( अथ प्रथमाष्टकेऽमप्रपाठके षोडशोऽनुवाकः )।
मि॒त्रो॑ऽसि॒ वरु॑णोऽसि॒ स॒महं विश्वै॑र्दे॒वैः क्ष॒–
त्त्रस्य॒ नाभि॑रसि क्ष॒त्त्रस्य॒ योनि॑रसि स्यो॒नामा
सी॑द सु॒षदा॒मा सी॑द॒ मा त्वा॑ हिँसी॒न्मा मा॑
हिँसी॒न्नि ष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या॑स्वा
साम्रा॑ज्याय सु॒क्रतु॒र्ब्रह्मा३न्त्वँ रा॑जन्ब्र॒ह्माऽसि॑
[[931]]
९३१
प्रपा॰ ८ अनु॰ १६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य विजयादूर्ध्वमासनोपविष्टस्य सर्वैः सेव्यत्वस्य वर्णनम्)
सवि॒ताऽसि॑ स॒त्यस॑वो॒ ब्रह्मा३न्त्वँ रा॑जन्ब्र॒
ह्माऽसीन्द्रो॑ऽसि स॒त्यौजाः॑ ( १ ) ब्रह्मा३–
न्त्वँ रा॑जन्ब्र॒ह्माऽसि॑ मि॒त्रो॑ऽसि सु॒शेवो॒ ब्रह्मा३–
न्त्वँ रा॑जन्ब्र॒ह्माऽसि॒ वरु॑णोऽसि स॒त्यध॒र्मेन्द्र॑स्य॒
वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्तेन॑ मे रध्य॒ दिशो॒ऽभ्य॑यँ
राजा॑ऽभू॒त्सुश्लो॒काँ३ सुम॑ङ्ग॒लाँ३ सत्य॑रा॒जा–
३न्। अ॒पां नप्त्रे स्वाहो॒र्जो नप्त्रे॒ स्वाहा॒ऽग्नये॑
गृ॒हप॑तये॒ स्वाहा॑॥ २॥
( स॒त्यौजा॑श्चत्वारिँ॒शश्च॑ )॥
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टकेऽ-
ष्टमप्रपाठके षोडशोऽनुवाकः॥१६॥
––––––––
(अथ प्रथमकाण्डेऽष्टमप्रपाठके षोडशोऽनुवाकः)।
पञ्चदशे दिग्विजयोऽभिहितः। षोडशे विजयादूर्ध्वमासन उपविश्य सर्वैः सेव्यत्वं वर्ण्यते।
मित्रोऽसीति। कल्पः — “मित्रोऽसीति दक्षिणं बाहुं यजमान उपावहरते वरुणोऽसीति सव्यम्” इति।
पूर्वं हिरण्यवर्णावुषसामिति मन्त्रेण यजमानस्य बाहू उद्गृहीतौ तयोरिदानी-मधस्तादुपावहरणमुच्यते। हे दक्षिणबाहो त्वं मित्रोऽसि मित्रवद्भोजनादाविष्टार्थप्रापकत्वात्। हे वामबाहो त्वं वरुणोऽसि शौचादावनिष्टनिवारकत्वात्।
समहमिति। कल्पः — “समहं विश्वैर्देवैरिति वैश्वदेव्या[मा]मिक्षायां हस्ता-वुपावहरते” इति। अहं सर्वैर्देवैः संगच्छेयम् ( य )।
मित्रशब्दस्य सूर्यवाचित्वात्तन्नाम्ना व्यवहृतस्य दक्षिणबाहोरहोरूपत्वं वरु-णशब्दस्यान्धकारवदावरकवाचित्वात्तन्नाम्ना व्यवहृतस्य रात्रिरूपत्वमिति व्याचष्टे ––
[[932]]
९३२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयस्य विजयादूर्ध्वमासनोपविष्टस्य सर्वैः सेव्यत्वस्य वर्णनम्)
“मित्रोऽसि वरुणोऽसीत्याह। मैत्रं वा अहः। वारुणी रात्रिः। अहोरा-त्राभ्यामेवैनमुपावहरति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १०) इति।
मित्रावरुणयोरनेकदेवरूपत्वात्सर्वदेवसंबन्धिन्यामामिक्षायां मित्रावरुणात्मकत्वेन निरूपितयोर्हस्तयोरुपावहरणं युक्तमित्येतद्दर्शयति–
