति।
शकटयुगस्योभयोरन्तयोर्बद्धावेतावनड्वाहौ तयोर्दानेन संवत्सरस्योभयोर्मासषट्कयोरन्तौ संपादितवान्भवति। तेन स्वर्गः प्राप्यते॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय–
तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके
विंशोऽनुवाकः॥२०॥
––––––––––