१५

(अथ प्रथमाष्टकेऽष्टमप्रपाठके पञ्चदशोऽनुवाकः )।
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ऽयं वृ॒त्रं
व॑ध्यान्मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोः प्र॒शिषा॑
युनज्मि य॒ज्ञस्य॒ योगे॑न॒ विष्णोः॒ क्रमो॑ऽसि॒
विष्णोः॑ क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रा॑न्तमसि म॒रुतां॑
प्रस॒वे जे॑षमा॒प्तं मनः॒ सम॒हमि॑न्द्रि॒येण॑ वी॒र्येण
पशू॒नां म॒न्युर॑सि॒ तवे॑व मे म॒न्युर्भू॑या॒न्नमो॑ मा॒त्रे
पृ॑थि॒व्यै माऽहं मा॒तरं॑ पृथि॒वीँ हिँ॑सिषं॒ मा
(१) मां मा॒ता पृ॑थि॒वी हिँ॑सी॒दिय॑द॒स्यायु॑–
र॒स्यायु॑र्मे धे॒ह्यूर्ग॒स्यूर्जं॑ मे धेहि॒ युङ्ङ॑सि॒
वर्चो॑ऽसि॒ वर्चो॒ मयि॑ धेह्य॒ग्नये॑ गृ॒हप॑तये॒
स्वाहा॒ सोमा॑य॒ वन॒स्पत॑ये॒ स्वाहेन्द्र॑स्य॒ बला॑य॒
स्वाहा॑ म॒रुता॒मोज॑से॒ स्वाहा॑ हँ॒सः शु॑चि॒षद्वसु॑–
रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत्। नृ॒ष–
द्व॑र॒सदृ॑त॒सव्द्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा
ऋ॒तं बृ॒हत् (२)।
(हिँ॒सि॒षं॒ मर्त॒जास्त्रीणि॑ च)॥

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टकेऽ
ष्टमप्रपाठके पञ्चदशोऽनुवाकः॥१५॥
––––––––
(अथ प्रथमकाण्डेऽष्टमप्रपाठके पञ्चदशोऽनुवाकः)।
चतुर्दशेऽभिषेक उक्तः। पञ्चदशे रथेन विजयोऽभिधीयते। कल्पः —
“इन्द्रस्य वज्रोऽसि वार्त्रघ्न इति रथमुपावहृत्य” इति। पाठस्तु–––
इन्द्रस्य वज्रोऽसि। व्याख्यातो वाजपेये। विधत्ते –

[[926]]

९२६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयस्य रथेन विजयस्यभिधानम्)
“इन्द्रस्य वज्रोऽसि वार्त्रघ्न इति रथमुपावहरति विजित्यै” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ९) इति।
मित्रावरुणयोरिति। कल्पः — “अथ दक्षिणं योग्यं युनक्ति मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मि यज्ञस्य योगेनेति” इति।
हे दक्षिणाश्च त्वां प्रशास्त्रोराज्ञापयित्रोर्मित्रावरुणयोः प्रशिषा प्रशासनेन यज्ञसंबन्धि(न्ध)निमित्तं रथे युनज्मि। मित्रावरुणपदाभिप्रायं दर्शयति–––
“मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीत्याह। ब्रह्मणैवैनं देवताभ्यां युनक्ति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ९) इति।
ब्रह्मणा मन्त्रेण प्रतिपादिताभ्यां मित्रावरुणदेवताभ्यां प्रशासितो युनक्ति।
रथस्याश्वत्रयोपेतत्वं विधत्ते ––
“प्रष्टिवाहिनं युनक्ति। प्रष्टिवाही वै देवरथः। देवरथमेवास्मै युनक्ति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ९) इति।
तादृशं रथं प्रकारान्तरेण प्रशंसति––
“त्रयोऽश्वा भवन्ति। रथश्चतुर्थः। द्वौ सव्येष्ठसारथी। षट् संपद्यते (१)। षड् वा ऋतवः। ऋतुभिरेवैनं युनक्ति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ९) इति।
सव्येष्ठेत्यत्र दक्षिणस्थेत्यध्याहार्यम्। ततः पार्श्वद्वयवर्तिनौ देवौ सारथी संपद्येते।
कल्पः — “विष्णोः क्रमोऽसीति रथं यजमानोऽत्येति” इति।
विष्णोरिति। एते त्रयो मन्त्रा वाजपेये व्याख्याताः। विधत्ते ––
“विष्णुक्रमान्क्रमते। विष्णुरेव भूत्वेमाल्ँ लोकानभिजयति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ९) इति। प्रियपुत्रस्यान्वारम्भणं विधत्ते ––
“यः क्षत्रियः प्रतिहितः। सोऽन्वारभते। राष्ट्रमेव भवति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ९) इति। प्राप्नोतीत्यर्थः। प्र ससाहिष इत्येतामृचं विधत्ते ––
“त्रिष्टुभाऽन्वारभते। इन्द्रियं वै त्रिष्टुक्। इन्द्रियमेव यजमाने दधाति (२) " (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ९) इति।
सेयमृगुपानुवाक्यकाण्डे चतुर्थप्रपाठकान्ते त्वमग्ने बृहद्वय इत्यस्मिन्ननुवाके समाम्नातेति तत्रैव व्याख्यास्यते।
मरुतामिति। कल्पः — “मरुतां प्रसवे जेषमिति प्रयाति” इति।
मरुत्संज्ञकानां देवानामनुज्ञायां सत्यामहं जेष्यामि।