“मित्रोऽसि वरुणोऽसीत्याह। मैत्रो वै दक्षिणः। वरुणः सव्यः। वैश्वदेव्यामिक्षा। स्वमेवैनौ भागधेयमुपावहरति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १०) इति।
विश्वैर्देवैरितिपदोच्चारणेन तत्संबन्धिनीनां प्रजानां यजमानभोग्यत्वं संपद्यत इत्यभिप्रेत्य व्यचष्टे–––
“समहं विश्वैर्देवैरित्याह (१) । वैश्वदेव्यो वै प्रजाः। ता एवाऽऽद्याः कुरुते” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १०) इति।
कल्पः — “खादिरीमासन्दीं प्रतिष्ठाप्य क्षत्रस्य नाभिरसीति तस्यां कृत्त्यधी-वासमास्तीर्य” इति। कृत्त्यधीवासं चर्मपटः। पाठस्तु–––
क्षत्रस्येति। हे कृत्त्यधीवास क्षत्रस्योपवेशनाय त्वं नाभिवन्मध्यस्थानमसि। मातृवद्धारकत्वेन क्षत्रस्य योनिः कारणमसि। विधत्ते ––
“क्षत्रस्य नाभिरसि क्षत्रस्य योनिरसीत्यधीवासमास्तृणाति सयोनित्वाय” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १०) इति।
योनिरसीति चर्मपटस्य कारणत्वेन भावनया सकारणत्वं क्षत्रस्य संपद्यते।
स्योनामिति। कल्पः — “स्योनामा सीद सुषदामा सीदेति तामासाद्य यज-मानो मा त्वा हिँसीन्मा मा हिँसीदित्युपविशति” इति।
हे मदीयशरीर स्योनां सुखकरीमेनामासन्दीं प्रत्यासीद समीपस्थं भव। सुषदां सुखेनोपवेष्टुं योग्यामासीद। इयमासन्दी त्वां शरीरं मा हिंसीत्। मामपि शरीरस्वामिनं मा हिंसीत्। मन्त्रद्वयार्थस्य विस्पष्टतां दर्शयति–––
“स्योनामा सीद सुषदामा सीदेत्याह। यथायजुरेवैतत्। मा त्वा हिँसीन्मा मा हिँसीदित्याहाहिँसायै” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १०) इति।
कल्पः — “निषसाद धृतव्रत इत्यासीनमनुमन्त्रयते” इति। पाठस्तु–
नि षसादेति। अयं यजमानो धृतव्रतः स्वीकृतयज्ञो वरुणोऽनिष्टनिवारको भूत्वा निषसादास्यामासन्द्यामुपविवेश। पस्त्यासु बहुषु वैरिगृहेष्वागत्य साम्राज्यं कर्तुं सुक्रतुः शोभनसंकल्पो भवति।
[[933]]
९३३
प्रपा॰ ८ अनु॰ १६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य विजयादूर्ध्वमासनोपविष्टस्य सर्वैः सेव्यत्वस्य वर्णनम्)
साम्राज्यमुद्दिश्य सम्यक्संकल्पसिद्धिमेव दर्शयति–––
“निषसाद धृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय सुक्रतुरित्याह। साम्रा-ज्यमेवैनँ सुक्रतुं करोति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १० ) इति।
कल्पः — “तमृत्विजो रत्निनश्च सर्वतः पर्युपविशन्ति पुरस्तादध्वर्युर्दक्षिणतो ब्रह्मा पश्चाद्धोतोत्तरत उद्गाता, उपविष्टेषु ब्रह्मा३न् ओमित्यध्वर्युं राजा मन्त्रयते त्वँ राजन्ब्रह्माऽसीतीतरः प्रत्याहैवं ब्रह्माणं होतारमुद्गातारं चोत्तरोत्तरेणेतरे प्रत्याहुः” इति। एतेषामष्टानां मन्त्राणां पाठस्तु––
