(अथ प्रथमाष्टकेऽष्टमप्रपाठके सप्तदशोऽनुवाकः)।
आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति॒ हिर॑ण्यं॒ दक्षि॑णा
सारस्व॒तं च॒रुं व॑त्सत॒री दक्षि॑णा सावि॒त्रं द्वाद॑–
शकपालमुपध्व॒स्तो दक्षि॑णा पौ॒ष्णं च॒रुँ
श्या॒मो दक्षि॑णा बार्हस्प॒त्यं च॒रुँ शि॑तिपृ॒ष्ठो
दक्षि॑णै॒न्द्रमेका॑दशकपालमृष॒भो दक्षि॑णा वारु॒णं
दश॑कपालं म॒हानि॑रष्टो॒ दक्षि॑णा सौ॒म्यं च॒रुं
ब॒भ्रुर्दक्षि॑णा त्वा॒ष्ट्रम॒ष्टाक॑पालँ शु॒ण्ठो दक्षि॑णा
वैष्ण॒वं त्रि॑कपा॒लं वा॑म॒नो दक्षि॑णा (१)॥
(आ॒ग्ने॒यँ हिर॑ण्यँ सारस्व॒तं द्विच॑त्वारिँशत्)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टकेऽ
ष्टमप्रपाठके सप्तदशोऽनुवाकः॥१७॥
––––––––––––––––––––––––
(अथ प्रथमकाण्डेऽष्टमप्रपाठके सप्तदशोऽनुवाकः)।
षोडशे जितवतो राज्ञ इतरसेव्यत्वरूप उपचारो वर्णितः। सप्तदशे संसृपां हवींषि दशसंख्याकानि विधीयन्ते–
आग्नेयमिति। उपरतस्तनपाना वत्सतरी। शुक्लकायः शुण्ठः। तान्येतानि हवींषि प्रशंसति–
“वरुणस्य सुषुवाणस्य दशधेन्द्रियं वीर्यं परापतत्। तत्सँसृद्भिरनु समसर्पत्। तत्सँसृपाँ सँसृप्त्वम्। अग्निना देवेन प्रथमेऽहन्ननु प्रायुङ्क्त। सरस्वत्या वाचा द्वितीये। सवित्रा प्रसवेन तृतीये। पूष्णा पशुभिश्चतुर्थे। बृहस्पतिना ब्रह्मणा पञ्चमे। इन्द्रेण देवेन षष्ठे। वरुणेन स्वया देवतया सप्तमे (१) । सोमेन राज्ञाऽष्टमे। त्वष्ट्रा रूपेण नवमे। विष्णुना यज्ञेनाऽऽप्नोत्। यत्सँसृपो भवन्ति। इन्द्रियमेव तद्वीर्यं यजमान आप्नोति” [ब्रा० का० १ प्र० ८ अ० १] इति।
[[940]]
९४०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– [प्रथमकाण्डे–
(राजसूयविषयाणां संसृपां दशसंख्याकहविषां विधिः)
सुषुवाणस्य सुष्ठु सोममभिषेचनीयकर्मण्यभिषुतवतो वरुणस्येन्द्रियसामर्थ्यं दशधा भूत्वा परापतद्विनष्टम्। स च वरुणस्तदिन्द्रियं संसृप्शब्दाभिहितैर्यथो-क्तहविर्भिरनुक्रमेण सम्यक्प्राप्तवान्। सम्यक्सृप्यते प्राप्यते वीर्यमाभिरग्न्यादि-भिर्देवताभिरिति संसृपो देवतास्तासां हवींष्यपि तन्नामकानि। स वरुणः प्रथमेऽहनि देवेन द्योतनात्मकेनाग्निना सहाष्टाकपालं प्रायुङ्क्ताऽऽग्नेयमष्टाकपालं निरवपदित्यर्थः। द्वितीयेऽहनि वाग्रूपया सरस्वत्या चरुं निरवत्। तृतीये प्रसवकारेणन सवित्रा सह द्वादशकपालं निरवपत्। चतुर्थे पशुभिरुपलक्षितेन पूष्णा सह चरुं निरवपत्। पञ्चमे ब्राह्मणाभिमानिना बृहस्पतिना सह चरुं निरवपत्। षष्ठे द्योतनात्मकेनेन्द्रेण सहैकादशकपालं निरवपत्। सप्तमे स्वकीयदेवतारूपेणातीतकल्पगतवरुणेन सह दशकपालं निरवपत्। अष्टमे राज्ञा यजमानेन सोमेन सह चरुं निरवपत्। नवमे रूपवता त्वष्ट्रा सहाष्टाकपालं निरवपत्। दशमे यज्ञरुपेण विष्णुना सह त्रिकपालं निरुप्य तदिन्द्रियमाप्नोत्। यदि यजमानस्यापि संसृपो यागा भवेयुस्तदाऽसौ यजमान इन्द्रियसामर्थ्यं प्राप्नोतीति। उत्पत्तिविधिभिर्विहितानां संसृपामनेनार्थवादेन भिन्नदिनानुष्ठानविधिरुन्नेयः।अन्यं प्रकारविशेषं विधत्ते –
“पूर्वा पूर्वा वेदिर्भवति। इन्द्रियस्य वीर्यस्यावरुद्ध्यै” [ब्रा० का० १ प्र० ८ अ० १] इति।
