१८

(अथ प्रथमाष्टकेऽष्टमप्रपाठकऽष्टादशोऽनुवाकः)।
स॒द्यो दक्षि॑यन्ति स॒द्यः सोमं॑ क्रीणन्ति पु–
ण्डरिस्र॒जां प्र य॑च्छति द॒शभि॑र्वत्सत॒रैः सोमं॑
क्रीणाति दश॒पेयो॑ भवति श॒तं ब्रा॑ह्म॒णाः
पि॑बन्ति सप्तद॒शँ स्तो॒त्रं भ॑वति प्राका॒शाव॑–
ध्व॒र्यवे॑ ददाति॒ स्रज॑मुद्गा॒त्रे रु॒क्मँ होत्रेऽश्वं॑
प्रस्तोतृप्रतिह॒र्तृभ्यां॒ द्वाद॑श पष्ठौ॒हीर्ब्र॒ह्मणे॑ व॒–
शां मै॑त्राव॒रुणाय॑र्ष॒भं ब्रा॑ह्मणाच्छँ॒सिने॒
वास॑सी नेष्टापो॒तृभ्याँ॒ स्थूरि॑ यवाचि॒तम॑च्छा–
वा॒काया॑न॒ड्वा॑ह॒मग्नीधे॑ भा॒र्गवो होता॑ भवति
श्राय॒न्तीयं॑ ब्रह्मसा॒मं भ॑वति वार॒वन्तीय॑मग्नि–
ष्टोमसा॒मँ सा॑रस्व॒तीरपो गृ॑ह्णाति (१)॥
(वा॒र॒व॒न्तीयं॑ च॒त्वारि॑ च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टकेऽ–
ष्टमप्रपाठकेऽष्टादशोऽनुवाकः॥१८॥
–––––––––––
(अथ प्रथमकाण्डेऽष्टमप्रपाठकेऽष्टाजषोऽनुवाकः)।
सप्तदशे संसृपां हवीष्युक्तानि। अष्टादशे दशपेय उच्यते। तत्र दीक्षासो-मक्रययोश्चोदकप्राप्तं दिनभेदमपवदितुं विधत्ते –
सद्य इति। प्रकृतावप्सु स्नात्यपोऽश्नातीति यद्विहितं तदपवदितुं विधत्ते –
पुण्डरिस्रजामिति। तदेतत्सूत्रकारः स्पष्टी चकार – “अपो दीक्षायाः स्थाने द्वादशपुण्डरीकां स्रजं प्रतिमुञ्चते” इति। प्रतिमोचयेदित्यर्थः। तदेतत्प्रशंसति –

[[943]]

९४३
प्रपा॰ ८ अनु ॰१८] कृष्णायजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य दशपेयस्याभिधानम्)
“जामि वा एतत्कुर्वन्ति। यत्सद्यो दीक्षयन्ति सद्यः सोमं क्रीणन्ति। पुण्डरिस्रजां प्र यच्छत्यजामित्वाय। अङ्गिरसः सुवर्गे लोकं यन्तः। अप्सु दीक्षातपसी प्रावेशयन्। तत्पुण्डरीकमभवत्। यत्पुण्डरिस्रजां प्रयच्छति। साक्षादेव दीक्षातपसी अवरुन्धे" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ २] इति।
चोदकप्राप्तानि हिरण्यवासःप्रभृतीनि दशविधक्रयद्रव्याण्यपवदितुं विधत्ते –
दशभिरिति। वत्सतरा उपरतस्तनपानाः। अत एव सूत्रकारो विशिनष्टि–
“दशभिर्वत्सतरैः सोमं क्रीणाति" इति। अत्र संख्यां प्रशंसति–
“दशभिर्वत्सतरैः सोमं क्रीणाति। दशाक्षरा विराट् (१) । अन्नं विराट्। विराजैवान्नाद्यमवरुन्धे" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ २] इति।
साण्डत्वं विधाय प्रशंसति–
“मुष्करा भवन्ति सेन्द्रत्वाय" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ २] इति। सेन्द्रत्वमिन्द्रियसामर्थ्यसहितत्वम्। प्रधानं कर्म विधत्ते –
दशपेय इति। दशसु वैकृतचमसेषु पातव्यः सोमरसो यस्मिन्क्रतौ स क्रतुर्दशपेयः। यद्वा–एकैकस्मिन्पात्रे दशभिर्ब्राह्मणैः पातव्यः सोमो यस्मिन्स दशपेयः। एतदेवाभिप्रेत्य सूत्रकार आह – “श्वोभूते पात्रसंसादनकाले दश चमसानधिकान्प्रयुनक्ति तानुन्नयनकाल उन्नयति भक्षणकाले दश दशैकैकस्मिं श्चमसे ब्राह्मणाः सोमपाः सोम भक्षयन्ति” इति। तं विधिं प्रशंसति–
“दशपेयो भवति। अन्नाद्यस्यावरुद्ध्यै" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ २] इति। विधत्ते –
शतमिति। एकैकस्मिन्पात्रे दश दश ब्राह्मणा इति मिलित्वा शतं ब्राह्मणाः पिबन्ति। प्रशंसति–
“शतं ब्राह्मणाः पिबन्ति। शतायुः पुरुषः शतेन्द्रियः। आयुष्येवेन्द्रिये प्रतितिष्ठति" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ २] इति। विधत्ते –
सप्तदशमिति। अस्मिन्क्रतौ यद्यत्स्तोत्रं तस्य सर्वस्य सप्तदशस्तोमत्वमेव कुर्यात्। प्रशंसति –
“सप्तदशँ स्तोत्रं भवति। सप्तदशः प्रजापतिः (२) । प्रजापतेराप्त्यै" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ २] इति। विधत्ते –