ब्रह्मा३न्त्वमिति। दूरादाह्वातुं प्लुतिः। हे राजंस्त्वमेव ब्रह्माऽसि ब्राह्मणोऽसि न त्वहम्। कुतः। यतस्त्वमेव सविताऽसि ब्राह्मणधर्मान्पालयन्नस्माक-मनुष्ठानायानुज्ञाताऽसि। सत्यसवस्त्वममोघानुज्ञः। अतो ब्राह्मणवर्णाश्रमधर्माणां त्वदधीनत्वात्त्वमेव ब्रह्मा। तथेन्द्रोऽसि परमैश्वर्यवानसि। सत्यौजा अमोघवीर्योऽसि। तथा मित्रोऽसि शिष्टपरिपालनाय देव(मित्र)नामाऽसि। सुशेवः सुष्ठु सेवितुं योग्योऽसि। तथा वरुणोऽस्यनिष्टनिवारकोऽसि। सत्यधर्मा शास्त्रीयधर्मयुक्तोऽसि। यथा लोके परराष्ट्रं जित्वा समागत्य सिंहासने समासीनं राजानमध उपविष्टाः पुरोहितादयो बहुभिराशीर्भिः स्तुतिभिश्च स्तुवन्ति तद्वदत्रापि सेवोपचारः क्रियते। एतयाऽऽशीर्वादरूपया सेवया ब्राह्मणेषु यत्सामर्थ्यं शापानुग्रहरूपं तद्राजनि प्रतिष्ठापितं भवति। तदेतदभिप्रेत्य वाजसनेयिनो बृहदारण्यके क्षत्रियसृष्टिप्रस्तावे समामनन्ति – “क्षत्रात्परं नास्ति तस्माद्ब्राह्मणः क्षत्रियमधस्तादुपास्ते राजसूये क्षत्र एव तद्यशो दधाति” इति।
यथोक्तार्थपरत्वेन मन्त्रान्व्याचष्टे––
“ब्रह्मा३न्त्वँ राजन्ब्रह्मासि सविताऽसि सत्यसव इत्याह। सवितारमेवैनँ सत्यसवं करोति (२) । ब्रह्मा३न्त्वँ राजन्ब्रह्माऽसीन्द्रोऽसि सत्यौजा इत्याह। इन्द्रमेवैनँ सत्यौजसं करोति। ब्रह्मा३न्त्वँ राजन्ब्रह्माऽसि मित्रोऽसि सुशेव इत्याह। मित्रमेवैनँ सुशेवं करोति। ब्रह्मा३न्त्वँ राजन्ब्रह्माऽसि वरुणोऽसि सत्यधर्मेत्याह। वरुणमेवैनँ सत्यधर्माणं करोति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १०) इति।
१ क. ०हवानं प्लु०।
[[934]]
९३४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयस्य विजयादूर्ध्वमासनोपविष्टस्य सर्वैः सेव्यत्वस्य वर्णनम्)
सवितेन्द्रो मित्र इति देवतापदानामुच्चारणेन तद्देवताप्रियाणां छन्दसामुच्चारणं संपद्यत इति दर्शयति––
“सविताऽसि सत्यसव इत्याह। गायत्रीमेवैतेनाभिव्याहरति। इन्द्रोऽसि सत्यौजा इत्याह। त्रिष्टुभमेवैतेनाभिव्याहरति (३) । मित्रोऽसि सुशेव इत्याह। जगतीमेवैतेनाभिव्याहरति। सत्यमेता देवताः। सत्यमेतानि छन्दाँसि। सत्य-मेवावरुन्धे” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १०) इति।
एता इन्द्रादयो देवताः सत्यं पालयन्त्येतानि गायत्र्यादिच्छन्दांसि च सत्य-ममोघं फलं प्रयच्छन्ति। अत उभयोः सत्यरूपत्वादिन्द्रादिपदोच्चारणेन गाय-त्र्याद्युच्चारणासिद्धिः। तेन यजमानः सत्यवादित्वमेव सर्वतः संपादयति।
