(अथ प्रथमाष्टकेऽष्टमप्रपाठक एकोनविंशोऽनुवाकः)।
आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति॒ हिर॑ण्यं॒ दक्षि–
णै॒न्द्रमेका॑दशकपालमृष॒भो दक्षि॑णा वैश्वदे॒वं
च॒रुं पि॒शङ्गी॑ पष्ठौ॒ही दक्षि॑णा मैत्रावरु॒णीमा॒–
मिक्षां॑ व॒शा दक्षि॑णा बार्हस्प॒त्यं च॒रुँ शि॑ति–
पृ॒ष्ठो दक्षि॑णाऽऽदि॒त्यां म॒ल्हां ग॒र्भिणी॒मा ल॑–
भते मारु॒तीं पृश्निं॑ पष्ठौ॒हीम॒श्विभ्यां॑ पू॒ष्णे
–––––––––––––––––––––––––––––––––––––––––––––––
१ ख. ०न्धे चोदि०।
[[948]]
९४८
श्रीमत्सायणाचार्यविरचितभाष्यत्तमेता [१ प्रथमकाण्डे
(राजसूयसंबन्धिनां दिशामवेष्टयः पशुद्वयं सात्यदूतहवींषि चेत्येतेषां विधिः)
पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर्व॑पति॒ सर॑स्वते
सत्य॒वाचे॑ च॒रुँ स॑वि॒त्रे स॒त्यप्र॑सवाय पुरो॒–
डाशं॒ द्वाद॑शकपालं तिसृध॒न्वँ शु॑ष्कदृ॒तिर्द–
क्षि॑णा (१)॥
(आ॒ग्ने॒यँ हिर॑ण्यमै॒न्द्रं वै॑श्वदे॒वं पि॒शङ्गी॑ स॒प्तच॑त्वारिँशत्)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टकेऽ-
ष्टमप्रपाठक एकोनविंशोऽनुवाकः॥१९॥
––––––––––
(अथ प्रथमकाण्डेऽष्टमप्रपाठक एकोनविंशोऽनुवाकः)।
अष्टादशे दशपेयोऽभिहितः। एकोनविंशे दिशामवेष्टयः पशुद्वयं सात्वदूतानां हवींषि च विधीयन्ते। तत्राऽऽदौ पञ्च हवींषि विधत्ते –
आग्नेयमष्टाकपालमिति। पिशङ्गी पिङ्गलवर्णा।
दिग्व्यास्थापनप्रयुक्तोन्मादपरिहारेणावेष्टिविधिं प्रस्तौति–
“ईश्वरो वा एव दिशोऽनून्मदितोः। यं दिशोऽनु व्यास्थापयन्ति। दिशा-मवेष्टयो भवन्ति। दिक्ष्वेव प्रतितिष्ठत्यनुन्मादाय" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ३] इति।
यं यजमानमध्वर्युः प्रस्थापयत्येष यजमानो दिशोऽनुप्राप्य दिग्भ्रमेणोन्मदि-तोरुन्मतो भवितुमीश्वरः प्रभुर्भवति। विधिवाक्यावगतं देवतापञ्चकं प्रशंसति–
“पञ्च देवता यजति। पञ्च दिशः। दिक्ष्वेव प्रतितिष्ठति" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ३] इति।
आग्नेयादीनां चतुर्णां मध्य एकैकयागादूर्ध्वं पञ्चमहविषि अभिघारणं विधत्ते–
“हविषो हविष इष्ट्वा बार्हस्पत्यमभिघारयति। यजमानदेवस्यो वै बृहस्पतिः। यजमानमेव तेजसा समर्धयति (१)"। [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ३] इति।
यजमानस्य देवता उक्ता अग्न्यादयश्चतस्रस्ताभ्यो हितो यजमानदेवत्यः। अवेष्टीर्विधाय द्विपशुयुक्तं पशुबन्धकर्म विधत्ते –
[[949]]
९४९
प्रपा॰ ८ अनु ॰१९] कृष्णायजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयसंबन्धिनां दिशामवेष्टयः पशुद्वयं सात्यदूतहवींषि चेत्येतेषां विधिः )
आदित्यां मल्हामिति। अदितिदर्वेता यस्याः सेत्यादित्या मल्हा मणिला गलस्तनयुक्तेत्यर्थः। पृश्निरल्पतनुः श्वेतवर्णा वा।
अदितेर्भूमित्वेन राष्ट्रत्वं मरुतां च वैश्यत्वमसकृदुक्तं तदेतदभिप्रेत्य प्रशंसति–
“आदित्यां मल्हां गर्भिणीमालभते। मारुतीं पृश्निं पष्ठौहीम्। विशं चैवास्मै राष्ट्रं च समीची दधाति” [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ३] इति।