१ ख. ०स्तोत्रत्व०।

[[944]]

९४४ श्रीमत्सायणाचार्यविरचितभाष्यत्तमेता [१ प्रथमकाण्डे
(राचसूयविषयस्य दशपेयस्यभिधानम्)
प्राकाशाविति। प्राकाशौ सुवर्णदर्पणौ। प्रशंसति–
“प्राकाशावध्वर्यवे ददाति। प्रकाशमेवैनं गमयति" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ २] इति। हिरण्यस्रजो दानं विधत्ते –
स्रजमिति। तथा च सूत्रकारः – “दक्षिणाकाले हिरण्यप्राकाशवध्वर्यवे ददाति हिरण्यस्रजमुद्गात्रे” इति। प्रशंसति –
“स्रजमुद्गात्रे। व्येवास्मै वासयति" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ २] इति।
अस्य यजमानस्य व्येव विशिष्टमेव दुकूलादिकं वासयति उत्तरीयत्वेनाऽऽ-च्छादयति। वर्तुलस्य स्वर्णाभरणस्य दानं विधत्ते –
रुक्ममिति। प्रशंसति–
“रुक्मँ होत्रे। आदित्यमेवास्मा उन्नयति" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ २] इति। उदयं प्रापयतीत्यर्थः। विधत्ते –
अश्वमिति। ददातीत्यनुषज्यते। द्वाभ्यामेकद्रव्यदानं वाचनिकम्। प्रशंसति–
“अश्वं प्रस्तोतृप्रतिहर्तृभ्याम्। प्राजापत्यो वा अश्वः। प्रजापतेराप्त्यै (३)"। [ब्रा॰ का॰ १ प्र॰ ८ अ॰ २] इति।
अश्वमेधप्रकरणे प्रजापतेरक्ष्यश्वयत्तत्परापतदिति श्रुतेरश्वस्य प्राजापत्यत्वम्।
बालगर्भिणीनां गवां दानं विधत्ते –
द्वादशेति। वत्सद्वाराऽभिवृद्धिसूचनादायुष्याभिवृद्ध्या प्रशंसति –
“द्वादश पष्ठौहीर्ब्रह्मणे। आयुरेवावरुन्धे" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ २] इति। वन्ध्याया गोर्दानं विधत्ते –
वशामिति। वशाशब्देन बुद्धिस्थं वशित्वमभिप्रेत्य प्रशंसति–
“वशां मैत्रावरुणाय। राष्ट्रमेव वश्यकः" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ २] इति। रेतःसेचनसमर्थस्य गोर्दानं विधत्ते –
ऋषभमिति। ऋषभशब्देन बुद्धिस्थमिन्द्रियमित्यभिप्रेत्य प्रशंसति–
“ऋषभं ब्राह्मणाच्छँसिने। राष्ट्रमेवेन्द्रियाव्यकः" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ २] इति। द्वाभ्यां प्रत्येकं वस्त्रदानं विधत्ते –
वाससी इति। धौतवस्त्रयोः शुद्धिहेतुत्वमभिप्रेत्य प्रशंसति–
“वाससी नेष्टापोतृभ्याम्। पवित्रे एवास्यैते" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ २] इति। स्थूलस्य यवपूर्णशकटस्य दानं विधत्ते –

[[945]]