वरुणपदोच्चारणेनानुष्टुबुच्चारणसिद्धिं दर्शयति–––
“वरुणोऽसि सत्यधर्मेत्याह। अनुष्टुभमेवैतेनाभिव्याहरति। सत्यानृते वा अनुष्टुप्। सत्यानृते वरुणः। सत्यानृते एवावरुन्धे (४)” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १०) इति।
विश्वे देवस्य नेतुरित्यस्यामनुष्टुभि प्रथमपादः सप्ताक्षर इत्यनृतत्वम्। उत्तरे त्रयः पादा अष्टाक्षरा इति सत्यत्वम्। एतच्च “एकस्मादक्षरादनाप्तं प्रथमं पद-म्” इत्यादिब्राह्मणेनैव दर्शितम्। वरुणोऽपि क्वचिदनिष्टकारित्वादनृतरूपः। क्वचित्तन्निवर्तकत्वात्सत्यरूपः। एतच्च “वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेद्वरुणमेव स्वेन भागधेयेनोपधावति स एवैनं वरुणपाशान्मुञ्चति” इत्यादिषु ब्राह्मणेषु स्पष्टं द्रष्टव्यम्। अत उभयरूपत्वसाम्याद्वरुणपदोच्चारणेनानुष्टुबुच्चारिता भवति। तेन च यजमानोऽनृतं त्यक्तुं सत्यं वक्तुं च समर्थत्वात्सत्यानृते स्वाधीने करोति। वेदनं प्रशंसति –
“नैनँ सत्यानृते उदिते हिँस्तः। य एवं वेद” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १०) इति।
कल्पः — “इन्द्रस्य वज्रोऽसीति स्फ्यं ब्रह्मा राज्ञे प्रयच्छति” इति। पाठस्तु–
इन्द्रस्येति। हे स्फ्य वज्रतृतीयांशत्वात्त्वं वज्रोऽसि। स्फ्यस्तृतीयमिति श्रुतेः। यतो विरोधिघाती त्वं तेन कारणेन मे मदर्थं रध्य द्यूतस्थानपरिलेखनरूपं कार्यं साधय। विधत्ते –––
[[935]]
९३५
प्रपा॰ ८ अनु॰ १६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य विजयादूर्ध्वमासनोपविष्टस्य सर्वैः सेव्यत्वस्य वर्णनम्)
“इन्दस्य वज्रोऽसि वार्त्रघ्न इति स्फ्यं प्रयच्छति। वज्रो वै स्फ्यः। वज्रे-णैवास्मा अवरपरँ रन्धयति। एवँ हि तच्छ्रेयः। यदस्मा एते रध्येयुः” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १० ) इति।
रध्येत्युच्चारणेनास्मै यजमानायावरं परं चापेक्षितं सर्वकार्यं रन्धयति साधयति। यद्यदि यजमानायैते कार्यविशेषा रध्येयुः सिध्येयुः। एवं सति श्रेयो हि तत्प्रशस्ततरं खलु।
दिश इति। कल्पः — “दिशोऽभ्ययँ राजाऽभूदिति पञ्चाक्षान्राज्ञे प्रयच्छति” इति।
अयं यजमान ऊर्ध्वदिक्सहिताः पञ्च दिशोऽभिलक्ष्य राजाऽभूत् विधत्ते ––
“दिशोऽभ्ययँ राजाऽभूदिति पञ्चाक्षान्प्रयच्छति। एते वै सर्वेऽयाः अपरा-जायिनमेवैनं करोति (५)” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १०) इति।