करप्रदानेन विशः सम्यक्त्वं सस्यनिष्पादकत्वेन राष्ट्रस्य सम्यक्त्वम्।
पाठप्राप्तं क्रमं प्रशंसति––
“आदित्यया पूर्वया प्रचरति। मारुत्योत्तरया। राष्ट्र एव विशमनुबध्नाति" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ३] इति।
आश्रावणस्य चोदकप्राप्तमुच्चध्वनित्वमादित्ययागेऽनूद्यापवदितुं विधत्ते –
“उच्चैरादित्याया आ श्रावयति। उपाँशु मारुत्यै। तस्माद्राष्ट्रं विशम-तिवदति” [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ३] इति।
यस्माद्राष्ट्ररूपायामादित्येष्टावुच्चध्वनिर्विड्रूपायां मारुतीष्टावुपांशुध्वनिस्तस्मा-ल्लोकेऽपि राष्ट्रमुज्जित्य तत्पालको राजादिः सहस्रकरदानाय विशमतिवदति। निर्भर्त्सयतीत्यर्थः। पृर्वोक्तं पशुविशेषणं प्रशंसति–
“गर्भिण्यादित्या भवति (२)। इन्द्रियं वै गर्भः। राष्ट्रमेवेन्द्रियाव्याकः। अगर्भा मारुती। विड्वै मारुतः। विशमेव निरिन्द्रियामकः” [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ३] इति।
गर्भस्येन्द्रियकार्यत्वादिन्द्रियत्वं तेन गर्भेण राष्ट्रगता ब्राह्मणक्षत्रियप्रजा इन्द्रिययुक्ता भवन्ति। मारुत्या गर्भराहित्येन वैश्या निरिन्द्रिया इतरापेक्षया क्षीणसामर्थ्या भवन्ति। ननु पष्ठौही बालगर्भिणीत्यसकृदुक्तं कथमगर्भा मारुतीतीहोच्यते। नायं दोषः। पञ्चवर्षाया अपि पष्ठौहीशब्दवाच्यत्वात्।
पशुबन्धं विधाय सात्यदूतानां हवींषि विधत्ते –
अश्विभ्यां पूष्ण इति। पूष्णे चेति देवतासमुच्चयो द्रष्टव्यः। सत्यं वक्तीति सत्यवाक्तस्मै सरस्वन्नामकाय देवाय। सत्यप्रसवायामोघानुज्ञाय। तिसृभिरिषु-भिर्युक्तं धनुस्तिसृधन्वं तत्प्रक्षेपाय निर्मिता शुष्कदृतिः। तदुभयमत्र देयम्।
तेषु हविःषु प्रथमं प्रशंसति–
“देवासुराः संयत्ता आसन्। ते देवा अश्विनोः पूषन्वाचः सत्यँ संनिधाय। अनृतेनासुरानभ्यभवन्। तेऽश्विभ्यां पूष्णे पुरोडाशं द्वादशकपाल निर-
१ क. ०स्माच्चोदके०। घ. ङ. च. ०स्माच्चोदकोऽपि।
[[950]]
९५०
श्रीमत्सायणाचार्यविरचितभाष्यत्तमेता [१ प्रथमकाण्डे––
(राजसूयसंबन्धिनां दिशामवेष्टयः पशुद्वयं सात्यदूतहवींषि चेत्येतेषां विधिः)
वपन्। ततो वै ते वाचः सत्यमवारुन्धत (३)। यदश्विभ्यां पूष्णे पुरोडाशं द्वादकपालं निर्वपति। अनृते–
नैव भ्रावृव्यानभिभूय। वाचः सत्यमवरुन्धे” [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ३] इति।
वाचः संबन्धि यत्सत्यमनृतपरित्यागेन भाषणं तत्सर्धं स्वकीयमश्विनोः पूष्णिच निक्षेपरूपेणाव–
स्थाप्य युष्मान्न हनिष्याम इत्यनृतेन वचनेनासुराणंग्रे भाषां कृत्वा तद्विश्वासेन युद्धसंनाहं परित्यज्य कदाचिन्निद्राणानसुरान्निहतवन्तः। ततोऽनृतदोषपरिहारक्षप्तं वाचः सत्यं ग्रहीतुमश्विनोः पूष्णः स्वो–त्कोचरूपं पुरोडाशं निरुप्य तत्सत्य स्वाधीनं कृतवन्तः। तद्वद्यजमानस्यापि द्रष्टब्यम्। द्वितीयं हविः प्रशंसति–––
“सरस्वते सत्यवाचे चरुम्। पूर्वमेवोदितम्। उत्तरेणाभिमृणाति” [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ३] इति।