९४५
प्रपा॰ ८ अनु ॰१८] कृष्णायजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य दशपेयस्याभिधानम्)
स्थूरि यवाचितमिति। वारुणं यवमयं चरुमिति श्रुतत्वाद्यवप्रियं वरुणं स्वकीयभागप्रदानेन स्वकीयदेशान्ताद्बहिर्निःसारितवान्भवतीत्यभिप्रेत्य प्रशंसति–
“स्थूरि यवाचितमच्छावाकाय। अन्तत एव वरुणमवयजते (४)"। [ब्रा॰ का॰ १ प्र॰ ८ अ॰ २] इति। विधत्ते –
अनड्वाहमिति। वह्निद्वारकेणोभयोः संबन्धेन प्रशंसति–
“अनड्वाहमग्नीधे। वह्निर्वा अनड्वान्। वह्निरग्नीत्। वह्निमैव वह्नि यज्ञस्या-वरुन्धे” [ब्रा॰ का॰ १ प्र॰ ८ अ॰ २] इति।
दर्शपूर्णमासयोराग्नेयहविर्युक्तस्य शकटस्य वहनादनड्वान्वह्निः। अग्नेरिन्ध-नादाग्नीध्रोऽपि वह्निः। उभयोः संबन्धे सति वह्निरूपेणानुडुहा यज्ञस्य वह्नि वाहकमाग्नीध्राद्यृत्विग्जातं स्वाधीनं करोति।
चोदकप्राप्तं होतृसामान्यादिकं बाधितुं विशेषान्विधत्ते –
भार्गवो होतेति। प्रकृतौ यः कोऽपि होतेत्यत्रापि तत्प्राप्तौ भृगुगोत्रोत्पन्न एवेति विशेष्यते। प्रकृतौ ब्राह्मणाच्छंसिनं प्रत्याज्यस्तोत्रे गायत्रसाम्नो विहि-तत्वात्तदपवादाय श्रायन्तीयं सामात्र विधियते। श्रायन्त इव सूर्यमित्यस्यामृच्युत्पन्नं साम श्रायन्तीयम्। प्रकृतौ यज्ञायज्ञियस्याग्निष्टोमसामत्वात्तदपोद्य वारवन्तीयं साम विधीयते। अश्वं न त्वा वारवन्तमित्यस्यामृच्युत्पन्नं वारवन्तीयं साम। प्रकृतौ वहन्तीनां गृह्णातीति प्रवाहमात्रगतानामपां वसतीवरित्वादत्रापि तत्प्राप्तौ सरस्वतीगता एवाऽऽपो विधीयन्ते। इन्द्रवीर्यत्वेन त्रयं प्रशंसति–
“इन्द्रस्य सुषुवाणस्य त्रेधेन्द्रियं वीर्ये परापतत्। भृगुस्तृतीयमभवत्। श्राय-न्तीयं तृतीयम्। सरस्वती तृतीयम्। भार्गवो होता भवति। श्रायन्तीयं ब्रह्मसामं भवति। वारवन्तीयमग्निष्टोमसामम्। सारस्वतीरपो गृह्णाति। इन्द्रियस्य वीर्यस्यावरुद्ध्यै" [ब्रा॰ का॰ १ प्र॰ ८ अ॰ २] इति।
वारवन्तीयस्येन्द्रवीर्यत्वाभावेनात्र स्तुतेरप्रतीतत्वात्तेन सह स्तोतुं श्रायन्तीयमपि पुनरुपादत्ते –
“श्रायन्तीयं ब्रह्मसामं भवति। इन्द्रियमेवास्मिन्वीर्यँ श्रयति। वारवन्ती-यमग्निष्टोमसामम्। इन्द्रियमेवास्मिन्वीर्यं वारयति (५)"। [ब्रा॰ का॰ १ प्र॰ ८ अ॰ २] इति।


१ ख. व. च. इन्द्रियवी०। २ क. ङ. च. ०स्येन्द्रियवी०।

[[946]]