अक्षाः कपर्दकाः सुवर्णनिर्मिताः। विभीतकफलानि सौवर्णानीत्येकै। ते चाक्षा द्यूतस्थाने निवपनीयाः। तथा चाऽऽपस्तम्बेन दर्शितम् – “अक्षावापोऽधिदेवनमुद्धत्यावोक्ष्याक्षान्निवपेत्सौवर्णान्परःशतान्परःसहस्रान्वा” इति। तेभ्यः पञ्चाक्षानुद्गृह्य जितवानयं राजेत्यभिप्रायेण तस्मै राज्ञे दद्यात्। एत एव पञ्चाक्षा अयाः सर्वे संपद्यन्ते। अयशब्दोऽक्षवाची। पञ्चदिग्वर्त्यक्षाभिप्रयिण पञ्चाक्षाणां दत्तत्वाद्राशिस्थाः सर्वेऽप्याक्षा दत्ता भवन्ति। तथा सत्येनं यजमानमपराजायिनं कदाचिदपि पराजयरहितमेव करोति। विधत्ते ––
“ओदनमुद्ब्रुवते। परमेष्ठी वा एषः। यदोदनः। परमामेवैनँ श्रियं गमयति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १०) इति।
अधिदेवनकाल ओदनं पणत्वेन सर्वे परस्परं ब्रूयुः। अन्नाद्वै प्रजाः प्रजायन्त इति श्रुतेरोदनः परमेष्ठिरूपः। तथा सत्योदनपणप्रतिज्ञया परमां श्रियं यजमानः प्राप्नोति।
सुश्लोकाँ३ इति। कल्पः — " मङ्गल्यनाम्नो राजाऽऽह्वयति सुश्लोकाँ३ इति संग्रहीतारं सुमङ्गलाँ३ इति भागदुघं सत्यराजा३निति क्षत्तारम्” इति।
शोभनः श्लोकः स्तुतिर्यस्यासौ सुश्लोकः कोशाध्यक्षोऽश्वप्रग्रधारी वा। तावुभावपि स्वस्वकार्यं सम्यगनुतिष्ठन्तौ शोभनस्तपतियुक्तौ भवतः। शोभनं मङ्गलं मर्यादानुल्लङ्घनेन प्रजाभ्यः करादानरूपं यस्य भागदुघस्य सोऽयं सुमङ्गलः।
[[936]]
९३६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयस्य विजयादूर्ध्वमासनोपविष्टस्य सर्वैः सेव्यत्वस्य वर्णनम्)
सत्यस्यावश्यंभाविनोऽन्तःपुररक्षणस्य स्वामी क्षत्ता सत्यराजा। एतेषां संबोधनानि प्लुतयश्च दूरादाह्वानार्थाः। द्वयोः सानुनासिकत्वं सांप्रदायिकम्।
स्वकीयाः संग्रहीत्रादयः सुश्लोकादयो भूयासुरित्येवमाशीःपरतया व्याचष्टे––
“सुश्लोकाँ३ सुमङ्गलाँ३ सत्यराजा३नित्याह। आशिषमेवैतामाशास्ते” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १०) इति। विधत्ते –––
“शौनःशेपमाख्यापयते। वरुणपाशादेवैनं मुञ्चति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १०) इति।
शुनःशेपेन दृष्टं शास्त्रं शौनःशेपं, तदध्वर्युर्होतारं वाचयेत्। तेन यजमानं वरुणपाशान्मोचयतीति। तत्र ऋक्संख्यां विधत्ते ––
“परःशतं भवति। शतायुः पुरुषः शतेन्द्रियः। आयुष्येवेन्द्रिये प्रतितिष्ठति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १०) इति।
परःशतं शतादधिकम्। ऋक्संख्या चाऽऽपस्तम्बेन स्पष्टीकृता – “शौनः-शेपमाख्यापयत ऋचो गाथामिश्राः परःसहस्रा वा” इति। विधत्ते –––
“मारुतस्य चैकविँशतिकपालस्य वैश्वदेव्यै चाऽऽमिक्षाया अग्नये स्विष्टकृते समवद्यति। देवताभिरेवैनमुभयतः परिगृह्णाति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १०) इति।