पूर्वा पूर्वदिग्गता दिनभेदेन बहुवेदित्वद्योतनार्था वीप्सा। तत्प्रकारश्चापस्त-म्बेन स्पष्टीकृतः – “श्वोभूते परेण सौमिकदेवयजनं दशभिः सप्तभिर्वा संसृपां हविर्भिर्यजत आग्नेयमष्टाकपालमिति पूर्वं पूर्वं देवयजनमध्यवस्यति यत्र *पूर्वस्याऽऽहवनीयस्तत्रोत्तरस्य गार्हपत्य उत्तमायाः प्राग्वंश आहवनीयो बहिर्गार्हपत्यः” इति।
अष्टमनवमदशमानां हविषां स्वस्वदिनेषु कंचित्कालविशेषं विधत्ते –
“पुरस्तादुपसदाँ सौम्येन प्रचरति। सोमो वै रेतोधाः। रेत एव तद्दधाति। अन्तरा त्वाष्ट्रेण। रेत एव हितं त्वष्टा रूपाणि विकरोति। उपरिष्टाद्वैष्णवेन।
––––––––––––––––––––––––––––––––––––––––––––––
- ख. पुस्तकटिप्पण्यां “पूर्वं आहवनीयस्तत्रोत्तरो गार्हपत्यः” इति पाठः।
१ ख. व. ङ. श्व. ०न्द्रियं सा०। २ क. पूर्वपूर्वदे०। ३ ख. व. श्व. पूर्वदे०।
[[941]]
९४१
प्रपा० ८ अनु० १७] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयाणां संसृपां दशसंख्याकहविषां विधिः)
यज्ञो वै विष्णुः। यज्ञ एवान्ततः प्रतितिष्ठति (२)” [ब्रा० का० १ प्र० ८ अ० १] इति।
अभिषेचनीयात्सोमयागादूर्ध्वं दशपेयः सोमयागः कर्तव्यः। तस्य च संसृ-ब्यागसंबन्धिनि सप्तमेऽहन्येका दीक्षा कर्तव्या। तत ऊर्ध्वं त्रिषु दिनेषूपसदः कर्तव्याः। तत्र प्रथमोपसद्दिन उपसद्यागात्पूर्वं सौम्याख्येन संसृपाऽष्टमहविषा प्रचरेत्। मध्यमोपसद्दिने पौर्वाह्णिकापराह्णिकोपसदोर्मध्ये त्वाष्ट्रेण नवमहविषा प्रचरेत्। तृतीयोपसद्दिने पौर्वाह्णिकापराह्णिकोपसदावनुष्ठायोपरिष्टाद्वैष्णवेन दशमहाविषा प्रचरेत्। सोमस्य रेतोधारणहेतुत्वात्प्रथमतस्तत्प्रयोगे यजमानो रेतो दधाति। ततस्त्वष्टुः प्रयोगे सति धृतं रेतोऽवष्टभ्य त्वष्टा रूपाणि विविधानि करोति। विष्णोर्यज्ञरूपत्वादन्ते तद्धविःप्रयोगे सति यजमानो राजसूयादूर्ध्वमपि यज्ञानुष्ठान एव प्रतिष्ठितो भवति। दशपेयतन्त्रमध्ये त्रयाणां हविषामनुष्ठानमापस्तम्बेन स्पष्टीकृतम्। अपराह्णे दशपेयस्य तन्त्रं प्रक्रमयतीत्युपक्रम्यैवं पठ्यते–
“एका दीक्षा तिस्र उपसदः पुरस्तादुपसदाँ सौम्यं चरुं निर्वपति अन्तरा त्वाष्ट्रमष्टाकपालमुपरिष्टाद्वैष्णवं त्रिकपालम्” इति।
अथ मीमांसा।
चतुर्थाध्यायस्य चतुर्थपादे चिन्तितम्–
“किं पुरस्तादुपसदां सौम्येन प्रचरेदिति।
अङ्गाङ्गिभावः कालो वा वाक्यादाद्यः प्रतीयते॥
पुरस्तादिति कालोऽत्र भावी(ति) कालविधिस्ततः।
नाङ्गं कस्यापि सौम्यादि प्रधानमितरेष्टिवत्”॥
राजसूये संसृप्शब्दवाच्यान्याग्नेयाष्टाकपालादीनि दश हवींष्याम्नातानि। तेष्वष्टमनवमदशमानि सौम्यत्वाष्ट्रवैष्णवानि। तद्विषयमिदं वाक्यमाम्नायते– “पुरस्तादुपसदाँ सौम्येन प्रचरति। अन्तरा त्वाष्ट्रेन। उपरिष्टाद्वैषणवेन” इति। योऽयं राजसूये सोमयागस्तस्मिन्नुपदिष्टानामुपसदामादिमध्यावसानेषु सौम्यादीनां त्रयाणामनुष्ठानमनेन वाक्येन चोद्यते। ततो वाक्यात्सौम्यादीन्युपसदामङ्गानीति प्राप्ते ब्रूमः – उपसदामिति षष्ठ्याः कालवाचिना पुरस्तादिति शब्देनान्वयात्सौम्यादीनां कालविशेषसंबन्धपरमिदं वाक्यं न त्वङ्गाङ्गिभावपरम्। ततो न कस्याप्यङ्गं सौम्यादिकं किंत्वनुमत्यादिवत्प्रधानम्॥
१ ख. किंत्वानु०।
[[942]]
९४२
श्रीमत्सायणाचार्यविरचितभाष्यत्तमेता [१प्रथमकाण्डे
(राजसूयविषयस्य दशपेयस्याभिधानम्)
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय–
तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके
सप्तदशोऽनुवाकः॥१७॥
––––––––––