९४६
श्रीमत्सायणाचार्यविरचितभाष्यत्तमेता [१ प्रथमकाण्डे
(राजसूयविषयस्य दशपेयस्याभिधानम्)
सामनाम्नि श्रयतिधातोः प्रतीत्वाद्यजमानेन वीर्यमाश्रीयते। द्वितीयनाम्नि वारयितृत्वप्रतीतेरस्मिन्यजमाने प्रयुक्तं वैरिवीर्ये निवारितं भवति।
अत्र मीमांसा।
एकादशाध्यायस्य द्वितीयपादे चिन्तितम् –
दशपेये चाभिषेचनीये तन्त्रं भिदाऽथवा।
क्रयसाहित्यतस्तन्त्रं कालभेदेन भिन्नता॥
राजसूये दशपेयाभिषेचनीयसंज्ञकौ द्वौ सोमयागौ। तयोरङ्गानुष्टानं तन्त्रेण कार्यम्। कृतः। क्रयस्याभिन्नत्वात्। ‘सह सोमौ क्रीणाति’ [इति] अभिषे-चनीयस्य यदा सोमक्रयस्तदैव दशपेयस्यापि सोमे क्रेतव्ये सति क्रयात्पूर्वभा-विनां दशपेयाङ्गानामपकर्षात्तन्त्रं स्यादिति प्राप्ते ब्रूमः – भिन्नकालीनयोरभिषे-चनीयदशपेययोरङ्गानां भेदो युक्तः। संसृप्शब्दवाच्याभ्यो दशभ्य इष्टिभ्य ऊ-र्ध्वमपराह्णे दशपेयस्योपक्रमः। ताभ्यः प्राचीनेऽत्यन्तव्यवहिते कालेऽभिषेचनीयः। न च क्रयसाहित्यमस्ति। ‘सद्यो दीक्षयन्ति सद्यः सोमं क्रीणन्ति’ इति दशपेये क्रयस्य सद्यस्कालत्वाभिधानात्। सह सोमावितिवचनेन क्रयार्थसंवादे साहित्यं विवक्षितम्। तस्मादुभयोरङ्गानां भेदः।
तृतीयाध्यायस्य पञ्चमपादे चिन्तितम् –
राजसूये क्कचित्कर्तुश्चमसो दशभिर्जनैः।
भक्ष्यः किं तत्र राजन्या भक्षका ब्राह्मणा उत॥
आद्यो भागा(ना)त्संख्ययैफजातोर्विप्राः शतं दश।
चमसानद्युरित्युक्त्या राजपात्रं च विप्रगम्॥
राजसूये दशपेयनामके यागे श्रुयते – “दश दशैकैकं चमसमनुसर्पन्ति” इति। तत्र यजमानस्य राजन्यस्य यश्चमसः सोऽयं राजन्यैरेव दशभिर्भक्षणीयः। दशेतिसंख्या(ख्य)या जात्येकत्वप्रतिभानात्। तथा हि–दशपेयस्य ज्योतिष्टोमविकृतित्वात्प्रकृतं धर्मजातं चादेकेन प्राप्तम्। प्रकृतौ च यजमानचमसस्य भिन्नजातिभिर्भक्षणं नास्तीत्यत्रापि तथैव प्राप्तम्। यद्यत्र दशेति विशेषो विधियते तर्हि प्राकृतं भक्षकसंख्यामात्रं निवर्त्यतां न त्वेकजातीयत्वम्। तस्माद्राजन्यो यजमानो राजन्यैर्नवभिः सह भक्षयेदिति प्राप्ते ब्रूमः – प्रकृतितः

[[947]]

९४७
प्रपा॰ ८ अनु ॰१८] कृष्णायजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयसंबन्धिनां दिशामवेष्टयः पशुद्वयं सात्यदूतहवींषि चेत्येतेषां विधिः)
प्राप्तेषु दशसु चमसेषु भक्षणायानुसर्पतां पुरुषाणां दश देशेतिवीप्सया प्रतिच-मसं दशसंख्यां विधायार्थसिद्धां शतसंख्यामनूद्य संख्येयानां सर्वेषां ब्राह्मण्यं विधीयते – “शतं ब्राह्मणाः पिबन्ति” इति। तथा सति यजमानस्यापि राज-न्यस्य यत्र भक्षो नास्ति तत्र कुतोऽन्ये राजन्या भक्षयेयुः। तस्माद्ब्राह्मणा एव भक्षकाः। दशमाध्यायस्य तृतीयपादे चिन्तितम्–
किं प्राकाशौ बाधकौ स्तः कृत्स्नस्याऽऽध्वर्यवस्य वा।
ददातियोगात्कृत्स्नस्य न विशिष्टेन योगतः॥
राजसूये श्रूयते – “हिरण्यमयौ प्राकाशावध्वर्यवे ददाति” इति। प्राकाशौ दीपस्तम्बावित्येके। दर्पणावित्यपरे। तौ किं प्राकृतस्य दक्षिणाद्रव्यस्य बाधकौ, उताध्वर्युभागस्यैव। तत्र प्राकाशौ ददातीतिकर्मकारकवाचिद्वितीयाश्रुतिकृतेन दानसंबन्धेन प्राकाशावध्वर्यव इतिवाक्यकृते पुरुषसंबन्धेऽपोदिते सति देयद्रव्यप्रतीतेर्देयान्तरस्य कृत्स्नस्य बाध इति पूर्वः पक्षः। अध्वर्यवे ददातीतिसंप्रदानकारकवाचिचतुर्थीश्रुतिकृतस्य दानक्रियासंबन्धस्यापवदितुमशक्यत्वात्संप्रदानविशिष्टदानक्रियासंबन्धेऽपि द्वितीयाश्रुतेरविरोधादध्वर्युभागस्यैव बाध इति राद्धान्तः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय–
तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठकेऽ–
ष्टादशोऽनुवाकः॥१८॥
––––––––––