समवद्यति समस्यैकीकृत्यावद्येत्। तेनोभयतः कर्मद्वयेऽवस्थिताभिर्देवताभि-रेवैनं यजमानमुभयोः पार्श्वयोः पालितवान्भवति।
अपां नप्त्र इति। कल्पः — " अवभृथेन प्रचर्यापां नप्त्रे स्वाहेत्यप्सु जुहोत्यूर्जो नप्त्रे स्वाहेत्यन्तरा दर्भस्तम्बे स्थाणौ वल्मीकवपायां वा हुत्वाऽग्नये गृहपतये स्वाहेति प्रत्येत्य गार्हपत्ये हुत्वा” इति।
अपां नप्त्रे नपातयित्रे विनाशमकुर्वते वह्नये। न खल्वग्निरपो नाशयति किं-तूत्पादयति। अग्नेराप इति सृष्टिप्रकरणे श्रवणात्। ऊर्जो बलस्य नपातयित्रे वह्नय ऊर्जो नप्त्रे। उदराग्निना भुक्तेऽन्ने जीर्णे सति बलं वर्धते न तद्विनाश्यते। विधत्ते ––
“अपां नप्त्रे स्वाहोर्जां नप्त्रे स्वाहाऽग्नये गृहपतये स्वाहेति तिस्र आहुती-र्जुहोति। त्रय इमे लोकाः। एष्वेव लोकेषु प्रतितिष्ठिति (६)” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १०) इति। अत्र विनियोगसंग्रहः —
[[937]]
९३७
प्रपा॰ ८ अनु॰ १६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य विजयादूर्ध्वमासनोपविष्टस्य सर्वैः सेव्यत्वस्य वर्णनम्)
“बाहू अधो हरेद्द्वाभ्यां मित्रेति वरुणेति च।
स्वाम्युपाहृत्य बाहू सं वैश्वदेव्यां प्रसादयेत्॥
क्षत्राऽऽसन्द्यां तु खादिर्यां कृत्त्यधीवाससंस्तृतिः।
स्योना स्वामी समागत्य मा त्वा तत्रोपसीदति॥
नि षोपविष्टं संमन्त्र्य ब्रह्मा३नध्वर्युमीरयेत्।
प्रत्याह सोऽपि त्वमिति ब्रह्मा होता च सामगः॥
राज्ञोक्ता उत्तरं प्राहुरिन्द्र स्फ्यं स्वामिनेऽर्पयेत्।
दिशोऽक्षान्दापयेत्पञ्च सुश्लोक इति च क्रमात्॥
संग्रहीता भागदुघः क्षत्ता चाऽऽहूयते त्रिभिः।
अपां जुहोत्यप्सु दर्भे गार्हपत्ये त्रिभिः क्रमात्।
अनुवाके षोडशेऽस्मिंस्त्रयोविंशतिरीरिताः”॥ इति।
अथ मीमांसा।
तृतीयाध्यायस्य तृतीयपादे चिन्तितम्––
“राजसूयेऽभिषेच्याख्ये यागे ये देवनादयः।
तच्छेषास्तेऽखिलार्था वा तच्छेषास्तस्य संनिधेः॥
राजसूयकथंभावानुवृत्तेः सर्वशेषता।
कल्प्याऽऽकाङ्क्षाऽभिषेच्यस्य प्रक्रिया प्रबला ततः”॥
राजसूये पश्विष्टिसोमयागा बहवः प्रधानभूताः तत्राभिषेचनीयाख्यः कश्चि-त्सोमयागः। तत्संनिधौ देवनादयः श्रूयन्ते –– “अक्षैर्दीव्यति राजन्यं जिनाति शौनःशेपमाख्यापयते” इति। जिनाति जयति। बह्वृचब्राह्मणे समाम्नातं शुनःशेपविषयमुपाख्यानं शौनःशेपम्। तत्र संनिधिबलाद्देवनादयोऽभिषेचनी-याङ्गमिति चेन्मैवम्। राजसूयस्य कथंभावाकाङ्क्षायामनुवृत्तायां विहिता देव-नादयः प्रकरणेन राजसूयशेषाः। राजसूयश्च बहुयागात्मक इत्यत्र सर्वशेष-त्वम्। न चाभिषेचनीयस्य काचिदाकाङ्क्षा देवनादिष्वस्ति। ज्योतिष्टोमविकृतित्वेनातिदिष्टैः प्राकृताङ्गैरेव तदाकाङ्क्षारूपमवान्तरप्रकरणमादौ परिकल्प्य तद्द्वारा वाक्यलिङ्गश्रुतिकल्पनया संनिधिर्विप्रकृष्यते। राजसूयाकाङ्क्षारूपं तु महाप्रकरणं कॢप्तत्वादेकया कक्ष्यया संनिकृष्यते। तस्मात्प्रकरणेन संनिधि-बाधात्सर्वशेषा देवनादयः। पञ्चमाध्यायस्य द्वितीयपादे चिन्तितम्––