[[927]]

९२७
प्रपा॰ ८ अनु॰ १५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य रथेन विजयस्यभिधानम्)
तदनुज्ञायां जयहेतुतां दर्शयति––
“मरुतां प्रसवे जेषमित्याह। मरुद्भिरेव प्रसूत उज्जयति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ९) इति।
आप्तमिति। कल्पः — “सधनू राजन्यः पुरस्तादुत्तरतो वाऽवस्थितो भवति तस्मा एतानिषूनस्यत्याप्तं मन इति” इति।
मनोऽभितमाप्तं प्राप्तम्। अमुमेवार्थं दर्शयति––
“आप्तं मन इत्याह। यदेव मनसैप्सीत्। तदापत् " (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ९) इति।
ऐप्सीदातुमिष्टवान्। आपत्प्राप्नोति। विधत्ते ––
“राजन्यं जिनाति। अनाक्रान्त एवाऽऽक्रमते " (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ९) इति।
बाणविमोकेन राजन्ये जिते सति स्वयं शत्रुणाऽनपक्रान्त एव सञ्शत्रुमा-क्रान्तवान्भवति।
समहमिति। कल्पः — “तं जित्वा समहमिन्द्रियेण वीर्येणेति प्रदक्षिणमा-वर्तते” इति। हस्तादीन्द्रियगतेन सामर्थ्येगतेन सामर्थ्येनाहं संगतोऽभूवम्।
मन्त्रपाठेन वीर्यसंगतिं दर्शयति––
“वि वा एष इन्द्रियेण वीर्येणर्ध्यते। यो राजन्यं जिनाति। समहमिन्द्रियेण वीर्येणेत्याह (३)। इन्द्रियमेव वीर्यमात्मन्धत्ते " (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ९) इति। कल्पः —
“पशूनां मन्युरसीति वाराही उपानहावुपमुच्य” इति। पाठस्तु––
पशूनामिति। हे वराहचर्मनिर्मित उपानत्त्वं पशूनां मन्युरूपाऽसि। अतो यथा तव मन्युरूपत्वं तद्वन्ममापि वैरिषु मन्युर्भूयात्। विधत्ते ––
पशूनां मन्युरसि तवेव मे मन्युर्भूयादिति वाराही उपानहावुपमुञ्चते। पशूनां वा एष मन्युः। यद्वराहः। तेनैव पशूनां मन्युमात्मन्धत्ते” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ९) इति। वराहस्याभिनिवेशाधिक्यं मन्युरूपत्वम्।
वाराहत्वं प्रशस्योपानह उपमोकं प्रशंसति––
“अभि वा इयंँ सुषुवाणं कामयते। तस्येश्वरेन्द्रियं वीर्यमादातोः। वाराही

[[928]]