पूर्वं प्रथमहविःप्रशंसार्थं वाचः सत्यमवरुन्ध इति यदुक्तं तदेवोक्तरेण सत्यवाच इत्यनेन देवतादिशेष–णेन विधिवाक्यविशेषो गृणाति उच्चारयति। अतोऽनेनापि यागेन सत्यस्वीकार एव दृढो भवतीत्य–भिप्रायः।
सत्यप्रसवायेत्येतद्विशेषणं प्रशंसति–––
“सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालं प्रसूत्यै” [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ३] इति। विधत्ते ––
“दूतान्प्रहिणोति। आविद एता भवन्ति। आविदमेवनं गमयन्ति। अथो दूतेभ्य एव न छिद्यते" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ३] इति।
प्रतिराजभ्यो दूतान्प्रषयति। एते दूता भवन्त्येतदीयं शासनमा समन्ताद्वेदयन्ति ख्यापयन्तीत्याविदः। तेन दूतप्रेषणेनैनं यजमानमाविदं गमयन्ति आ समन्ताद्वेद्यते ख्याप्यत इत्यावित्कीर्तिस्तां प्रापयन्ति। किंचायं दूतभ्यो न विच्छिद्यते सर्वतः प्रेषयितुं कदाचिद्दूता न लभ्यन्त इत्येवं विच्छेदो न भवति, किंतु सर्वदा बहवो दूताः संनिहिता वर्तन्ते। दूतप्रेषणमकारः सूत्रकारेण स्पष्टीकृतः–––“तान्यभ्यवस्नाय प्रतिराजाभ्यः प्रहिणोत्यभ्यषिक्षि राजाऽभूवमित्यावेदयते” इति। तानि तिसृधन्वादीनि दक्षिणाद्रव्या–ण्याभ्यवस्नायाव्रित आक्रम्य स्नात्वा तानि प्रतिराजभ्यो दर्शयितुं दूतहस्ते दत्त्वा प्रेषयति। स च दूतो राज्ञ एतद्वचनं तेषामग्रे कथयति––अभिषिक्तोऽस्मि युष्माकं सर्वेषां राजाऽभूवमिति। दक्षिणां प्रशं–
सति–––
१ क. घ. ङ. च. ०वति प्रा०।
[[951]]
९५१
प्रपा॰ ८ अनु ॰१९] कृष्णायजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयसंबन्धिनां दिशामवेष्टयः पशुद्वयं सात्यदूतहवींषि चेत्येतेषां विधिः )
“तिसृधन्वँ शुष्कदृतिर्दक्षिणा समृद्ध्यै (४)” [ब्रा॰ का॰ १ प्र॰ ८ अ॰ ३] इति।
अत्र मीमांसा।
द्वितीयाध्यायस्य तृतीयपादे चिन्तितम् –
राजसूयं प्रकृत्येष्टिरवेष्ट्याख्या श्रुताऽत्र तु।
विप्रक्षत्रियविड्भेदाद्धविषां व्यत्ययः क्रमे॥
विप्रादेरनुवादः स्यात्प्रापणं वाऽनुवादगीः।
व्यत्ययाय त्रयाणां च राजत्वात्प्राप्तिरस्ति हि॥
न राज्ययोगाद्राजत्वं क्षत्रियत्वकृतं ततः।
अप्राप्तप्रापणात्त(णं त)स्मान्न रथंतरतुल्यता॥
राजसूप्रकरणे काचिदिष्टिरवेष्टिनामिका श्रूयते – “आग्नेयमष्टाकपालं निर्वपति हिरण्यं दक्षिणैन्द्रमेकादशकपालमृषभो दक्षिणा वेश्वदेवं चरुं पिशङ्गी पष्ठौही दक्षिणा मैत्रावरुणीमामिक्षां वशा दक्षिणा बार्हस्पत्यं चरुँ शितिपृष्ठो दक्षिणा” इति। तस्यामेवेष्टौ हविषां क्रमव्यत्ययः श्रूयते – “यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्यतो निधायाऽऽहुतिमाहुतिं हुत्वा तमभिघारयेत्, यदि राजन्य ऐन्द्रं, यदि वैश्यो वैश्वदेवम्” इति। तत्र यथा पूर्वाधिकरण ऐन्द्र-वायवाग्रत्वं व्यवस्थापयितुं यदिशब्दयुक्तेन वाक्येन रथंतरं निमित्तत्वेना-नूदितम्, एवमत्रापि पञ्चमस्थाने श्रूयमाणं बार्हस्पत्यं चरुं मध्ये तृतीयस्थाने स्थापयितुं यदि ब्राह्मण इत्येतन्निमित्ततयाऽनूद्यते। द्वितीस्थाने श्रुतस्यैन्द्रस्य तृतीयत्वेन स्थापयितुं यदि राजन्य इत्यनुवादः। वैश्वदेवस्य तृतीयस्थाने श्रवणात्तत्र