११८
[[938]]
९३८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयस्य विजयादूर्ध्वमासनोपविष्टस्य सर्वैः सेव्यत्वस्य वर्णनम्)
“अभिषेच्यप्राकृताङ्गसमाप्तौ देवनादिकम्।
मध्ये वा पूर्ववत्सर्वसमाप्तौ देवनादयः॥
अभिषेकोऽपकृष्टोऽस्मात्पूर्वे प्रत्यक्षपाठतः।
देवनाद्यास्ततो मध्ये माहेन्द्रस्तोत्रतः पुरा॥”
राजसूये सोमयागस्याभिषेचनीयस्य संनिधौ देवनशौनःशेपोपाख्यानाभि-षेकाः क्रामेणाऽऽम्नाताः। तत्राभिषेचनीये चोदकप्राप्तमङ्गजातं नारिष्ठन्यायेन प्रथमं संपाद्य पश्चाद्देवनादयः कार्या इति प्राप्ते ब्रूमः – माहेन्द्रस्य स्तोत्रं प्रत्यभि-षिच्यत इति वाक्येन तस्य सोमयागस्य मध्येऽभिषेकोऽपकृष्टः। अभिषेकात्पूर्वभावित्वं विदेवनादीनां प्रत्यक्षपाठप्राप्तम्। ततो माहेन्द्रस्तोत्रादपि पूर्वस्मिन्काले प्रयाजाघारवाद्विदेवनादीनामपकर्षः कर्तव्यः। चतुर्थाध्यायस्य चतुर्थपादे चिन्तितम्–
“एकस्यैवाभिषेच्यस्य तदङ्गं निखिलस्य वा।
राजसूयस्यापकर्षादाद्यः प्रक्रिययोत्तरः”॥
यदेतद्देवनादिकमङ्गमित्युक्तं तदेतदभिषेचनीयस्य सोमयागस्यैकस्यैवाङ्गम्। कुतः। अपकर्षात्। यद्यप्यभिषेचनीयविधेरूर्ध्वं तत्संनिधौ देवनादय आम्नाता-स्तथाऽप्यभिषेचनीयमध्ये तेऽपकृष्यन्ते। माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यत इति वाक्येन राज्ञो यजमानस्याभिषेको माध्यंदिनसवने स्तोत्रकालेऽपकृष्यते। तस्मिन्नपकृष्टे सति ततः पूर्वमाम्नातानां विदेवनादीनामर्थसिद्धोऽपकर्षः। ततो माहेन्द्रस्तोत्रादिवदभिषेचनीयप्रयोगान्तःपातित्वाद्देवनादिकमभिषेनीयस्यैवाङ्गमिति प्राप्ते ब्रूमः – किं तदङ्गत्वे संनिधिः प्रमाणं किंवा प्रयोगपरिकल्पितमवान्तरप्रकरणम्। उभयथाऽपि प्रत्यक्षस्य महाप्रकरणस्य प्रबलत्वाद्देवनादिकं राजसूयस्याङ्गम्। राजसूयशब्दश्चानुमत्यादीन्सर्वान्यागानभिधत्ते। तस्मात्सर्वेषामेतदङ्गम्। अनुष्ठानं तु राजसूयमध्ये क्वचिदपेक्षितमिति वचनबलादभिषेचनीयगतमाहेन्द्रस्तोत्रकाले तदनुष्ठीयते॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके
षोडशोऽनुवाकः॥१६॥
––––––––––
९३९
[[939]]
९३९
प्रपा० अनु० १७] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयाणां संसृपां दशसंख्याकहविषां विधिः)