९२८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयस्य रथेन विजयस्यभिधानम्)
उपानहावुपमुञ्चते। अस्या एवान्तर्धत्ते। इन्द्रियस्य वीर्यस्यानात्यै (४) " (ब्रा॰ का॰ १ प्र॰ ७ अ॰९ ) इति।
इयं भूमिः सुषुवाणमभिषिक्तमभिलक्ष्य तदीयमिन्द्रियं वीर्यमादातुं कामयते। कामयित्वा च तस्येन्द्रियं वीर्यमादातुमीश्वरा शक्ता भवति। उपानदुपमोकेन भूम्याः सकाशादन्तर्धानं कृतवान्भवति। तस्यान्तर्धानमनात्यै भूम्या वीर्यस्या-स्वीकाराय भवति। कल्पः —
“नमो मात्र इत्यवरोक्ष्यन्पृथिवीमभिमन्त्र्य” इति। पाठस्तु–––
नमो मात्र इति। अम्योन्यहिंसाभावप्रार्थनं विस्पष्टम्। एतदेव दर्शयति ––
“नमो मात्रे पृथिव्या इत्याहाहिँसायै” (ब्रा॰ का॰ १ प्र॰ ७ अ॰९ ) इति।
कल्पः — “अवरुह्य मणीन्प्रतिमुञ्चत इयदसीति राजतमूर्गसीत्यौदुम्बरं युङ्-ङसीति सौवर्णम्” इति। औदुम्बरं ताम्रमयम्। पाठस्तु–––
इयदिति। हे राजतमणे त्वमियदस्येतावत्परिणोऽसि। अत्र तत्परिमाणं हस्तेनाभिनीयते। परिमितत्वादेवाऽऽयुःस्वरूपोऽसि तस्मादायुर्मे प्रयच्छ। हे ताम्रमण ऊर्गसि बलरूपोऽस्यतो बलं मे प्रयच्छ। हे सौवर्णमणे युङ्ङसि धारयितुं योग्योऽसि। धारिते सति च वर्चोऽसि तेजस्वी भवस्यतो मे कान्तिं प्रयच्छ। मन्त्राणां पाठादेव तदुक्तफलसिद्धिं दर्शयति–––
“इयदस्यायुरस्यायुर्मे धेहीत्याह। आयुरेवाऽऽत्मन्धत्ते। ऊर्गस्यूर्जं मे धेही-त्याह। ऊर्जमेवाऽऽत्मन्धत्ते। युङ्ङसि वर्चोऽसि वर्चो मयि धेहीत्याह। वर्च एवाऽऽत्मन्धत्ते” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ९) इति। विधत्ते –
“एकधा ब्रह्मण उपहरति। एकधैव यजमान आयुरूर्जं वर्चो दधाति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰९ ) इति। तदिदं सूत्रकारेण स्पष्टीकृतम्––
“उपहूतायामिडायामुन्मुच्य मणीन्ब्रह्मणे ददाति” इति। कल्पः —
“अग्नये गृहपते स्वाहेति रथविमोचमीयान्होमान्हुत्वा” इति। पाठस्तु–––
अग्नय इति। स्पष्टोऽर्थः। विधत्ते –––
“रथविमोचनीया जुहोति प्रतिष्ठित्यै (५)” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ९) इति। पाठप्राप्तामाहुतिसंख्यां प्रशंसति–––
“त्रयोऽश्वा भवन्ति। रथश्चतुर्थः। तस्माच्‍चतुर्जुहोति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ९) इति। कल्पः —

[[929]]