मध्ये निधानविधिर्नित्यानुवादः। ननु राजकर्तृकराजसूये ब्राह्मण-वैश्ययोः प्राप्त्यभावान्नानुवादो युक्त इति चेन्न, तयोरपि राज्ययोगेन राज-शब्दार्थत्वादिति प्राप्ते ब्रूमः – राजशब्दः क्षत्रियजातौ रूढः, न तु राज्ययो-गस्तस्य प्रवृत्तिनिमित्तम्, प्रत्युत राज्यशब्दस्य राजयोगः प्रवृत्तिनिमित्तम्। राज्ञः कर्मेति विगृह्य राजप्रातिपदिकस्योपरि प्रत्ययविशेषविधानात्। ब्राह्मण-वैश्ययोः प्रजापालने राज्यशब्द औपचारिकः। तस्मादेवेष्टौ ब्राह्मणवैश्यौ पूर्वमप्राप्तावनेन प्राप्येते। ननु राजसूयस्य राजकर्मत्वात्तदन्तर्गताया अवेष्टे-रपि तथात्वात्तस्यां ब्राह्मणवैश्ययोः प्रापणमयुक्तमिति चेन्मैवम्। अन्तर-
[[952]]
९५२
श्रीमत्सायणाचार्यविरचितभाष्यत्तमेता [१ प्रथमकाण्डे––
(राजसूयसंबन्धिनां दिशामवेष्टयः पशुद्वयं सात्यदूतहवींषि चेत्येतेषां विधिः)
वेष्टौ तदसंभवेऽपि राजसूयाहिः प्रयुज्यमानायावेष्टौ तत्संभावात्। तस्मादत्र ब्राह्मणादिकर्तृकं यथोक्तगुणविशिष्टं कर्मान्तरं विधीयत इति न रथंतरादितुल्यत्वम्। यदिशब्दस्तु निपातत्वादनथकोऽर्थान्तरवाची वेत्युन्नेयम्। एकादशाध्यायस्य चतुर्थपादे चिन्तितम्–
अवेष्टावङ्गतन्त्रत्वं भेदो वा लिङ्गतोऽग्रिमः।
नोत्पत्तौ दक्षिणाभेदाल्लिङ्गं बाह्यप्रयोगगम्॥
राजसूयप्रकरणे श्रूयते – “दिशामवेष्टयो भवन्ति” इति। ताश्चावेष्टय उत्पत्तिवाक्यैरेवमाम्नायन्ते – “आग्नेयमष्टाकपालं निर्वपति हिरण्यं दक्षिणै-न्द्रमेकादशकपालमृषभो दक्षिणा वैश्वदेवं चरुं पिशङ्गी पष्ठौही दक्षिणा मैत्रा-वरुणीमामिक्षां वशा दक्षिणा बार्हस्पत्यं चरुँ शितिपृष्ठो दक्षिणा” इति। तास्ववेष्टिषु तन्त्रेणाङ्गानुष्ठानम्। कुतः। तल्लिङ्गात् – “यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाऽऽहुतिमाहुतिं हुत्वा तमभिघारयेद्यदि राजन्य ऐन्द्रं यदि वैश्यो वैश्वदेवम्” इति। तत्र मध्ये निधानं प्रयोगैक्यनिमित्तमिति लिङ्गं, तदैक्याच्च तन्त्रमिति प्राप्ते ब्रूमः – उत्पत्तिगतेन दक्षिणाभेदेन प्रयो-गभेदावगमादङ्गानां भेदः। लिङ्गं तु बहिष्प्रयोगविषयम्। अस्ति च प्रयोगद्व-यम्। राजसूयप्रकरणपाठादन्तःप्रयोग एकः। न च प्रकरणादुत्कर्षः कर्तुं शक्यः। राजसूयाङ्गभूतदिग्व्यास्थाननिमित्तोन्मादपरिहाररूपेणार्थवादेन तत्संबन्धावगमात्। तथा च श्रूयते – “ईश्वरो वा एष दिशोऽनून्मदितोः। यं दिशोऽनु व्यास्थापयन्ति। दिशोमवेष्टयो भवन्ति। दिक्ष्वेव प्रतितिष्ठत्यनु-न्मादाय” इति। राजसूयाद्बहिष्प्रयोगस्त्वेतयाऽन्नाद्यकामं याजयेदिति विहितः। न चासौ राजसूयान्तःपाती। यदि ब्राह्मण इत्यादिना वर्णत्रयसंयोगावमात्। राजसूये च ब्राह्मणवैश्ययोरनधिकारात्। तस्माद्बहिष्प्रयोगे तन्त्रमन्तःप्रयोगे भेद इति निर्णयः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय–
तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके
एकोनविंशोऽनुवाकः॥१९॥
––––––––––
[[953]]
९५३
प्रपा॰ ८ अनु ॰२०] कृष्णायजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयाणां प्रयुजां हविषामभिघानम्)