९२९
प्रपा॰ ८ अनु॰ १५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(राजसूयविषयस्य रथेन विजयस्यभिधानम्)
“हँसः शुचिषदिति सह संग्रहीत्रा रथवाहने रथमत्यादधाति” इति।
अश्वस्य प्रग्रहं सम्यग्गृह्णातीति संग्रहीता। पाठस्तु ––
हँस इति। हन्ति पृथिवीमिति हंसो रथः। शुचौ देवयजने रथवाहने च सीदतीति शुचिषत्। स्वस्योपरि यजमानं वासयतीति वसुः। तरुगुल्माद्यनवरुद्धेऽन्तरिक्षे सीदतीत्यन्तरिक्षसत्। होता होतृसमानः। तदेव कथमित्युच्यते–दुरोणेषु गृहेषु सीदतीति दुरोणसत्। यो यस्तमारोढुं नयति तस्य तस्य गृहे सीदति। नृषु मनुष्येषूपकारं कर्तुं सीदतीति नृषत्। वरे श्रेष्ठे राजादिगृहे सीदतीति वरसत्। ऋते यज्ञे वाजपेयादौ सीदतीत्यृतसत्। सूर्यं वोढुं व्योमन्याकाशे सीदतीति व्योमसत्। अप्सुयोनिर्वा अश्व इति श्रुतेरद्भयो जातैरश्वैरुपेतत्वादब्जाः। गोशब्दवाच्याद्वज्राज्जायत इति गोजाः। एतच्‍च स्फ्यस्तृतीयँ रथस्तृतीयमित्याम्नातम्। ऋतजाः प्रष्टिवाहिन ऋतार्थं यज्ञार्थं जातत्वात्। अद्रिभ्यः पाषाणसदृशेभ्यो दृढेभ्यः काष्ठेभ्यो जातत्वादद्रिजाः। ईदृशो रथो बृहत्प्रौढं राजसूयाख्यमृतं यज्ञं संपादयत्विति शेषः। विधत्ते ––
“यदुभौ सहावतिष्ठेताम्। समानं लोकमियाताम्। सह संग्रहीत्रा रथवाहने रथमादधाति। सुवर्गादेवैनं लोकादन्तर्दधाति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰९) इति।
अश्वप्रग्रहधारी यः संग्रहीता यश्च रथादवरूढो यजमानस्तावुभो सह स्वर्ग-रूपायां वेद्यां यद्यवतिष्ठेतां तदानीं यज्वा चेतरश्च सदृशं लोकं प्राप्नुयातां तच्चायुक्तम्। तस्माद्रथ एवावस्थितेन संग्रहीत्रा सह तं रथं रथवाहने काष्ठे स्थापयेत्। तथा सति संग्रहीता वेदिरूपात्स्वर्गादन्तर्हितो भवति। मन्त्रं विनियुङ्क्ते –
“हँसः शुचिषदित्यादधाति। ब्रह्मणैवैनमुपावहरति। ब्रह्मणा दधाति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ९) इति।
पूर्वमिन्द्रस्य वज्रोऽसीति मन्त्रेणैवैनं रथमुपावहृतवान्। तस्मादिदानीमपि हंस इति मन्त्रेण रथमाधातुं युक्तम्। मन्त्रगतच्छन्दोविशेषं प्रशंसति ––
“अतिच्छन्दसा दधाति। अतिच्छन्दा वै सर्वाणि छन्दाँसि। सर्वेभिरेवैनं छन्दोभिरादधाति। वर्ष्म वा एषा छन्दसाम्। यदति–
११७

[[930]]

९३०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (१ प्रथमकाण्डे–––
(राजसूयविषयस्य विजयादूर्ध्वमासनोपविष्टस्य सर्वैः सेव्यत्वस्य वर्णनम्)
च्छन्दाः। यदतिच्छन्दसा दधाति। वर्ष्मेवैनँ समानानां करोति ( ६ )” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ ९ ) इति।
हंसमन्त्रस्य च्छन्दोऽतिजगती। सा च गायत्र्यादीन्यल्पच्छन्दांस्यतिक्रम्य वर्तत इति तस्या अतिच्छन्दस्त्वम्। अत एव च्छन्दसां तत्रान्तर्भावात्सर्वच्छन्दो-रूपत्वम्। तथा सत्यनया रथ आहिते सति सर्वैश्छन्दोभिराहितो भवति। किं-च, एषाऽतिजगती सर्वेषां छन्दसां शरीरम्। अत्रत्यैरक्षरैः कैश्चित्क्वचित्कस्य-चिच्छन्दसः संपादयितुं शक्यत्वात्। तथा सत्यनया रथाधाने यजमानः सर्वेषां समानानां शरीरस्थानीयो भवति। अत्र विनियोगसंग्रहः —
“इन्द्रेति रथमाहृत्य मित्रेत्येतं युनक्ति हि।
विष्णोस्त्रिभी रथं गत्वा मर्वारुह्य प्रयाति सः॥
आप्तं क्षत्त्र इषुं मुक्त्वा संप्रदक्षिणमाव्रजेत्।
पश्वित्युपानहौ धृत्वा नमो भूम्याभिमन्त्रणम्।
इयन्मणिं राजतं चोर्ग्बध्नात्यौदुम्बरं मणिम्।
युङ्सौवर्णं चाग्न हुत्वा चतस्रो रथमोचनीः॥
हंसो रथं स्थापयीत मन्त्रा अष्टादशेरिताः॥” इति॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके
पञ्चदशोऽनुवाकः॥१५॥
–––––––––––––––